०१४ जटायुषः वृत्तान्तः

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः ।

आससाद महाकायं गृध्रं भीमपराक्रमम् ॥ ३।१४।१ ॥

अथ गृध्रराजसमागमश्चतुर्दशे अथ पञ्चवटीमित्यादि ॥ ३।१४।१ ॥

तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ ।

मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥ ३।१४।२ ॥

वटस्थम् अगस्त्योपदिष्टवटस्थम् । पक्षिमिति छान्दसं रूपम् । को भवानिति ब्रुवाणौ सन्तौ राक्षसं मेनाते, राक्षसं मत्वा को भवानित्यब्रूतामित्यर्थः ॥ ३।१४।२ ॥

स तौ मधुरया वाचा सौम्यया प्रीणयन्निव ।

उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥ ३।१४।३ ॥

स तं पितृसखं बुद्ध्वा पूजयामास राघवः ।

स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ॥ ३।१४।४ ॥

सौम्यया सौजन्यपरया । प्रीणयन्निवेति इवशब्द एवकारार्थः । आत्मन इत्यन्ते इतिकरणं ज्ञेयम् । आत्मनो रामस्य ॥ ३।१४।३,४ ॥

रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् ।

आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च ॥ ३।१४।५ ॥

द्विजः आत्मानम् आत्मनाम ॥ ३।१४।५ ॥

पूर्वकाले महाबाहो ये प्रजापतयो ऽभवन् ।

तान्मे निगदतः सर्वानादितः शृणु राघव ॥ ३।१४।६ ॥

कर्दमः प्रथमस्तेषां विश्रुतस्तदनन्तरः ।

शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥ ३।१४।७ ॥

स्थाणुर्मरीचिरत्रिश्च क्रुतश्चैव महाबलः ।

पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥ ३।१४।८ ॥

स्वोत्पत्तिं कथयिष्यन् प्रसङ्गादादौ सर्वभूतसमुद्भवमाह पूर्वकाल इत्यादि ॥ ३।१४।६८ ॥

दक्षो विवस्वानपरो ऽरिष्टनेमिश्च राघव ।

कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ॥ ३।१४।९ ॥

प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् ।

षष्टिर्दुहितरो राम यशस्विन्यो महायशः ॥ ३।१४।१० ॥

अरिष्टनेमिरिति कश्यपविशेषणम् ॥ ३।१४।९,१० ॥

कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः ।

अदितिं च दितिं चैव दनुमप्यथ कालिकाम् ।

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ॥ ३।१४।११ ॥

तासां दुहितृ़णां मध्ये अष्टौ कन्याः प्रतिजग्राह पर्यणैषीत् ॥ ३।१४।११ ॥

तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् ।

पुत्रांस्रैलोक्यभर्तृ़न् वै जनयिष्यथ मत्समान् ॥ ३।१४।१२ ॥

त्रैलोक्यभर्तृ़न् त्रैलोक्यरक्षणक्षमान् ॥ ३।१४।१२ ॥

अदितिस्तन्मना राम दितिश्च मनुजर्षभ ।

कालिका च महाबाहो शेषास्त्वमनसो ऽभवन् ॥ ३।१४।१३ ॥

तन्मनाः तद्वचनदत्तावधाना । कालिका चेत्यत्र चकारेण मनुरप्युच्यते । तन्मना इति दितिकालिकामनूनामपि विशेषणम् । चतस्रः प्रौढपुत्रोत्पादनमनसो ऽभवन्, चतस्रो नाभवन्नित्यर्थः ॥ ३।१४।१३ ॥

अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम ।

आदित्या वसवो रुद्रा ह्यश्विनौ च परन्तप ॥ ३।१४।१४ ॥

भर्तृवचनादरानादरफले दर्शयति अदित्यामित्यादिना । द्वादशादित्याः अष्टौ वसवः एकादशः रुद्राः अश्विनौ द्वौ एवं त्रयस्त्रिंशत् ॥ ३।१४।१४ ॥

दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः ।

तेषामियं वसुमती पुरासीत् सवनार्णवा ॥ ३।१४।१५ ॥

दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिन्दम ।

नरकं कालकं चैव कालिकापि व्यजायत ॥ ३।१४।१६ ॥

क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ।

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ॥ ३।१४।१७ ॥

तेषां दितिपुत्राणाम् ॥ ३।१४।१५१७ ॥

उलूकान् जनयत् क्रौञ्ची भासी भासान् व्यजायत ।

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ॥ ३।१४।१८ ॥

ताम्रावंशं प्रपञ्चयति उलूकानित्यादिना । जनयदित्यत्र आगमशास्त्रस्यानित्यतया नाडागमः ॥ ३।१४।१८ ॥

धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ।

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ॥ ३।१४।१९ ॥

अप्रसक्तवृत्तान्तानादरप्रितिषेधाय मध्ये भद्रं ते इत्युक्तिः । सा भामिनीति धृतराष्ट्रीविशेषणम् ॥ ३।१४।१९ ॥

शुकी नतां विजज्ञे तु नताया विनता सुता ॥ ३।१४।२० ॥

शुकी ताम्रापुत्री । विजज्ञे एवमादयोन्तर्भावितण्यर्थः शब्दाः ॥ ३।१४।२० ॥

दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः ।

मृगीं च मगमन्दां च हरिं भद्रमदामपि ॥ ३।१४।२१ ॥

मातङ्गीमपि शार्दूलीं श्वोतां च सुरभिं तथा ।

सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि ॥ ३।१४।२२ ॥

क्रोधवशा कश्यपपत्नी ॥ ३।१४।२१,२२ ॥

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।

ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा ॥ ३।१४।२३ ॥

अपत्यमिति जात्येकवचनम् । सृमराः स्त्रीणां केशसहायोपयुक्तनविनीलदीर्घवाला मृगाः । चमराः चामरमृगाः ॥ ३।१४।२३ ॥

हर्याश्च हरयो ऽपत्यं वानराश्च तरस्विनः ।

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ ३।१४।२४ ॥

हरयः सिंहाः ॥ ३।१४।२४ ॥

तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ।

मातङ्गास्त्वथ मातङ्ग्या अपत्यं मनुजर्षभ ॥ ३।१४।२५ ॥

मातङ्गाः गजाः ॥ ३।१४।२५ ॥

गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान् ।

दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत् सुतान् ॥ ३।१४।२६ ॥

ततो दुहितरौ राम सुरभिर्द्वे व्यजायत ।

रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ॥ ३।१४।२७ ॥

रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान् ।

सुरसा ऽजनयन्नागान् राम कद्रूस्तु पन्नगान् ॥ ३।१४।२८ ॥

गोलाङ्गूलाः अत्यन्तदीर्घलाङ्गूलाः मर्कटजातिविशेषाः । रोहिण्यजनयद्गा वै इति पाठः । नागाः बहुफणाः सर्पाः । पन्नगाः केवलसर्पाः ॥ ३।१४।२६२८ ॥

मनुर्मनुष्यान् जनयद्राम पुत्रान् यशस्विनः ।

ब्राह्मणान् क्षत्ित्रयान् वैश्यान् शूद्रांश्च मनजर्षभ ।

सर्वान् पुण्यफलान् वृक्षाननलापि व्याजायत ॥ ३।१४।२९ ॥

मनुः कश्यपपत्नी । पुण्यफलान् चारुफलान् । “पुण्यं तु चारु” इत्यमरः । विषवृक्षनिम्बादयोपि महौषधत्वेन पुण्यफला एव । पिण्डफलानितिपाठे पिण्डाकारफलानित्यर्थः । प्रायिकं चैतदिति बोध्यम् ॥ ३।१४।२९ ॥

विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा ।

कद्रूर्नागं सहस्रस्यं विजज्ञे धरणीधरम् ॥ ३।१४।३० ॥

द्वौ पुत्रौ विनतायास्तु गरुडो ऽरुण एव च ।

तस्माज्जातो ऽहमरुणात् सम्पातिस्तु ममाग्रजः ॥ ३।१४।३१ ॥

एवं प्रासङ्गिकं परिसमाप्य स्वकुलमवतारयति विनता चेति । अत्र कद्व्रा उपादानं स्वप्रतिपक्षकुलत्वेनेति केचित् । वस्तुतस्तु धरणीधरशेषजनकत्वेन स्वकुलतुल्यत्वं वक्तुं “कद्रूर्नागं सहस्रास्यं विजज्ञे धरणीधरम्” इत्युक्तम् ॥ ३।१४।३०,३१ ॥

जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम ॥ ३।१४।३२ ॥

श्येनीपुत्रमिति इयं च श्येनी पूर्वोक्ताया अन्या ॥ यद्वा कश्यपसुता श्येनीमाता कश्यपस्य पञ्चमो ऽरुणः । पिता कश्यपप्रजापतिः कूटस्थ इति स्वीयवंशप्रभावो निवेदितः । विधिनिषेधयोस्तिर्यङ्क्ष्वभावान्न मातृपुत्रयोरेकवंश्यत्वादिदोषः । अयं च सृष्टिक्रमो वैवस्वतमन्वन्तरप्रकारः । अतो न पुराणान्तरविरोधः ॥ ३।१४।३२ ॥

सो ऽहं वाससहायस्ते भविष्यामि यदीच्छसि ।

इदं दुर्गं हि कान्तारं मृगराक्षससेवितम् ।

सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ ३।१४।३३ ॥

सो ऽहमिति । वाससहायः वासस्थले सीतायाः रक्षणे सहाय इत्यर्थः । यदीच्छसि, उक्तार्थमिति शेषः । सहायापेक्षत्वे हेतुमाह इदमिति याते मृगयार्थमिति शेषः ॥ ३।१४।३३ ॥

जटायुषं तं प्रतिपूज्य राघवो मुदा पिरष्वज्य च सन्नतो ऽभवत् ।

पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा सङ्कथितं पुनः पुनः ॥ ३।१४।३४ ॥

जटायुषमिति । सन्नतौ हेतुमाह पितुर्हीति ॥ ३।१४।३४ ॥

स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा ।

जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षन् शलभानिवानलः ॥ ३।१४।३५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्दशः सर्गः ॥ १४ ॥

सीतां तत्र परिदाय रक्षणाय जटायुवशां कृत्वेत्यर्थः । “यमाय त्वा परिददाम्यसावन्तकाय त्वा परिददाम्यसौ” इत्यादौ तथा प्रयोगात् । शलभानिवानल इत्यनेन लीलया विरोध्युन्मूलनाभिप्रायो ऽवगम्यते ॥ ३।१४।३५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुर्दशः सर्गः ॥ १४ ॥