अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा ।
पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणो ऽनुजगाम ह ॥ ३।११।१ ॥
अथ कर्माणि सापायानि, रामसेवैका निरपायेति दर्शयितुं माण्डकर्णिवृत्तान्तप्रकटनपूर्वकं सकलमुनिजनाश्रममण्डलसञ्चरणमेकादशे अग्रत इत्यादि । अनेन श्लोकेन प्रणवार्थ उक्तः । तौ पश्यमानावित्यादिना नाराणपदार्थः । माण्डकर्णिवृत्तान्ते नम इत्यस्यार्थः । ततः परं विरोधिनिवृत्तिः सूच्यते । एवं मूलमन्त्रार्थानुसन्धानमेव परमा गतिरित्युच्यते ॥ ३।११।१ ॥
तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि च ।
नदीश्च विविधा रम्या जग्मतुः सीतया सह ॥ ३।११।२ ॥
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ।
सरांसि च सपद्मानि युक्तानि जलजैः खगैः ॥ ३।११।३ ॥
तावित्यादि । पश्यमानौ पश्यन्तौ । शैलप्रस्थान् शैलसानूनि । सारसान् हंसविशेषान् । पुलिनं सैकतम् । जलजैः खगैः जलपक्षभिः ॥ ३।११।२,३ ॥
यूथबद्धांश्च पृषतान् मदोन्मत्तान्विषाणिनः ।
महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः ॥ ३।११।४ ॥
यूथबद्धान् यूथतया बद्धान्, समूहीभूतानित्यर्थः । पृषतान् बिन्दुमृगान् । विषाणिन इति महिषादि विशेषणम् । नागान् गजान् ॥ ३।११।४ ॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥ ३।११।५ ॥
पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम् ।
सारसैर्हंसकादम्बैः सङ्कुलं जलचारिभिः ॥ ३।११।६ ॥
लम्बमाने अस्तमयोन्मुखे । योजनायतं चुतर्दिशि योजनप्रमाणविस्तारम् । पद्मपुष्करसम्बाधं पद्मैः पुष्करैः सर्पैश्च सम्बान्धं निबिडम् । “वाद्यभाण्डमुखे सर्पे कारण्डे पुष्करं स्मृतम्” इति विश्वः । सारसैः “सारसो मैथुने कामी गोनर्दः पुष्कराह्वयः” इत्युक्तेः । हंसैः राजहंसैः । कादम्बैः “कादम्बः कलहंसश्च हंसः स्याद्धूसरच्छदः " इत्युक्तेः ॥ ।३।११।५,६ ॥
प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे ।
गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥ ३।११।७ ॥
गीतेति । गीतानि षड्जादिस्वरनिबद्धप्रबन्धाः । वादित्राणि ततघनसुषिरानद्धभेदेन चतुर्विधानि तेषां निर्घोषः । अत्र यादवः “वादित्रं वादितं वाद्यमातोद्यं तच्चतुर्विधम् । ततं वीणादिकं वाद्यं तालं तु विततं घनम् । वंशादिकं तु सुषिरमानद्धं मुरजादिकम् ॥ " इति। कश्चन वादयिता न दृश्यते ॥ ३।११।७ ॥
ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः ।
मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ३।११।८ ॥
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ।
कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ ३।११।९ ॥
वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो ॥ ३।११।१० ॥
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ।
प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे ॥ ३।११।११ ॥
धर्मभृतं सहागतेषु मुनिष्वन्यतमम् । कथ्यतामित्येवं प्रष्टुं समुपचक्रम इत्यन्वयः ॥ प्रभवम् उत्पत्तिम् । कृस्नं गीतवादित्रमूलं चेत्यर्थः ॥ ३।११।८११ ॥
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ।
निर्मितं तपसा राम मुनिना माण्डकर्णिना ॥ ३।११।१२ ॥
पञ्चाप्सरःक्रीडासाधनकत्वात् पञ्चाप्सरो नाम । सार्वकालिकं सर्वकाले भवम् । “कालाट्ठञ्” उभयपदवृद्धिः । सर्वस्मिन्नपि काले अघुष्यदित्यर्थः ॥ ३।११।१२ ॥
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः ।
दशवर्षसहस्राणि वायुभक्षो जलाश्रयः ॥ ३।११।१३ ॥
उक्तार्थे इतिहासमाह स हीत्यादिना । जलाश्रयः स्वनिर्मिततटाकजलावगाढः ॥ ३।११।१३ ॥
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरो गमाः ।
अब्रुवन्वचनं सर्वे परस्परसमागताः ॥ ३।११।१४ ॥
साग्निपुरोगमाः अग्निना पुरस्सरेण सहिताः । क्रियाभेदात्सर्वशब्दावृत्तिः ॥ ३।११।१४ ॥
अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः ।
इति संविग्नमनसः सर्वे ते त्रिदिवौकसः ॥ ३।११।१५ ॥
अस्माकं मध्ये संविग्नमनसः भीतमनस्काः ॥ ३।११।१५ ॥
तत्र कर्तुं तपोविघ्नं देवैः सर्वैर्नियोजिताः ।
प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः ॥ ३।११।१६ ॥
तत्र तदा । विद्युच्चलितवर्चसः विद्युत इव तरलतेजसः, चलितविद्युद्वर्चस इति वार्थः ॥ ३।११।१६ ॥
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ।
नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ ३।११।१७ ॥
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः ।
तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम् ॥ ३।११।१८ ॥
दृष्टपरावरः दृष्टपरमात्मजीवस्वरूपः ॥ ३।११।१७,१८ ॥
तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् ।
रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ॥ ३।११।१९ ॥
तपोयोगात् तपोरूपोपायात् यौवनमास्थितम् । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः ॥ ३।११।१९ ॥
तासां सङ्क्रीडमानानामेष वादित्रनिस्वनः ।
श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ॥ ३।११।२० ॥
सङ्क्रीडमानानामिति “क्रीडो ऽनुसम्परिभ्यश्च” इत्यात्मनेपदम् । भूषणोन्मिश्रः भूषणघोषोन्मिश्रः वादित्रनिःस्वनविशेषणम् । भूषणोन्मिश्रो वादित्रनिःस्वनो गीतशब्दश्च श्रूयत इत्यन्वयः ॥ ३।११।२० ॥
आश्चर्यमिति तस्यैतद्ववचनं भावितात्मनः ।
राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥ ३।११।२१ ॥
एतत् पूर्वोक्तं वचनम् । आश्चर्यमिति प्रातजग्राह श्रुतवान् ॥ ३।११।२१ ॥
एवं कथयमानस्य ददर्शाश्रममण्डलम् ।
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ॥ ३।११।२२ ॥
कथयमानस्य कथयमाने तस्मिन् मुनौ । कथयमानः स इति पाठे एवं सम्भाषमाणः स रामः । ब्राह्म्या ब्राह्मसम्बन्धिन्या लक्ष्म्या समृद्ध्या, ब्राह्मणसम्पूर्णमित्यर्थः । आश्रममण्डलं ददर्श राघव इत्यनुषङ्गः ॥ ३।११।२२ ॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।
उवास मिनिभिः सर्वैः पूज्यमानो महायशाः ॥ ३।११।२३ ॥
प्रविश्येति आश्रममण्डलमित्यनुषज्यते । सर्वैस्तदाश्रमवासिभिः पूज्यमानः स्व स्वाश्रमे अर्घ्यादिना अर्च्यमानः ॥ ३।११।२३ ॥
तथा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले ।
उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ॥ ३।११।२४ ॥
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ।
येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् ॥ ३।११।२५ ॥
कियन्तं कालं तत्रोवासेत्यपेक्षायां कालपरिमाणं वक्तुं रामस्याश्रमवासप्रकारं दर्शयति तथेत्यादिश्लोकद्वयेन । तथा उक्तप्रकारेण । तस्मिन्नाश्रममण्डले सुखमुषित्वा तत्र पूज्यमानः स राम इत्युक्तानुवादः । येषां सकाशे पूर्वमुषितवान् पर्यायेण द्वितीयपर्यायेण च जगाम । एवमाश्रमवासप्रकारः एकवारं सर्वेषामाश्रमान् गत्वा पुनरपि तेषामेवाश्रमान् जगामेति वाक्यार्थः । महास्त्रविदित्यनेन तत्रत्यराक्षसोपद्रवपरिहाराय पुनर्गमनमिति सूचयति । वक्ष्यति हि मारीचः “तेन मुक्तास्त्रयो बाणाः” इत्यारभ्य “पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा । समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥ " इति । एतदर्थमेव सुतीक्ष्णेनात्र गमनमनुज्ञातम् ऋषिभिः कारितं च ॥ ३।११।२४,२५ ॥
क्वचित् परिदशान् मासानेकं संवत्सरं क्वचित् ।
क्वचिच्च चतुरो मासान् पञ्च षट् चापरान् क्वचित् ॥ ३।११।२६ ॥
अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् ।
त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम् ॥ ३।११।२७ ॥
पूर्वमुषितवानित्युक्तवासक्रमं दर्शयति क्वचिदित्यादिना । राघवो रामः क्वचिदाश्रमे परिदशान् परिगताः दश येषां ते परिदशाः । “सङ्ख्ययाव्यय " इत्यादिना बहुव्रीहिसमासः । “बुहुव्रीहौ सङ्ख्येये डजबहुगणात्” इति डच् समासान्तः । तान् मासान् त्रयोदशमासानित्यर्थः । अत्यन्तसंयोगे द्वितीया । सुखं यथा भवति तथा न्यवसत् । क्वचिदाश्रमे एकं संवत्सरं सुखं न्यवसत् । क्वचिदाश्रमे चतुरो मासान् सुखं न्यवसत् । क्वचित् पञ्च मासान् क्वचित् षण्मासान् क्वचिदपरान् षड्भ्यो ऽन्यान् सप्त मासान् सुखं न्यवसत् । पञ्च षट् च तथा क्वचिदिति पाठे तथा पुनः क्वचित् षण्मासानित्यर्थः । परिदशानित्यत्र चतुर्दशमासानित्यर्थः । अपरत्राश्रमे मासादधिकं सुखं न्यवसत् । अधिकशब्देनात्र मासचतुर्थांशो विवक्षितः, एकमासं मासपादं चेत्यर्थः । अपरत्राधिकं मासमिति पाठे मासम् अधिकं तत्पादं चेत्यर्थः । अपिशब्दः सर्वत्र मासानुकर्षणार्थः । क्वचिदाश्रमे अर्धमधिकं च न्यवसत् पादोनमासमित्यर्थः । तथा चैतदव्यविहितपूर्वाश्रमवासादिनैर्द्वौ मासौ संवृत्तौ । एकत्र सपादमासः अपरत्र पादोनमास इत्याहत्य मासद्वयसम्भवात् । अध्यर्धमधिकं क्वचिदिति पाठे अध्यर्धम् अर्धाधिकम् अर्धमासाधिकमित्यर्थः । अधिकं पूर्वोक्तपादमासात्मकाधिकं तथा च त्रिपादमासमित्यर्थः । क्वचित् त्रीन् मासान् न्यवसत् । क्वचिदष्टमासान् न्यवसत् । एवं षष्टिमासाः सिद्धाः । केचिदाहुः परिदशान् दशाधिकानिति वक्ष्यमाणेष्वष्टसु स्थानेष्वन्वेति । तथाचायमर्थः एवं संवत्सरं क्वचिदित्यत्र द्वाविंशतिमासानित्यर्थः । क्वचिच्च चतुरो मासानित्यत्र चतुर्दश मासानित्यर्थः । पञ्च षट् चापरान् क्वचिदित्यत्र क्वचित् पञ्चदश मासान् क्वचित् षोडशमासानित्यर्थः । अपरानधिकं मासादप्यर्धमधिकं क्वचिदित्यत्र प्रथमाधिकशब्दो ऽर्धमासरूपाधिकांशपरः । तथा च आपरान् परिदशान् मासान् अधिकं चेत्यन्वये अर्धाधिकदशमासानित्यर्थः । मासादप्यर्धमित्यादेरयमर्थः क्वचित्परिदशान् मासान् तदुपरिमासादधिकमर्धमपि चेति तथा च अर्धाधिकैकादशमासानित्यर्थः । त्रीन् मासान् अष्टमासांश्चेत्यत्र त्रयोदश मासान् अष्टादश मासांश्चेत्यर्थः । तथाच विंशत्युत्तरशतमासा लब्धा इति । तस्मिन् पक्षे प्राथमिकक्वचित्पदमासपदानर्थक्यं पूर्वग्रन्थविरोध इत्यादि द्रष्टव्यम् ॥ ३।११।२६,२७ ॥
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ।
रमतश्चानुकूल्येन ययुः संवसरा दश ॥ ३।११।२८ ॥
तथाचाश्रममण्डले दश संवत्सराः संवृत्ता इत्याह तथा संवसत इति । इयमेवाश्रमवाससङ्ख्या । पूर्वापरसङ्ख्या तु किष्किन्धाकाण्डे वक्ष्यते ॥ ३।११।२८ ॥
परिवृत्त्य च धर्मज्ञो राघवः सह सीतया ।
सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह ॥ ३।११।२९ ॥
स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः ।
तत्रापि न्यवसद्रामः किञ्चित्कालमरिन्दमः ॥ ३।११।३० ॥
अथाश्रमस्थो विनयात् कदाचित्तं महामुनिम् ।
उपसीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ॥ ३।११।३१ ॥
परिवृत्त्य एवमाश्रमं सर्वं परिक्रम्य ॥ ३।११।२९३१ ॥
अस्मिन्नरण्ये भगवन्नगस्त्यो मुनि सत्तमः ।
वसतीति मया नित्यं कथाः कथयतां श्रुतम् ॥ ३।११।३२ ॥
कथाः नानाकथाः । कथयतां कथयत्सु ॥ ३।११।३२ ॥
नतु जानामि तं देशं वनस्यास्य महत्तया ।
कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः ॥ ३।११।३३ ॥
प्रसादात्तत्रभवतः सानुजः सह सीतया ।
अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ॥ ३।११।३४ ॥
तत्र वने । अगस्त्यमभिवादयितुमभिगच्छेयमित्यन्वयः ॥ ३।११।३३,३४ ॥
मनोरथो महानेष हृदि मे परिवर्तते ।
यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ॥ ३।११।३५ ॥
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ।
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥ ३।११।३६ ॥
तं मुनिवरं शुश्रूषेयमिति यत् एष मनोरथः अभिलाषो मे हृदि परिवर्तत इत्यन्वयः । शुश्रूषेयमिति परस्मैपदमार्षम् ॥ ३।११।३५,३६ ॥
अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ।
अगस्त्यमभिगच्छेति सीतया सह राघव ॥ ३।११।३७ ॥
दिष्ट्या त्विदानीमर्थे ऽस्मिन् स्वयमेव ब्रवीषि माम् ।
अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ॥ ३।११।३८ ॥
अहमिति । अगस्त्यमभिगच्छेत्येतद्वक्तुकामो ऽस्मीत्यन्वयः ॥ ३।११।३७,३८ ॥
योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः ।
दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः ॥ ३।११।३९ ॥
अस्मादाश्रमाद्दक्षिणेन तथेति हस्तेन निर्देशः । चत्वारि योजनानि अभियाहीति शेषः । ततस्तत्र अगस्त्यभ्रातुराश्रमो वर्तते । आश्रमाद्दक्षिणेनेत्यत्र “एनपा द्वितीया” इति द्वितीयाभाव आर्षः ॥ ३।११।३९ ॥
स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते ।
बहुपुष्पफले रम्ये नानाशकुनिनादिते ॥ ३।११।४० ॥
स्थलीप्राये स्थलीप्रचुरे ॥ ३।११।४० ॥
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः ।
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ ३।११।४१ ॥
कारण्डवाः सारसाः ॥ ३।११।४१ ॥
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् ।
दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ॥ ३।११।४२ ॥
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ।
रमणीये वनोद्देशे बहुपादपसंवृते ॥ ३।११।४३ ॥
रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया ।
स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः ॥ ३।११।४४ ॥
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ।
अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥ ३।११।४५ ॥
तत्रागस्त्यभ्रात्राश्रमे रजनीं व्युष्य रात्रिमतिवाह्य । वनषण्डस्य वनसमूहस्य पार्श्वतः दक्षिणां दिशम् । आस्थाय उद्दिश्य निर्वणदेशे योजनमन्तरं योजनावकाशं गत्वा अगस्त्याश्रमपदं गम्यतामित्यन्वयः ॥ ३।११।४२४५ ॥
इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च ।
प्रतस्थे ऽगस्त्यमुद्दिश्य सानुजः सीतया सह ॥ ३।११।४६ ॥
इति एवम्प्रकारेण मुनेः सकाशाच्छ्रुत्वा ॥ ३।११।४६ ॥
पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् ।
सरांसि सरितश्चैव पथि मार्गवशानुगाः ॥ ३।११।४७ ॥
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ।
इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ॥ ३।११।४८ ॥
अभ्रसन्निभान् मेघसन्निभान् । मार्गवशानुगाः मार्गवशेनानुगम्यमानाः । राम इति पूर्वश्लोकादनुकृष्यते । ३।११।४७,४८ ॥
एतदेवाश्रमपदं नीनं तस्य महात्मनः ।
अगस्त्यस्य मुनेर्भ्रातुर्द्दश्यते पुण्यकर्मणः ॥ ३।११।४९ ॥
नीतमिति वितर्के । यदाश्रमपदं दृश्यते एतन्मुनेर्नूनमित्यन्वयः ॥ ३।११।४९ ॥
यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः ।
सन्नताः फलभारेण पुष्पभारेण च द्रुमाः ॥ ३।११।५० ॥
उक्ते ऽर्थे हेतुमाह यथा हीति । यथा हि मे पथि चिह्नतया वनं श्रुतं तथैवास्य वनस्य फलभारेण पुष्पभारेण च सन्नताः द्रुमाः सहस्रशो मया ज्ञाताः ज्ञायमाना वर्तन्ते ॥ ३।११।५० ॥
पिप्पलीनां च पक्वानां वनादस्मादुपागतः ।
गन्धो ऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥ ३।११।५१ ॥
तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः ।
लूनाश्च पथि दृश्न्यते दर्भा वैडूर्यवर्चसः ॥ ३।११।५२ ॥
असाधारणोपदिष्टलिङ्गं चानुभूयत इत्याह पिप्पलीनामित्यादि । पक्वानां पिप्पलीनामिति तत्फलानामित्यर्थः । कटुकस्य कटुरसस्य उदयो ऽभिव्यक्तिरानुमानिकी येन स तथा गन्धः उपागतः ॥ ३।११।५१,५२ ॥
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ।
पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ॥ ३।११।५३ ॥
कृष्णाभ्रशिखरोपमं नीलमेघाग्रोपमम् ॥ ३।११।५३ ॥
विविक्तेषु च तीरेषु कृतस्नाना द्विजातयः ।
पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः ॥ ३।११।५४ ॥
विविक्तेषु पूतेषु । “विविक्तौ पूतविजनौ” इत्यमरः । उपहारं पुष्पबलिम् । स्वयमार्जितैः “समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत्” इति स्मरणात् ॥ ३।११।५४ ॥
तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ।
अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ॥ ३।११।५५ ॥
“नूनं तर्के विनिश्चये” इत्यमरः ॥ ३।११।५५ ॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।
यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ॥ ३।११।५६ ॥
मृत्युं वातापील्वलनिमित्तकं मरणम् । हितकाम्यया हितेच्छया । इयं दिक् । शरण्या संश्रयितुं योग्या ॥ ३।११।५६ ॥
इहैकदा किल क्रूरो वातापिरपि चेल्वलः ।
भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ ॥ ३।११।५७ ॥
अस्मिन्नर्थे आख्यायिकामाह इहेत्यादिना ॥ ३।११।५७ ॥
धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ।
आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः ॥ ३।११।५८ ॥
संस्कृतं व्याकरणसंस्कारवतीं वाचम् वदन् ॥ ३।११।५८ ॥
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् ।
तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ३।११।५९ ॥
संस्कृतं श्राद्वोचितपाकसंस्कारसंस्कृतं कृत्वा श्राद्धदृष्टेन श्राद्धकल्पावगतेन ॥ ३।११।५९ ॥
ततो भुक्तवतां तेषां विप्राणामिल्वलो ऽब्रवीत् ।
वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥ ३।११।६० ॥
भुक्तवतां भुक्तवत्सु । बदन्नब्रवीत् व्यक्तमब्रवीत् ॥ ३।११।६० ॥
ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ।
भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ॥ ३।११।६१ ॥
व्यनिष्पतत् विनिरपतत् ॥ ३।११।६१ ॥
ब्रह्मणानां सहस्राणि तैरेवं कामरूपिभिः ।
विनाशितानि संहत्य नित्यशः पिशिताशनैः ॥ ३।११।६२ ॥
तैरिति बहुवचनं परिवारापैक्षया । संहत्य बहुश इति यावत् ॥ ३।११।६२ ॥
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।
अनुभूय किल श्राद्धे भक्षितः स महासुरः ॥ ३।११।६३ ॥
अनुभूय श्राद्धवरणादिकमनुभूय ॥ ३।११।६३ ॥
ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः ।
भ्रातरं निष्क्रमस्वेति चेल्वलः सो ऽभ्यभाषत ॥ ३।११।६४ ॥
स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् ।
अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः ॥ ३।११।६५ ॥
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ।
भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ॥ ३।११।६६ ॥
ततः श्राद्धान्ते । सम्पन्नमित्युक्त्वा ततो हस्तोदकं च दत्त्वा ॥ ३।११।६४६६ ॥
अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम् ।
प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ॥ ३।११।६७ ॥
नाशविषयम् । प्रधर्षयितुं हिंसितुम् ॥ ३।११।६७ ॥
सो ऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा ।
चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ॥ ३।११।६८ ॥
अनलकल्पेन अग्निसदृशेन ॥ ३।११।६८ ॥
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ।
विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥ ३।११।६९ ॥
एवं कथयमानस्य तस्य सौमित्रिणा सह ।
रमस्यास्तं गतः सूर्यः सन्ध्याकालो ऽभ्यवर्तत ॥ ३।११।७० ॥
उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि ।
प्रविवेशाश्रमपदं तमृषिं सो ऽभ्यवादयत् ॥ ३।११।७१ ॥
विप्रानुकम्पया विप्रेष्वनुकम्पया ॥ ३।११।६९७१ ॥
सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः ।
न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ॥ ३।११।७२ ॥
तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ।
भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ॥ ३।११।७३ ॥
प्रतिगृहीतः प्रत्युद्गतः । प्राश्य भुक्त्वा ॥ ३।११।७२,७३ ॥
अभिवादये त्वां भगवन् सुखमध्युषितो निशाम् ।
आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥ ३।११।७४ ॥
अभिवादय इति अत्र वर्णाधिक्यमार्षम् ॥ ३।११।७४ ॥
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ।
यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ ३।११।७५ ॥
यथोद्दिष्टेन सुतीक्ष्णोक्तेन ॥ ३।११।७५ ॥
निवारान् पनसांस्तालांस्तिमिशान्वञ्जुलान् धवान् ।
चिरिबिल्वान् मधूकांश्च बिल्वानपि च तिन्दुकान् ॥ ३।११।७६ ॥
पुष्पितान् पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ।
ददर्श रामः शतशस्तत्र कान्तारपादपान् ॥ ३।११।७७ ॥
हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ।
मत्तैः शकुनिसङ्घैश्च शतशश्च प्रणादितान् ॥ ३।११।७८ ॥
ततो ऽब्रवीत्समीपस्थं रामो राजीवलोचनः ।
पृष्ठतो ऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ ३।११।७९ ॥
निवारान् जलकदम्बान् । वञ्जुलान् वकुलान् । “वकुलो वञ्जुलो ऽशोकः” इत्यमरः । तिमिशान् नेमिवृक्षान् । धवान् चिरिबिल्वान् नक्तमालान् । “करञ्जः स्यान्नक्तमालः प्रकीर्यश्चिरिबिल्वकः” इति वैजयन्ती । मधूकान् मधुद्रुमाख्यवृक्षान् । तिन्दुकान् स्फूर्जकाख्यान् वृक्षान् ॥ ३।११।७६७९ ॥
स्निग्धपत्त्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ।
आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥ ३।११।८० ॥
स्निग्धपत्त्राः आश्रमवासिभिः रक्षितत्वेन सरसपत्त्राः । क्षान्ताः शान्ताः । यथा येन प्रकारेण तथा तेन प्रकारेण । आश्रमो नातिदूरस्थ इति मन्ये ॥ ३।११।८० ॥
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ।
आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ॥ ३।११।८१ ॥
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ।
प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ ३।११।८२ ॥
स्वेन कर्मणा विन्ध्यस्तम्भनरूपेण । अगस्त्य इति विख्यातः अगं स्तम्भयतीत्यगस्त्य इति व्युत्पत्तेः । परिश्रान्तानां श्रममपहन्तीति परिश्रान्तश्रमापहः । प्राज्यैर्बहुभिर्धूमैराकुलं वनं यस्य सः ॥ ३।११।८१,८२ ॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।
दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा ।
तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ।
दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ॥ ३।११।८३ ॥
त्रासात् दृश्यते न तु प्राचीनकाल इवोपभुज्यते ॥ ३।११।८३ ॥
यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ।
तदाप्रभृति निर्वैराः प्रशान्ता ऱजनीचराः ॥ ३।११।८४ ॥
नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा ।
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ ३।११।८५ ॥
यदाप्रभृतीति अगस्त्यागमनात्प्रभृति । दिक् अगस्त्याश्रमप्रदेशः । अन्यथा पूर्वोक्तविराधादिराक्षसोपद्रवो विरुध्येत । यद्वा दिक् सर्वापि । विराधादयोप्यगस्त्यागमनप्रभृति मन्दोपद्रवा एव । अशुचितादशायामेव मुनिमांसभक्षणम् । निर्वैरा वैरप्रवर्तनाशक्ताः प्रशान्तवद्वर्तमानाः । अत एवेयं दक्षिणा दिक् नाम्ना भगवतो ऽगस्त्यस्य दिगिति प्रसिद्धेत्युच्यते ॥ ३।११।८४,८५ ॥
मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः ।
निदेशं पालयन् यस्य विन्ध्यः शैलो न वर्द्धते ॥ ३।११।८६ ॥
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ।
अगस्त्यस्याश्रमः श्रीमान् विनीतजनसेवितः ॥ ३।११।८७ ॥
निरतः, उद्युक्तः, वर्धमान इत्यर्थः । न वर्धते अद्यापीति शेषः ॥ ३।११।८६,८७ ॥
एष लोकार्चितः साधुर्हिते नित्यरतः सताम् ।
अस्मानभिगतानेष श्रेयसा योजयिष्यति ॥ ३।११।८८ ॥
सतां हिते साधुः नित्यरतश्च ॥ ३।११।८८ ॥
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ।
शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ ३।११।८९ ॥
शेषं चेति । प्रभो इत्युक्तिः लक्ष्मणस्यापि राजपुत्रत्वात् । प्रभोरिति पाठे प्रभोरगस्त्यस्य नियोगादिति शेषः ॥ ३।११।८९ ॥
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अगस्त्यं नियताहारं सततं पुर्यपासते ॥ ३।११।९० ॥
अत्रेति । देवाः वक्ष्यमाणाः पूज्यव्यतिरिक्ताः ॥ ३।११।९० ॥
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ।
नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ॥ ३।११।९१ ॥
क्रूरः निर्दयः । “क्रूरौ कठिननिर्दयौ " इत्यमरः । शठः गूढविप्रियकृत् । नृशंसः घातुकः । कामेन वृत्तं यस्य सः कामवृत्तः स्वैरवृत्तः । एष मुनिः अगस्त्यः तथाविधः मृषावाद्याद्यनर्हः ॥ ३।११।९१ ॥
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह ।
वसन्ति नियताहारा धर्ममाराधयिष्णवः ॥ ३।११।९२ ॥
देवाः वक्ष्यमाणब्रह्मादिभिन्नाः । पतगैः गरुडजातिभिः । आराधयिष्णवः आराधयन्तः । छान्दस इष्णुच् ॥ ३।११।९२ ॥
अत्र सिद्धा महात्मानो विमानैः सूर्यसन्निभैः ।
त्यक्तदेहा नवैर्देहैः स्वर्याता परमर्षयः ॥ ३।११।९३ ॥
सिद्धास्तपस्सिद्धाः । नवैः दिव्यैः ॥ ३।११।९३ ॥
यक्षत्वममरत्वं च राज्यानि विविधानि च ।
अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ॥ ३।११।९४ ॥
भूतैः प्राणिभिः । देवाः ब्रह्मादयः । अगस्त्योपासनकृतनित्यसान्निध्यादिति भावः । शुभैः सत्कर्मनिरतैः ॥ ३।११।९४ ॥
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः ।
निवेदयेह मां प्राप्तमृषये सीतया सह ॥ ३।११।९५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकादशः सर्गः ॥ ११ ॥
आगता इति । सीतया सह प्राप्तमित्यन्वयः । अनेन रावणवधोद्युक्तत्वं द्योतयति । अत्र चतुर्नवतिः श्लोकाः ॥ ३।११।९५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥