शरभङ्गे दिवं याते मिनिसङ्घाः समागताः ।
अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥ ३।६।१ ॥
एवं खरवधार्थिमुनिजनशरणागतिं वक्तुं तदुपयोगितया रामस्य समर्थकारुणिकत्वमुक्त्वा अथ तच्छरणागतिं वक्तुमुपक्रमते शरभङ्ग इत्यादि । शरभङ्गे दिवं यात इति कालप्रदर्शनं सुतीक्ष्णादीनां विद्यमानत्वात् । समागताः सम्मलिताः ॥ ३।६।१ ॥
वैखानसा वालखिल्यास्सम्प्रक्षाला मरीचिपाः ।
अश्मकुट्टाश्च बहवः पत्त्राहाराश्च धार्मिकाः ॥ ३।६।२ ॥
वैखानसा इत्यादि । “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इत्युक्तरीत्या भगवन्नखरोमजाता ऋषयः । सदा शरीरं सम्प्रक्षालयन्तीति सम्प्रक्षालाः । मरीचींश्चन्द्रसूर्यादिकिरणान् सदा पिबन्तीति मरीचिपाः । सदान्तः किरणान् प्रवेशयन्तो विवृतास्या इत्यर्थः । अश्मभिरात्मशरीराणि कुट्टन्तीत्यश्मकुट्टाः । पत्त्राहाराः पर्णाशनाः ॥ ३।६।२ ॥
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे ।
गात्रशय्या अशय्याश्चट तथैवाभ्रावकाशकाः ॥ ३।६।३ ॥
दन्ता एवोलूखलं तदेषामस्तीति दन्तोलूखलिनः, दन्तैरेव व्रीह्यादितुषनिर्मोकं कृत्वा भक्षयन्त इत्यर्थः । उन्मज्जकाः शिरोमात्रमुद्धृत्य सदा जलावगाढाः । गात्रमेव शय्या येषां ते गात्रशय्याः । उरसि पृष्ठें ऽसयोर्वा शिरः कृत्वा शयाना इत्यर्थः । अतो न स्थण्डिलशायिन इत्यनेन पुनरुक्तिः । अशय्याः अनम्रगात्रा इत्यर्थः । अभ्रावकाशकाः वर्षवातातपादिष्वप्यनावृतदेश एव वर्तमानाः ॥ ३।६।३ ॥
मुनयः सलिलाहारा वायुभक्षास्तथापरे ।
आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ॥ ३।६।४ ॥
सलिलाहाराः सलिलमात्राहाराः । वायुभक्षाः वायुमात्रभक्षाः । आकाशे वृक्षाग्रादौ निलीयन्ते इत्याकाशनिलयाः । स्थण्डिले कुशाद्यास्तृतभूतले शेरत इति स्थण्डिलशायिनः ॥ ३।६।४ ॥
व्रतोपवासिनो दान्तास्तथार्द्रपटवाससः ।
सजपाश्च तपोनित्यास्तथा पञ्चतपोन्विताः ॥ ३।६।५ ॥
व्रतोपवासिनः व्रतोपवासनिरताः, सर्वाहारशून्या इत्यर्थः । आर्द्रपटवाससः आर्द्रपटवसनशीलाः । सजपाः सदा जपशीलाः । तपोनित्याः “स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः” इत्युक्तसदास्वाध्यायपारायणरूपतपोनिष्ठाः । पञ्चतपोन्विताः ग्रीष्मे पञ्चाग्निमध्यस्थाः ॥ ३।६।५ ॥
सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगास्समाहिताः ।
शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ॥ ३।६।६ ॥
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् ।
ऊचुः परमधर्मज्ञमृषिसङ्घास्समाहिताः ॥ ३।६।७ ॥
ब्राह्म्या श्रिया ब्रह्मविद्यानुष्ठानजनितब्रह्मवर्चसेन दृढः परिपक्वः योगो यमनियमाद्यष्टाङ्गयोगो येषां ते दृढयोगाः । समाहिताः योगैकाग्रचित्ताः एवम्भूतास्तापसा राममभिजग्मुरित्यन्वयः । मुनिवैविध्योक्तिर्दर्शनीयत्वाय । अत्राभिजग्मुरित्यनेन शरणागतिरुक्ता ॥ ३।६।६,७ ॥
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ ।
प्रधानश्चासि नाथश्च देवानां मघवानिव ॥ ३।६।८ ॥
इक्ष्वाकुकुलस्य प्रधानः पृथिव्याश्च नाथः । प्रथमे दृष्टान्तः देवानामिति । यथा देवेन्द्र इति शक्रस्य नाम तथा रघुपतिरिति तव नामेत्यर्थः ॥ ३।६।८ ॥
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ।
पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ॥ ३।६।९ ॥
यशसा शरभङ्गानुग्रहकीर्त्या । विक्रमेण विराधनिरसनेन च त्रिषु लोकेषु भूर्भुवस्सुवर्लोकेषु विश्रुतः प्रसिद्धः । पितृभक्तिस्त्वयि पुष्कला तद्वचनेन लब्धस्यापि राज्यस्य त्यागात् । सत्यं सत्यवचनं च त्वयि पुष्कलं भरतप्रार्थनयापि प्रतिज्ञातस्याभज्जनात् । धर्मश्च त्वयि पुष्कलः शरभङ्गानुग्रहात् । ३।६।९ ॥
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ।
अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ ३।६।१० ॥
धर्मज्ञं धर्मवत्सलमित्युक्तानुवादः । अर्थिनो याचकास्तेषां भावो ऽर्थित्वं याच्ञेत्यर्थः । सा च रक्षोनिरसनविषया तया त्वां किञ्चिद्वक्ष्यामः तत् क्षन्तुमर्हसि आर्ततया त्वदग्रगमनमेव कार्यसाधनम्, आर्त्यतिशयेन विज्ञापनं तु क्षमस्वेत्यर्थः । एतेन उपायत्वाध्यवसाय एव चेतनस्य कृत्यम्, प्रार्थनं तु न कर्तव्यम् । हठात् कृते ऽपि क्षमापणं कर्तव्यमित्युक्तं भवति ॥ ३।६।१० ॥
अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः ।
योहरेद्बलिषड्भागं न च रक्षति पुत्रवत् ॥ ३।६।११ ॥
स्वविषये रामेण रक्षणं स्वाभाविकमिति दर्शयिष्यन्तः औपाधिकलौकिकराजरक्षणप्रकारं दर्शयन्ति अधर्मस्त्वित्यादिना । यः प्रजाभ्यो बलिषड्भागं हरति हृत्वा च ताः न रक्षति तस्य महान् अधर्मः । बलिः करः । “भागधेयः करो बलिः” इत्यमरः । षष्ठो भागः षड्भागः । लुप्तपूरणो निर्दिशः । बलिश्चासौ षड्भागश्च बलिषड्भागः ॥ ३।६।११ ॥
युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव ।
नित्ययुक्तस्सदा रक्षन् सर्वान् विषयवासिनः ॥ ३।६।१२ ॥
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् ।
ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥ ३।६।१३ ॥
एवमरक्षणे प्रत्यवायमुक्त्वा रक्षणेभ्युदयमाहुः युञ्जान इति । युञ्जनो यतमानः । नित्ययुक्तो नित्यावहितः । सर्वान् स्वविषयवासिनः स्वकीयान् प्राणानिव प्राणैः प्राणेभ्यो ऽपि इष्टान् सुतानिव च यो रक्षति स महीपतिः बहुवार्षिकीं बहुकालस्थायिनीं शाश्वतीम् अनुवृत्ताम् । “मुहुः पुनः पुनः शश्वत्” इति बाणः । भवार्थे ऽण् ततो ङीप् । कीर्तिं प्राप्नोति । ब्रह्मणः स्थानमासाद्य तत्र ब्रह्मणा महीयते पूज्यते च ॥ ३।६।१२,१३ ॥
यत्करोति परं धर्मं मुनिर्मूलफलाशनः ।
तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ॥ ३।६।१४ ॥
यस्तु करप्रदानासमर्थो मुनिजनस्तद्रक्षणं कुत इत्यत्राह यदिति । यद्धर्मं तत्र धर्मे राज्ञः चतुर्थांशो भवति ॥ ३।६।१४ ॥
सो ऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् ।
त्वन्नाथो ऽनाथवद्राम राक्षसैर्बाध्यते भृशम् ॥ ३।६।१५ ॥
एवं धर्माय प्रजारक्षकस्य फलमुक्त्वा धर्मानपेक्षे रामे शरणागितरेव रक्षणहेतुरित्याहुः सो ऽयमित्यादिना । स पूर्वोक्तवैखानसादिरूपः । ब्राह्मणः भूयिष्ठाः अधिकाः यस्मिन् स ब्राह्मणभूयिष्ठः । क्षत्ित्रयवैश्यवानप्रस्थसम्भवात् । ब्राह्मणभूयिष्ठ इत्युक्तम् । यद्वा ब्राह्मणः ब्रह्मविदः । “तदधीते तद्वेद” इत्यण् । वानप्रस्थानां तृतीयाश्रमिणां गणः त्वं नाथो यस्यासौ त्वन्नाथः । अनाथवद्बाध्यते ॥ ३।६।१५ ॥
एहि पश्य शरीराणि मुनीनां भावितात्मनाम् ।
हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥ ३।६।१६ ॥
बाधामेव दर्शयन्ति एहीत्यादिना । दूरे सम्यङ् न दृश्यत इत्यत एहि पश्येत्युक्तम् । भावितात्मनां ध्यातात्मनाम् । बहुधा छेदनभेदनभक्षणादिभिः ॥ ३।६।१६ ॥
पम्पानदीनिवासानामनुमन्दाकिनीमपि ।
चित्रकूटालयानां च क्रियते कदनं महत् ॥ ३।६।१७ ॥
हतानां बहूनामित्युक्तं विवृणेति पम्पेति । अनुमन्दाकिनीमपीति “अनुर्लक्षणे” कर्मप्रवचनीयः । मन्दाकीनीं शरभङ्गाश्रमवाहिनीं मन्दाकिन्यास्तटवासिनामित्यर्थः । कदनं हिंसा ॥ ३।६।१७ ॥
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् ।
क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः ॥ ३।६।१८ ॥
शरीराण्युपेक्ष्य तपस्यतां किं हिंसाभयेनेत्याश्ङक्य न वयं स्वशरीरपीडातो भीताः किन्तु महत्सु गरीयस्सु क्रियमाणं कदनं न मृष्याम इत्याहुः एवमिति । विप्रकारं निकारम् । “निकारो विप्रकारः स्यात् " इत्यमरः । स्वजनपीडा दुःसहेति भावः ॥ ३।६।१८ ॥
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः ।
परिपालय नो राम वध्यमानान्निशाचरैः ॥ ३।६।१९ ॥
तत इति । शरणार्थं रक्षणार्थम् । समुपस्थिताः प्रपन्नाः । “गत्यर्थाकर्मक” इत्यादिना कर्तरि क्तः ॥ ३।६।१९ ॥
परा त्वत्तो गतिर्विर पृथिव्यां नोपपद्यते ।
परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज ॥ ३।६।२० ॥
परेति । त्वत्तः परा अन्या गतिः उपायः नोपपद्यते । पृथिव्यामिति सर्वभुवनोपलक्षणम् । तथा च श्रुतिः “नान्यः पन्था अयनाय विद्यते " इति । इत्यूचुरिति पूर्वेणान्वयः ॥ ३।६।२० ॥
एतच्छ्रुच्वा तु काकुत्स्थस्तापसानां तपस्विनाम् ।
इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ॥ ३।६।२१ ॥
तपस्विनां प्रशस्ततपसाम् । तापसानां मुनीनाम् ॥ ३।६।२१ ॥
नैवमर्हथ मां वक्तुमाज्ञप्तो ऽहं तपस्विनाम् ।
केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥ ३।६।२२ ॥
शरणागत्यैवाज्ञप्तो ऽहं परिपालयेत्यादिकं वक्तुं नार्हथ, केवलेनात्मकार्येण केवलात्मप्रयोजनत्वेन । राक्षसैः क्रियमाणं भवतामिमं विप्रकारम् अपाक्रष्टुं निवर्तयितुं मया वनं प्रवेष्टम् । “तयोरेव कृत्यक्तखलर्थाः " इति कर्मणि तव्यप्रत्ययः । स्वतो मत्प्रयोजनरूपं भवद्विरोधिनिरसनं कर्तुमेवेदं वनं प्रविष्टो ऽस्मीत्यर्थः । शेषभूतरक्षणस्य शेषिप्रयोजनत्वादिति भावः ॥ ३।६।२२ ॥
विप्रकारमपाक्रष्टुं राक्षसैर्भावितामिमाम् ।
पितुस्तु निर्देशकरः प्रविष्टो ऽहमिदं वनम् ।
भवतामर्थसिद्ध्यर्थमागतो ऽहं यदृच्छया ॥ ३।६।२३ ॥
अहं भवतामर्थसिद्ध्यर्थमागतो ऽस्मि, यदृच्छया दैवगत्या पितुर्निर्देशकरः वनमिदं प्रविष्टो ऽस्मि । पितृवाक्यकरणव्याजेन भवदर्थसिद्ध्यर्थमेवागतो ऽस्मीति भावः ॥ ३।६।२३ ॥
तस्य मे ऽयं वने वासो भविष्यति महाफलः ॥ ३।६।२४ ॥
भवत्कार्यार्थमेवागतस्य मे वने वासो महाफलो भविष्यति ॥ ३।६।२४ ॥
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान् ।
पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः ॥ ३।६।२५ ॥
तदेव फलमाह तपस्विनामिति । तपस्विनां शूत्रून् रणे हन्तुमिच्छामि इतीदं प्रोवाचेत्यन्वयः ॥ ३।६।२५ ॥
दत्त्वा ऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन ।
तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः ॥ ३।६।२६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे षष्ठः सर्गः ॥ ६ ॥
दत्त्वेति । अभयमिति छेदः । धृतात्मा निश्चलमनाः । तपोधनैः ऋषिभिश्च सभाज्यवृत्तः पूज्याचारः ॥ ३।६।२६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥