राम प्रीतो ऽस्मि भद्रं ते परितुष्टो ऽस्मि लक्ष्मण ।
अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ ३।१३।१ ॥
एतादृशस्थले सर्गविच्छित्तिर्नास्तीति प्रतीयते, कथाया अपर्यवसानात् । अथ खरवधायागस्त्येनानुज्ञातस्य रामस्य पञ्चवटीं प्रति प्रयाणं त्रयोदशे रामेत्यादि । ते इत्यस्य लक्ष्मणेत्यत्राप्यन्वयः ॥ ३।१३।१ ॥
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः ।
व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ ३।१३।२ ॥
अध्वश्रमेण मार्गायासेन । प्रचुरः श्रमः श्रमजलं येन सः प्रचुरश्रमः । खेदः वां बाधते । उत्कण्ठते विश्रान्तिमभिलषति । अनेनास्याः श्रमातिशय उच्यते । जनकात्मजेति सौकुमार्यातिशयोक्तिः ॥ ३।१३।२ ॥
एषा हि सुकुमारी च दुःखैश्च न विमानता ।
प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥ ३।१३।३ ॥
एषा सुकुमार्यपि प्राज्यदोषं बहुदोषं वनं प्राप्ता दुःखैर्न विमानिता न परिभूता च । तत्र हेतुः भर्तृस्नेहप्रचोदितेति ॥ ३।१३।३ ॥
यथैषा रमते राम इह सीता तथा कुरु ।
दुष्करं कृतवत्येषा वने त्वामनुगच्छति ॥ ३।१३।४ ॥
इह आश्रमे ॥ ३।१३।४ ॥
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।
समस्थमनुरञ्जन्ति विषमस्थं त्यज्यन्ति च ॥ ३।१३।५ ॥
प्रकृतिः स्वभावः । आसृष्टेः जगत्सृष्टिमारभ्य । समस्थं सुस्थं प्रति । विषमस्थं दुर्दशापन्नम् ॥ ३।१३।५ ॥
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ॥ ३।१३।६ ॥
शतह्रदानां विद्युताम् । लोलत्वं चञ्चलत्वम् । अनुगच्छन्ति चञ्चलचित्तत्त्वादिति भावः । शस्त्राणां तीक्ष्णतां क्रौर्यम् । अनुगच्छन्ति बहुकालागतस्नेहबन्धच्छेदनादिति भावः । गरुडानिलयोः शैघ्य्रम् अनु गच्छन्ति, अविचारेण कार्यकरणादिति भावः ॥ ३।१३।६ ॥
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता ।
श्लाध्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥ ३।१३।७ ॥
एवं लौकिकस्त्रीणां दुष्टस्वभावमुक्त्वा सीतायास्तद्वैलक्षण्यमाह इयन्त्विति । न केवलं दोषरहिता, श्लाध्या सद्भिः प्रशंसनीया च । व्यपदेश्या पतिव्रतास्वग्रगण्या । एवं सीताप्रशंसनं वक्ष्यमाणदेवबन्दीमोचनोत्साहनाय ॥ ३।१३।७ ॥
अलङ्कृतो ऽयं देशश्च यत्र सौमित्रिणा सह ।
वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ॥ ३।१३।८ ॥
अयं देशः आश्रमप्रदेशः । यद्वा भूलोकः । वत्स्यसि दश वर्षसहस्राणि दश वर्षशतानि च ॥ ३।१३।८ ॥
एवमुक्तः स मुनिना राघवः संयताञ्जलिः ।
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ ३।१३।९ ॥
धन्योस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गवः ।
गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥ ३।१३।१० ॥
संयताञ्जलिः बद्धाञ्जलिः ॥ ३।१३।९,१० ॥
किन्तु व्यादिश मे देशं सोदकं बहुकाननम् ।
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ ३।१३।११ ॥
निरतः एकाग्रः ॥ ३।१३।११ ॥
ततो ऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः ।
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥ ३।१३।१२ ॥
ध्यात्वा भाविकार्योचितदेशं ध्यात्वा । धीरः धीमान्, निश्चितकार्योचितदेश इत्यर्थः । धीरतरम् अतिनिश्चितं वचः ॥ ३।१३।१२ ॥
इतो द्वियोजने तात बहुमूलफलोदकः ।
देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः ॥ ३।१३।१३ ॥
तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ।
रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥ ३।१३।१४ ॥
कालो ऽयं गतभूयिष्ठो यः कालस्तव राघव ।
समयो यो नरेन्द्रेण कृतो दशरथेन ते ॥ ३।१३।१५ ॥
तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि ।
धन्यस्ते जनको राम स राजा रघुनन्दन ।
यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ॥ ३।१३।१६ ॥
पञ्चानां वटानां समाहारः पञ्चवटी, तद्युक्तदेशो लक्षणया पञ्चवटीत्युच्यते । पञ्चवटीत्यभिविश्रुतो देश इत्यन्वयः ॥ ३।१३।१३१६ ॥
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ ।
तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ॥ ३।१३।१७ ॥
मम पितृवाक्यपरिपालनप्रकारः कथं ज्ञात इत्यत्राह विदित इति । तपः प्रभावेन पर्यालोचनकरणे निमित्तमाह स्नेहादिति ॥ ३।१३।१७ ॥
हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया ।
इह वासं प्रतिज्ञाय मया सह तपोवने ॥ ३।१३।१८ ॥
[वसन्तं त्वां जनाः सर्वे ज्ञास्यन्ति रघुनन्दन ।]
अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ॥ ३।१३।१९ ॥
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ।
स देशः श्लाघनीयश्च नातिदूरे च राघव ॥ ३।१३।२० ॥
छन्दः अभिप्रायः । “अभिप्रायवशौ छन्दौ” इत्यमरः । खरादिवधसङ्कल्प इत्यर्थः । तपसा आलोचनेन तन्मूलत्वद्वचनभङ्ग्या चेत्यर्थः । अलङ्कृतो ऽयं देशश्चेति ममेह वासे प्रस्तुते किन्तु व्यादिश मे देशमिति त्वदुक्त्या चेत्यर्थः । अभिप्रायवेदनकार्यमाह इहेति । यस्मात्त्वदभिप्रायो मया विदितः अतो हेतोः इह तपोवने मया सह वासं प्रतिज्ञाय अनुज्ञाय तदनन्तरमेव त्वं पञ्चवटीं गच्छेति ब्रूमि ब्रवीमि । अनित्यमागमशासनमिति ईडभावः ॥ ३।१३।१८२० ॥
गोदावर्याः समीपे च मैथिली तत्र रंस्यते ।
प्राज्यमूलफलश्चैव नानाद्विजगणायुतः ।
विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥ ३।१३।२१ ॥
आयुतः व्याप्तः । विविक्तः विजनः ॥ ३।१३।२१ ॥
भवानपि सदारश्च शक्तश्च परिरक्षणे ।
अपि चात्र वसन् राम तापसान् पालयिष्यसि ॥ ३।१३।२२ ॥
परिरक्षणे तापसानामिति शेषः । अत्र प़ञ्चवट्याश्रमे ॥ ३।१३।२२ ॥
एतदालक्ष्यते वीर मधूकानां महद्वनम् ।
उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ॥ ३।१३।२३ ॥
अस्य मधूकवनस्य । न्यग्रोधमभिगच्छता उत्तरेण मार्गेण गन्तव्यम् । इदं मधूकवनं गत्वा तदुत्तरेण मार्गेण गन्तव्यम्, स मार्गो न्यग्रोधं प्रापयतीत्यर्थः ॥ ३।१३।२३ ॥
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ।
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः । ३।१३।२४ ॥
ततो न्यग्रोधात्परतः । स्थलं निर्वणप्रदेशम् । किञ्चिदुन्नतमुपारुह्य गमने कश्चित्पर्वतो दृश्यते तस्याविदूरतः पञ्चवटीति ख्यातः पञ्चवटत्वेन प्रसिद्धः । नित्यपुष्पितकाननत्वेन ज्ञातुं योग्यश्चाश्रमो दृश्यत इत्यर्तः ॥ ३।१३।२४ ॥
अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ।
सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ॥ ३।१३।२५ ॥
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ।
तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ॥ ३।१३।२६ ॥
सत्कृत्य प्रदक्षिणनमस्काराभ्यामिति शेषः ॥ ३।१३।२५,२६ ॥
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ ।
यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥ ३।१३।२७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोदशः सर्गः ॥ १३ ॥
विषक्ततूणौ बद्धतूणीरौ । अकारान्तोपि तूणशब्दः । महार्षिणा यथोपदिष्टेन पथेत्यन्वयः । समाहितौ एकाग्रौ । अस्मिन् सर्गे सार्धसप्तविंशतिः श्लोकाः ॥ ३।१३।२७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥