०१२ अगस्त्यदर्शनम्

स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः ।

अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ ३।१२।१ ॥

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।

रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ ३।१२।२ ॥

रुद्रस्यापूज्यत्वमाह स प्रविश्येत्यादि ॥ ३।१२।१,२ ॥

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ।

अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ ३।१२।३ ॥

हितः हितकारी । अनुकूलः प्रियकरः । प्रियहितकरत्वे हेतुः भक्त इति । भक्तः प्रीतिमान् । यदीति सम्भावनायाम् । अहं रामश्च ते श्रुतौ भवेवेत्यर्थः । अग्रजत्वादिविशेषणानि रामेण तुल्यप्रतिपत्तिवारणाय ॥ ३।१२।३ ॥

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ।

द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ३।१२।४ ॥

निवेद्यताम् अस्मद्दर्शनेच्छेति शेषः । एतद्वाक्यमुवाचेति पूर्वेणान्वयः । ते वयमित्यस्मिन् श्लोके यमिति गायत्र्या अष्टमाक्षरम् । सप्तसहस्रसङ्ख्याकाः श्लोका गताः ॥ ३।१२।४ ॥

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः ।

तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ॥ ३।१२।५ ॥

तस्येति । अग्निशरणम् अग्निगृहम् ॥ ३।१२।५ ॥

स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् ।

कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ।

यथोक्तं लक्ष्मणेनैव शिष्यो ऽगस्त्यस्य सम्मतः ॥ ३।१२।६ ॥

अञ्जसा आशु । यथेष्टमित्यस्य उवाचेत्यनेनान्वयः । सम्मतः शिष्येषु मान्यत्वेन सम्मतः ॥ ३।१२।६ ॥

पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ।

प्रविष्टावाश्रमपदं सीतया सह भार्यया ॥ ३।१२।७ ॥

द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ ।

यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ॥ ३।१२।८ ॥

ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ।

वैदेहीं च महाभागामिदं वचनमब्रवीत् ॥ ३।१२।९ ॥

शुश्रूषार्थं सेवार्थं चेत्यर्थः । अत्र अस्मिन् रामे विषये । अनन्तरं तदागमनानन्तरम् । यद्वक्तव्यं तत्त्वं तस्य भावं प्रकारम् आज्ञापयितुमर्हसि ॥ ३।१२।७९ ॥

दिष्ट्या रामश्चिरस्याद्य द्ष्टुं मां समुपागतः ।

मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति ॥ ३।१२।१० ॥

गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः ।

प्रवेश्यतां समीपं मे किञ्चासौ न प्रवेशितः ॥ ३।१२।११ ॥

दिष्ट्या यदृच्छया । चिरस्य चिरात् प्रतिकाङ्क्षितमित्यन्वयः । प्रतिर्वीप्सायाम् । सत्कृतः सत्कारार्हः । किञ्चासौ न प्रवेशितः कुतो विलम्बित इत्यर्थः ॥ ३।१२।१०,११ ॥

एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना ।

अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः ॥ ३।१२।१२ ॥

ततो निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ।

क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ॥ ३।१२।१३ ॥

ततो गत्वाश्रमद्वारं शिष्येण सहलक्ष्मणः ।

दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥ ३।१२।१४ ॥

अभिवाद्येति विलम्बकरणापचारनिवृत्त्यर्थे वन्दनम् अत एव सम्भ्रान्त इति वक्ष्यति ॥ ३।१२।१२१४ ॥

तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन् ।

प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम् ॥ ३।१२।१५ ॥

अगस्त्येनोच्यत इत्यगस्त्यवचनम्, अगस्त्योक्तमित्यर्थः सुसत्कृतं सविनयवाक्येन बहुमतम् ॥ ३।१२।१५ ॥

प्रविवेश ततो रामः सीतया सह लक्ष्मणः ।

प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ॥ ३।१२।१६ ॥

आश्रमं मुनिगृहम् ॥ ३।१२।१६ ॥

स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ।

विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ॥ ३।१२।१७ ॥

अयं तत्र देवपूजागृहाण्यपश्यदित्याह स तत्रेत्यादि । तत्र अगस्त्यगृहे । ब्रह्मणः चतुर्मुखस्य । अग्नेः पावकस्य । तथैव चेति निपातसमुदायस्समुच्चये ॥ ३।१२।१७ ॥

सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ।

धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च ॥ ३।१२।१८ ॥

नागराजस्य च स्थानमनन्तस्य महात्मनः ।

स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ॥ ३।१२।१९ ॥

भगो देवताविशेषः ॥ ३।१२।१८,१९ ॥

स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ।

कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ॥ ३।१२।२० ॥

पाशहस्तस्येत्यादिविशेषणानि तत्र मुनेरगस्त्यस्य भक्तिविशेषद्योतनार्थम् । इमे ब्रह्मादयः पूर्वसर्गे फलप्रदत्वेनोक्ताः । अन्ये अगस्त्योपासकत्वेनोक्ताः । एते ब्रह्माग्निविष्णुमहेन्द्र विवस्वत्सोमभगकुबेरधातृविधातृवाय्वनन्तगायत्रीवसुवरुणकार्तिकेयधर्माख्याः सप्तदशः देवाः । “यो वै सप्तदशम्” इत्यनुवाकोक्तसप्तदशाक्षरदेवताः यायजूकेन मुनिना पूजार्थे प्रतिष्ठिता इति बोध्यम् । अत्र पूज्यदैवतेषु रुद्रस्यानुपादानादपूज्यत्वमुक्तम् । अधुना जनैः कैश्चित् पूज्यमानता तु तामसशास्त्रानुरोधेनेति बोध्यम् । ननु विष्णोः स्थानं महेशस्येति पाठात् स्थानानुक्त्यसम्भव इति चेत्, तदा पूर्वं रामेण “अगस्त्यं नियताहारं सततं पर्युपासते” इत्युक्तावपि स्थाननिर्देशे उपास्योपासकयोरुभयोरपि निर्देशो न विरुध्यते । यद्वा उपासनं समीपावस्थानं नत्वाराधनम्, धर्ममाराधयिष्णव इत्युक्तेः । धर्मस्याराधनं परिपालनमेव ॥ ३।१२।२० ॥

ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ।

तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ॥ ३।१२।२१ ॥

अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ।

एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ॥ ३।१२।२२ ॥

अभिनिष्पतत् अभ्युत्थानं कृतवान् । अडभावः आर्षः । मुनीनामग्रतः स्थितमिति शेषः ॥ ३।१२।२१,२२ ॥

औदार्येणावगच्छामि निधानं तपसामिमम् ॥ ३।१२।२३ ॥

औदार्येण तेजोविशेषरूपौन्नत्येन । इममवगच्छामि अगस्त्यत्वेनेति शेषः । इति वचनमब्रवीदित्यन्वयः ॥ ३।१२।२३ ॥

एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् ।

जग्राह परमप्रीतस्तस्य पादौ परन्तपः ॥ ३।१२।२४ ॥

अगस्त्यम् उद्दिश्येति शेषः ॥ ३।१२।२४ ॥

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः ।

सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥ ३।१२।२५ ॥

रामः अभिवाद्य रामस्तस्थावित्यन्वयः ॥ ३।१२।२५ ॥

प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः ।

कुशलवप्रश्नमुक्त्वा च ह्यास्यतामिति चाब्रवीत् ॥ ३।१२।२६ ॥

प्रतिजग्राह अतिथित्वेनेति शेषः । उदकानि पाद्यानि ॥ ३।१२।२६ ॥

अग्निं हुत्वा प्रदायार्ध्यमतिथीन् प्रतिपूज्य च ।

वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ ३।१२।२७ ॥

तस्मिन्नासीने अग्निं हुत्वा वैश्वदेवं कृत्वा । तेभ्यः अर्घ्यं दत्त्वा अतिथीन् प्रतिपूज्य आचमनीयपुष्पादिभिः पूजयित्वा । वानप्रस्थेन धर्मेण सिद्धं भोजनकन्दमूलादिकं ददौ ॥ ३।१२।२७ ॥

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः ।

उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥ ३।१२।२८ ॥

स्वयं प्रथममुपविश्य आसीनं राममुवाच ॥ ३।१२।२८ ॥

अग्निं हुत्वा प्रदायार्ध्यमतिथिं प्रतिपूजयेत् ।

अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ।

दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ ३।१२।२९ ॥

अयं रामव्याजेन सीतां प्रत्युपदेशः । धर्मकोविदमित्युक्तस्य रामस्य हि नेदं वक्तव्यम् । अत एव सीता रावणं सत्करिष्यति । अन्यथा समुदाचरन् होममतिथिसत्कारञ्चाकुर्वन्नित्यर्थः । दुःसाक्षी कूटसाक्षी ॥ ३।१२।२९ ॥

राजा सर्वस्य लोकस्य धर्मचारी महारथः ।

पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ॥ ३।१२।३० ॥

भवांस्तु विशिष्टातिथिरित्याह राजेति । राजपक्षे स्पष्टो ऽर्थः । तत्त्वार्थस्तु सर्वस्य लोकस्य भुवनत्रयस्य । राजा स्वामी । “पतिं विश्वस्य” इति श्रुतेः । अत एव लोकस्य पूजनीयः कर्मभिराराध्यः । “इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः” इति श्रुतेः । मान्यः मुक्तये योगिभिश्चिन्त्यः । प्रियातिथिः लौकिकातिथिभ्यो विलक्षणः । एवमुवाचेति पूर्वेणान्वयः ॥ ३।१२।३० ॥

एवमुक्त्वा फलैर्मूलैः पुष्पैरन्येश्च राघवम् ।

पूजयित्वा यथाकामं पुनरेव ततो ऽब्रवीत् ॥ ३।१२।३१ ॥

एवमिति । पुनः फलादिदानं सीतायाः ॥ ३।१२।३१ ॥

इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ॥ ३।१२।३२ ॥

वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥ ३।१२।३३ ॥

इदमिति परशुरामात् गृहीत्वा वरुणहस्ते दत्तं रामेण । तदेव वरुणः खरादिवधसन्निहित इति अगस्त्यहस्ते निक्षिप्तवानित्यवगम्यते, वैष्णवशब्दप्रत्यभिज्ञानात् ॥ ३।१२।३२,३३ ॥

अमोघः सूर्यसङ्काशो ब्रह्मदत्तः शरोत्तमः ।

दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ ॥ ३।१२।३४ ॥

ब्रह्मदत्तः ब्रह्मणा दत्तः अयमितिशेषः । तूणी इमाविति शेषः ॥ ३।१२।३४ ॥

सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः ।

महारजत कोशो ऽयमसिर्हेमविभूषितः ॥ ३।१२।३५ ॥

महारजतं सुवर्णं तन्मयः कोशः खङ्गपिधानं यस्य सः महारजतकोशः । बालरामाणे ऐन्द्रं शरासनमिति इन्द्रदत्तत्वोक्तिश्छत्रिन्यायात् ॥ ३।१२।३५ ॥

अनेन धनुषा राम हत्वा सङ्ख्ये महासुरान् ।

आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥ ३।१२।३६ ॥

धनुषा धनुरादिना ॥ ३।१२।३६ ॥

तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद ।

जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ ३।१२।३७ ॥

शरं खङ्गं च वैष्णवाविति शेषः । वज्रं वज्रधरो यथेत्यनेन तावकं त्वमेव गृहाणेत्युक्तम् ॥ ३।१२।३७ ॥

एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् ।

दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ ३।१२।३८ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वादशः सर्गः ॥ १२ ॥

एवमुक्त्वा ततः पुनरेव इत्यब्रवीदित्यन्वयः ॥ ३।१२।३८ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥