००७ राम-सुतीक्ष्णसंवादः

रामस्तु सहितो भ्रात्रा सीतया च परन्तपः ।

सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ ३।७।१ ॥

अथ सुतीक्ष्णाभ्यर्थनया मृगरूपमारीचादि दुष्टराक्षसनिरासः सप्तमे रामस्त्वित्यादि । आश्रमपदम् उद्दिश्येति शेषः । तौर्द्विजैः वैखनसादिभिः ॥ ३।७।१ ॥

स गत्वा ऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः ।

ददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥ ३।७।२ ॥

स इति । अदूरमिति छेदः । पूर्वं शरभङ्गेण ऽइह राम महातेजाःऽ इति सुतीक्ष्णाश्रमस्यादूरत्वोक्तेः । नदीरिति बहुवचनमेकस्या एव मन्दाकिन्याः बहुप्रदेशेष्वावृत्त्या । बहूदकाः विपुलोदकाः । नौतार्यत्वानुक्तेः । शैलं शैलसम्बन्धिवनं काननमित्यानुवादात् । तस्येदमित्यण् । महामेघमिवेति श्यामिकायामुपमा ॥ ३।७।२ ॥

ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः ।

काननं तौ विविशतुस्सीतया सह राघवौ ॥ ३।७।३ ॥

द्रुमैः सन्ततं व्याप्तम् । इक्ष्वाकुवरौ राघवावित्युभयथा धैर्यमूलोक्तिः ॥ ३।७।३ ॥

प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।

ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥ ३।७।४ ॥

चीरमालया वल्कलपङ्क्त्या परिष्कृतं अलङ्कृतम् ॥ ३।७।४ ॥

तत्र तापसमासीनं मलपङ्कजटाधरम् ।

रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥ ३।७।५ ॥

मलङ्कजटाधरं नित्यमिश्चल तपोयोगेन वा वार्द्धकेन वा मलपङ्कजटानां धरम् । विधिवत् क्रमवद्यथा भवति तथा अभाषत । मीलितनयनत्वेन स्वाभिवादनापरिज्ञानात् भाषणम् ॥ ३।७।५ ॥

रामो ऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ।

त्वं मा ऽभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ ३।७।६ ॥

स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् ।

समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ ३।७।७ ॥

मा अभिवादयन्तं माम् । अभिवद प्रत्यभिवादनं कुरु । सत्यविक्रम अमोघतपःप्रभाव ॥ ३।७।६,७ ॥

स्वागतं खलु ते वीर राम धर्मभृतां वर ।

आश्रमो ऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥ ३।७।८ ॥

सनाथ इव सनाथ एव । यद्वा सर्वदा त्वया सनाथत्वेपि पामराणां सनाथत्वप्रतिभेदानीं जातेत्यर्थः ॥ ३।७।८ ॥

प्रतीक्षमाणस्त्वामेव नारोहे ऽहं माहायशः ।

देवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ ३।७।९ ॥

स्वस्य मोक्षापेक्षां व्यञ्जयति प्रतीक्षमाण इति । त्वामेव प्रतीक्षमाणः प्रतिपालयन् त्वदागमनं काङ्क्षमाण इत्यर्थः । देवलोकं नारोहे “तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्” इति तस्य मोक्षविरोधित्वादिति भावः ॥ ३।७।९ ॥

चित्रकूटमुपादाय राज्यभ्रष्टो ऽसि मे श्रुतः ॥ ३।७।१० ॥

मदागमनं कुतो ऽवगतम्? तत्राह चित्रकूटमिति । चित्रकूटमुपादाय चित्रकूटगमनमारभ्य । राज्याद्भ्रष्टः प्रच्युत इति मे मया श्रुतो ऽसि ॥ ३।७।१० ॥

इहोपयातः काकुत्स्थ देवराजः शतक्रतुः ।

उपागम्य च मां देवो महादेवस्सुरेश्वरः ।

सर्वान् लोकान् जितानाह मम पुण्येन कर्मणा ॥ ३।७।११ ॥

तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।

मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ ३।७।१२ ॥

तमुग्रतपसा युक्तं महर्षिं सत्यवादिनम् ।

प्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः ॥ ३।७।१३ ॥

अहमेवाहरिष्यामि स्वयं लोकान्महामुने ।

आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ ३।७।१४ ॥

स्वर्गारोहणस्य कः प्रसङ्ग इत्यत्राह इहेति । उपयातः शरभङ्गार्थमागतः । मामुपागम्याह तर्हि तादृशमहाफलं किमिति त्यक्तवानसीत्युक्ते तारतम्यज्ञानादिति भावः ॥ ३।७।१११४ ॥

भवान् सर्वत्र कुशलस्सर्वभूतहिते रतः ।

आख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ ३।७।१५ ॥

गौतमेन गौतमवंश्येन ॥ ३।७।१५ ॥

एवमुक्तस्तु रामेण महर्षिर्लोकर्विश्रुतः ।

अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ॥ ३।७।१६ ॥

अयमोवाश्रमो राम गुणवान् रम्यतामिह ।

ऋषिसङ्घानुचरितस्सदा मूलफलान्वितः ॥ ३।७।१७ ॥

हर्षेण महताप्लुतः मोक्षानुग्रहेण परमानन्दभरितः ॥ ३।७।१६,१७ ॥

इममाश्रममागम्य मृगसङ्घा महायशः ।

अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ।

नान्यो दोषो भवेदत्र मृगेभ्यो ऽन्यत्र विद्धि वै ॥ ३।७।१८ ॥

गुणमुक्त्वा दोषमाह निरसनीयत्वाभिप्रायेण इममिति । आश्रमं तपोवनम् । अविद्यमानं कुतो ऽपि भयं येषां ते अकुतोभयाः सन्तः अटित्वा इतस्ततः परिप्लुत्य । लोभयित्वा समाधिभङ्गं जनयित्वा । विचित्रतरवेषैरिति शेषः । प्रतिगच्छन्ति प्रतियान्ति । अत्र वने । मृगेभ्यो ऽन्यत्र मृगान् विनान्यो दोषो न भवेदिति विद्धि, मृगप्रलोभनरूपदोषादन्यो दोषो ऽत्र नास्तीत्यवेहीत्यर्थः । इति वाक्यमब्रवीदिति पूर्वेण सम्बन्धः ॥ ३।७।१८ ॥

तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ।

उवाच वचनं धीरो विकृष्य सशरं घनुः ॥ ३।७।१९ ॥

तत् मृगभयविषयकं वचनम् । विकृष्य सशरं धनुरिति स्वोत्साहप्रकटनम् ॥ ३।७।१९ ॥

तानहं सुमहाभाग मृगसङ्घान् समागतान् ।

हन्यां निशितधारेण शरेणाशनिवर्चसा ॥ ३।७।२० ॥

हन्यामिति प्राप्तकाले लिङ् । वधकाले प्राप्ते सकलमृगहननं कुर्यामित्यर्थः । प्राप्तकालश्च तद्दर्शनकालः ॥ ३।७।२० ॥

भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः ।

एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥ ३।७।२१ ॥

तच्च हननमिह स्थित्वा न कर्तुं शक्यमित्याह भवानिति । तत्र मृगसङ्घवधविषये । भवान् मया अभिषज्येत अभिभूयेत । अभिपूर्वात् षञ्जेः कर्मणि लिङ् । “अभिषङ्गः परिभवे सङ्गाक्रोशनयोरपि " इति बाणः । तादृशमृगहनने मया त्वं कृतापराधो भवेः, आश्रमसम्बन्धित्वादिति भावः । ततः किमित्यत्राह किं स्यात्कृच्छ्रतरं तत इति । ततः भवदभितापात् कृच्छ्रतरं कष्टतरं किम्, न किमपीत्यर्थः । तस्मादेतस्मिन्नाश्रमे चिरं तद्दर्शनपर्यन्तं वासं न समर्थये नेच्छामि । इह वासे मृगसङ्घपीडां सोढ्वा स्थातव्यम् । हत्वावस्थाने स्वाश्रममृगाणां स्वसन्निधौ हनने तव वैमनस्यं स्यात् । तच्च ममानिष्टम्, अतो ऽन्यत्र त्वदसन्निधाने मृगान् हनिष्यामीत्यर्थः । इत्युवाचेति पूर्वेणान्वयः ॥ ३।७।२१ ॥

तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ॥ ३।७।२२ ॥

अन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत् ।

सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ ३।७।२३ ॥

वरदमित्यनेन मुनिस्तथैवानुज्ञातवानिति गम्यते । सन्ध्यामुपागमत् सन्ध्यामुद्दिश्य सरस्तीरं गतवानित्यर्थः । पश्चिमां सन्ध्यामन्वास्य । अत्यन्तसंयोगे द्वितीया । यावत्सन्ध्यां जलतीरे जपन् स्थित्वेत्यर्थः । तत्राश्रमे वासमकल्पयदित्यनेन प्रातर्जिगमिषा जातेति व्यज्यते । अन्यत्र गत्वा मृगनिरासश्च रावणं प्रति मारीचानुवादादवगन्तव्यः ॥ ३।७।२२,२३ ॥

ततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।

ताभ्यां सुसुत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य ॥ ३।७।२४ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तमः सर्गः ॥ ७ ॥

शुभं भक्त्युपनीतत्वेन पावनम् । तापसभोज्यं फलमूलादि । अन्नं अदनीयम् । स्वयं नतु शिष्यमुखेन, सुसत्कृत्य अर्घ्यपाद्यादिना सम्पूज्य । महात्मा तत्र परमपुरुषत्वज्ञानवान् । सन्ध्यानिवृत्तौ सन्ध्याकर्मावसाने रजनीमवेक्ष्य ददौ, रजनीभक्ष्यानुसारं ददावित्यर्थः । सीता तु रामभुक्तशेषं भुक्तवतीत्याशयः ॥ ३।७।२४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥