ततः शूर्पणखां रामः कामपाशावपाशिताम् ।
स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥ ३।१८।१ ॥
अथ खरक्रोधहेतुः शूर्पणखाविरुपकरणमष्टादशे तत इत्यादि । ततः तत्र पर्णशालायाम् । अथ शूर्पणखावचनानन्तरम् । स्वच्छया स्पष्टार्थया । श्लक्ष्णया मृद्व्या । काम एव पाशः तेनावपाशितां सञ्जातपाशां बद्धामित्यर्थः ॥ ३।१८।१ ॥
कृतदारो ऽस्मि भवति भार्येयं दयिता मम ।
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥ ३।१८।२ ॥
कृतदारः स्वीकृतभार्यः । करोतेरनेकार्थत्वात् अस्मीत्यस्मिन्नर्थे निपातः । भवतीति शूर्पणखायाः सम्बोधनम् । इष्टात्वेन त्यक्तुमनर्हेत्याह दयितेति । तर्हि “तुल्योनेकत्रदक्षिणः” इत्युक्तदक्षिणो भवेत्याशङ्क्याह त्वद्विधानामिति । सुदुःखा सुतरां दुःखकरी । सपत्न्या सहिता ससपत्नी तस्या भावः ससपत्नता “त्वतलोर्गुणवचनस्य” इति पुंवद्भावः । गुणत्वं चास्य न शुक्लतादिवत् किन्तु कठिनत्वमित्यादिवत् द्रव्यत्वव्यावृतिः । अतः सपत्नीसाहित्यरूपगुणवचनत्वात् पुंवद्भावः ॥ ३।१८।२ ॥
अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः ।
श्रीमानाकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥ ३।१८।३ ॥
अकृतदारः असहकृतदार इत्यर्थः । “न वितथा परिहासकथास्वपि” इत्यक्तेः “अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन” इत्युक्तेश्च अकृतदार इति नार्थः ॥ ३।१८।३ ॥
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः ।
अनुरूपश्च तेभर्ता रूपस्यास्य भविष्यति ॥ ३।१८।४ ॥
पूर्वं भार्यासुखं ज्ञातमनेन । पूर्वी “पूर्वादिनिः” इति इनिः । न पूर्वी अपूर्वी, चिरादज्ञातभार्यासुख इत्यर्थः । अत एव भार्यया अर्थी प्रयोजनवान् । इदं वचनद्वयं स्वभार्याविषयकान्तराशयेन प्रयुक्तम् । अनुरूपश्च तेभर्तेत्यत्र अभर्तेति च्छेदेनान्तराशयः । रूपस्यास्य कुत्सितस्य रूपस्येत्यर्थः ॥ ३।१८।४ ॥
एनं भज विशालाक्षि भर्तारं भ्रातरं मम ।
असपत्ना वरारोहे मेरुमर्कप्रभा यथा ॥ ३।१८।५ ॥
इति रामेण सा प्रोक्ता राक्षसी काममोहिता ।
विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥ ३।१८।६ ॥
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी ।
मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि ॥ ३।१८।७ ॥
विशालाक्षी वर्तुलतया विशालाक्षीत्वमपि गम्यते । अर्कप्रभा मेरुं यथा भजति तथेत्यन्वयः । अर्कप्रभा मेरुं प्राप्ता यथा निवर्तते तथेत्यप्यर्थः । एवं रामो दयालुतया स्वस्मिन् काममोहेन प्राप्तायाः स्त्रियाः सहसा धिक्कारेण दुःखं मा भूदिति परिहासकथां प्रवर्तयामास ॥ ३।१८।५७ ॥
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः ।
ततः शूर्पनखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥ ३।१८।८ ॥
शूर्प इव नखो यस्याः सा शूर्पनखी । सञ्ज्ञाया अविवक्षितत्वात् “स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्” इति ङीष् । असञ्ज्ञात्वादेव “पूर्वपदात्सञ्ज्ञायामगः” इति णत्वाभावः ॥ ३।१८।८ ॥
कथं दासस्य मे दासी भार्या भवितुमिच्छसि ।
सो ऽहमार्येण परवान् भ्रात्राकमलवर्णिनि ॥ ३।१८।९ ॥
दासस्य मे भार्या भूत्वा कथं दासी भवितुमिच्छसि । कस्य दासस्त्वमित्यत्राह सो ऽहमिति । अहमार्येण ज्येष्ठेन भ्रात्रा । परवान् नाथवान् “दूरानात्मोत्तमाः पराः” इत्यमरः । तस्य दासो ऽहमित्यर्थः । अकमलवर्णिनीत्यपि च्छेदः ॥ ३।१८।९ ॥
समृद्धार्थस्य सिद्धार्थामुदितामलवर्णिनी ।
आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥ ३।१८।१० ॥
सिद्धार्था सिद्धनिवृत्तिः । “अर्थो ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु” इत्यमरः । अमुदिता मलवर्णिनीत्यपि । यवीयसी कनिष्ठा हीना च ॥ ३।१८।१० ॥
एनां विरूपामसतीं करालां निर्णतोदरीम् ।
भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥ ३।१८।११ ॥
सीतायां विद्यमानायां कथं मां परिग्रहीष्यतीत्यत्राह एनामिति । एतादृशावस्थां त्वामेव परित्यज्य सीतां भजिष्यतीति हार्दो ऽर्थः । असतीम् अप्रशस्तामिति सीतापक्षे, अतो न पुरः स्फूर्तिकदोषः । करालां दन्तुराम् । निर्णतं निरतिशयम् उदरं यस्यास्ताम् ॥ ३।१८।११ ॥
को हि रूपमिदं श्रेष्ठं सन्त्यज्य वरवर्णिनि ।
मानुषीषु वरारोहे कुर्याद्भावं विचक्षणः ॥ ३।१८।१२ ॥
को हीति विपरीतलक्षणा ॥ ३।१८।१२ ॥
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी ।
मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा ॥ ३।१८।१३ ॥
परिहासाविचक्षणा परिहासानभिज्ञा ॥ ३।१८।१३ ॥
सा रामं पर्णशालायामुपविष्टं परन्तपम् ।
सीतया सह दुर्धर्षमब्रवीत् काममोहिता ॥ ३।१८।१४ ॥
पर्णशालायामित्यनेन लक्ष्मणो बहिरेव स्थित इति गम्यते ॥ ३।१८।१४ ॥
एनां विरूपामसतीं करालां निर्णतोदरीम् ।
वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ॥ ३।१८।१५ ॥
अवष्टभ्य अवलम्ब्य ॥ ३।१८।१५ ॥
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् ।
त्वया सह चरिष्यामि निस्सपत्ना यथासुखम् ॥ ३।१८।१६ ॥
पश्यतः तव त्वयि पश्यति । निस्सपत्ना निष्प्रतिबन्धिका ॥ ३।१८।१६ ॥
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा ।
अभ्यधावत् सुसङ्क्रुद्धा महोल्का रोहिणीमिव ॥ ३।१८।१७ ॥
अलातसदृशेक्षणा निर्ज्वालकाष्ठाग्नितुल्येक्षणा । उल्का निर्गतज्वाला सा चोत्पातकालभाविनी प्रकृते विवक्षिता ॥ ३।१८।१७ ॥
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः ।
निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥ ३।१८।१८ ॥
निगह्य हुंकारेण प्रतिषिद्ध्य ॥ ३।१८।१८ ॥
क्रूरैरनार्यैः सौमित्रे परिहासः कथञ्चन ।
न कार्यः पश्य वैदेहीं कथञ्चित् सौम्य जीवतीम् ॥ ३।१८।१९ ॥
अनार्यैः दुर्जनैः । कथञ्चिज्जीवतीं शूर्पणखायाः क्रौर्यमालोक्य कथञ्चित् स्वास्थ्यमापन्नाम् ॥ ३।१८।१९ ॥
इमां विरूपामसतीमतिमत्तां महोदरीम् ।
राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥ ३।१८।२० ॥
इमामिति । पूर्वमेव विरूपां पुनर्विरूपयेति भावः । एतावत्पर्यन्तमपराधाभावत्तूष्णीं स्थितम्, अद्य सीताक्रमणव्याजेनेमां विरूपयेत्यर्थः ॥ ३।१८।२० ॥
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः ।
उद्धत्य खङ्गं चिच्छेद कर्णनासं महाबलः ॥ ३।१८।२१ ॥
तस्याः कर्णनासमित्यन्वयः । प्राण्यङ्गत्वादेकवद्भावः । रामे बद्धभावाया अपि शूर्पणखायास्तदीयापचारेण हानिर्जातेत्यनुसन्धेयम् ॥ ३।१८।२१ ॥
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च ।
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ ३।१८।२२ ॥
यथागतम् आगतमार्गमनतिक्रम्य वनं प्रदुद्रावेति सम्बन्धः ॥ ३।१८।२२ ॥
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता ।
ननाद विविधान्नादान् यथा प्रावृषि तोयदः ॥ ३।१८।२३ ॥
शोणितोक्षिता रक्तेन सिक्ता । नादान्ननाद नादान् चकारेत्यर्थः । ओदनपाकं पचतीतिवत् । प्रावृषि वर्षकाले ॥ ३।१८।२३ ॥
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना ।
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥ ३।१८।२४ ॥
विक्षरन्ती स्रवन्ती । रुधिरं रक्तम् । प्रगृह्य उद्यम्य ॥ ३।१८।२४ ॥
ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता ।
उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथा ऽशनिः ॥ ३।१८।२५ ॥
तं रामवध्यत्वेन प्रसिद्धम् । यथा ऽशनिः अशनिरिव गगनात् भूमौ पपात । ३।१८।२५ ॥
ततः सभार्यं भयमोहमूर्च्छिता सलक्ष्मणं राघवमागतं वनम् ।
विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा ॥ ३।१८।२६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टादशः सर्गः ॥ १८ ॥
उत्तरसर्गार्थमेकेन सङ्गृह्णाति ततः सभार्यमिति । भयजो मोहोभयमोहः निस्सञ्ज्ञता तेन मूर्च्छिता व्याप्ता । राघवं वनमागतं शशंस आत्मविरूपाणं च सर्वं शशंस, समूलं शशंसेत्यर्थः । खरस्य भगिनी सपत्नीमातृपुत्रत्वान्मातृष्वसेयत्वाच्चेति पूर्वमुपपादितम् ॥ ३।१८।२६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥