सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २।११८।१ ॥
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।
विदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥ २।११८।२ ॥
अथ सीतानसूयासंवादो ऽष्टादशोत्तरशततमे–सेति । अनसूया असूयारहिता । पातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थः ॥ २।११८।१२ ॥
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २।११८।३ ॥
किं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः ।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ २।११८।४ ॥
यद्यपीति । अद्वैधं द्वैधीभावरहितम् । उपचर्त्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः । मातृवत्प्रियः प्रियपरत्वात्, पितृवत्प्रियः अत्यन्तहितपरत्वेन ॥ २।११८।३४ ॥
यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः ।
तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २।११८।५ ॥
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः ।
मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २।११८।६ ॥
यामिति । नृपनारीणाः सप्तम्यर्थे षष्ठी ॥ २।११८।५६ ॥
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २।११८।७ ॥
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।
अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २।११८।८ ॥
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २।११८।९ ॥
आगच्छन्त्या इति । श्वश्र्वा कौसल्यया यत्पातिव्रत्यधर्माचरणं समाहितम् उपदिष्टमित्यर्थः ॥ २।११८।७९ ॥
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २।११८।१० ॥
वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।
रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २।११८।११ ॥
सावित्रीति । तथावृत्तिस्त्वं च दिवं यातेत्युक्तिः पातिव्रत्यतपोमाहात्म्येन स्वर्गस्य हस्तगतत्वात् ॥ २।११८।१०११ ॥
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २।११८।१२ ॥
ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २।११८।१३ ॥
एवंविधा इति । भर्तृदृढव्रताः अतिसङ्कटदशायामपि भर्तृविषयदृढव्रतयुक्ताः ॥ २।११८।१२१३ ॥
नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २।११८।१४ ॥
उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २।११८।१५ ॥
नियमैरिति । छन्दये वरं वृणीष्वेति प्रार्थये ॥ २।११८।१४१५ ॥
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २।११८।१६ ॥
मन्दविस्मया मन्दस्मितेत्यर्थः ॥ २।११८।१६ ॥
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २।११८।१७ ॥
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २।११८।१८ ॥
मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।
अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २।११८।१९ ॥
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।
शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २।११८।२० ॥
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २।११८।२१ ॥
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।
श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २।११८।२२ ॥
प्रहर्षं ते तुभ्यं सफलं करोमि करिष्यामि । अङ्गरागः कुङ्कुमहरिचन्दनादिः । अनुलेपनं कर्पूरागरुकस्तूरीप्रमुखपरिमलमिलितम् । अनुरूपं त्वद्ग्रात्रानुरूपम् । असंक्लिष्टम् अबाधितशोभमित्यर्थः । भर्तारं शोभयिष्यसीत्यन्ते इत्यब्रवीच्चेत्यध्याहारः । सा अनसूया प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेति सबन्धः ॥ २।११८।१७२२ ॥
तथा सीतासुपासीनामनसूया दृढव्रता ।
वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २।११८।२३ ॥
प्रियकथामनु प्रियां कथामुद्दिश्य । सीतां प्रष्टुं वचनमारेभे वचनं वक्तुमारेभे इत्यर्थः ॥ २।११८।२३ ॥
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।
राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २।११८।२४ ॥
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २।११८।२५ ॥
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २।११८।२६ ॥
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।
क्षत्त्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २।११८।२७ ॥
श्रुतिमुपागता श्रुतिपथं प्राप्ता ॥ २।११८।२४२७ ॥
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २।११८।२८ ॥
तस्येति । कर्षतः “षड्गवेन कृषति” इति श्रुत्या शोधनं कुवर्तः । क्षेत्रमण्डलं यागोपयोगिक्षेत्रम्, चयनस्थानमित्यर्थः ॥ २।११८।२८ ॥
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।
पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २।११८।२९ ॥
मुष्टिविक्षेपतत्परः “या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति” इत्युक्तप्रकारेण ओषधिमुष्टिविकिरणतत्परः ॥ २।११८।२९ ॥
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ २।११८।३० ॥
अनपत्येन च तेन स्नेहान्मामङ्कमारोप्य इयं मम तनयेति चोक्त्वा स्नेहो मयि निपातितः । अङ्कम् उत्सङ्गम् ॥ २।११८।३० ॥
अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।
एवमेतन्नरपते धर्मेण तनया तव ॥ २।११८।३१ ॥
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः ।
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ २।११८।३२ ॥
मा प्रति मामुद्दिश्य ऽएवमेतन्नरपते धर्मेण तनया तवऽ इति अन्तरिक्षे अमानुषीवागुक्ता । यद्वा वागुक्ताप्रतिमेत्यत्र अप्रतिमेति च्छित्वा वाग्विशेषणतया वा योज्यम् ॥ २।११८।३१३२ ॥
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २।११८।३३ ॥
दत्तेति । इष्टवद्देव्यै इच्छावत्यै देव्यै । पुण्यकर्मणा अनवरतयज्ञादिकर्मयुक्तेन जनकेन ।
सम्भाविता संवर्द्धितेत्यर्थः ॥ २।११८।३३ ॥
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ २।११८।३४ ॥
पतिसंयोगसुलभमिति । पतिसंयोगे सति सुलभम् अन्यथा दुर्ल्लभमित्यर्थः । पतिसंयोगं विना स्थातुमशक्ययौवनावस्थावदित्यर्थः ॥ २।११८।३४ ॥
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २।११८।३५ ॥
प्रधर्षणां तिरस्क्रियाम् ॥ २।११८।३५ ॥
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः ।
चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ २।११८।३६ ॥
अप्लवः प्लवरहितः ॥ २।११८।३६ ॥
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।
सदृशं चानुरूपं च महीपालः पतिं मम ॥ २।११८।३७ ॥
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।
स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ २।११८।३८ ॥
अयोनिजामिति । सदृशम् अभिजनवृत्तादिना तुल्यम् । अनुरूपं प्रादुर्भूतयौवनाप्रतिमरूपलावण्यादिना योग्यम् ॥ २।११८।३७३८ ॥
महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २।११८।३९ ॥
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ २।११८।४० ॥
तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २।११८।४१ ॥
वरुणेन दत्तं वरुणेनातिसहकारिणा दत्तम् ॥ २।११८।३९४१ ॥
इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।
तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ २।११८।४२ ॥
भविष्यति न संशय इत्यत्र इतिकरणं द्रष्टव्यम् ॥ २।११८।४२ ॥
तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् ।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २।११८।४३ ॥
सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ।
लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ २।११८।४४ ॥
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ।
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २।११८।४५ ॥
सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।
धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २।११८।४६ ॥
इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ।
निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २।११८।४७ ॥
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २।११८।४८ ॥
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।
तस्य शब्दो ऽभवद्भीमः पतितस्याशनेरिव ॥ २।११८।४९ ॥
ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २।११८।५० ॥
तोलने चालने ॥ २।११८।४३५० ॥
दीयमानां न तु तदा प्रतिजग्राह राघवः ।
अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ २।११८।५१ ॥
ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २।११८।५२ ॥
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २।११८।५३ ॥
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।
अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २।११८।५४ ॥
दीयमानामिति । छन्दम् अभिप्रायम् । “वशाभिप्राययोश्छन्दः” इति वैजयन्ती ॥ २।११८।५१५४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥