११७ अत्र्याश्रमगमनम्

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।

न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ २।११७।१ ॥

अथ रामस्यात्र्याश्रमप्रवेशः सप्तदशोत्तरशततमे–राघव इत्यादिना ॥ २।११७।१ ॥

इह मे भरतो दृष्टो मातरश्च सनागराः ।

सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २।११७।२ ॥

बहुकारणान्येवाह–इह म इत्यादिना ॥ २।११७।२ ॥

स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।

हयहस्तिकरीषैश्च उपमर्द्दः कृतो भृशम् ॥ २।११७।३ ॥

स्कन्धावारनिवेशेन सेनानिवेशेन । करीषैश्च उपमर्द इत्यत्र वाक्यसंहिताया अनित्यत्वान्न सन्धिकार्य्यम् । “पदेषु संहिता नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ " इति वचनात् ॥ २।११७।३ ॥

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः ।

प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ २।११७।४ ॥

सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।

तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ २।११७।५ ॥

तस्मादिति । प्रातिष्ठत प्रस्थितः ॥ २।११७।४५ ॥

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।

सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ २।११७।६ ॥

आतिथ्यमादिश्य आतिथ्यं कृत्वा ॥ २।११७।६ ॥

पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।

सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ २।११७।७ ॥

सत्कृतां सर्वैः सत्कृताम् ॥ २।११७।७ ॥

अनसूयां महाभागां तापसीं धर्मचारिणीम् ।

प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ।

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ २।११७।८ ॥

प्रतिगृह्णीष्वेत्यत्र इतिकरणं द्रष्टव्यम् ॥ २।११७।८ ॥

दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।

यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २।११७।९ ॥

उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।

दशवर्षसहस्राणि यया तप्तं महत्तपः ॥ २।११७।१० ॥

अनसूया व्रतैः स्नाता प्रत्यूहाश्च निवर्त्तिताः ।

देवकार्यनिमित्तं च यया संत्वरमाणया ।

दशरात्रं कृता रात्रिः सेयं मातेव ते ऽनघ ॥ २।११७।११ ॥

दशवर्षाणीत्यारभ्य सेयं मातेव तेनघेत्यन्तमेकं वाक्यम् । दशवर्षाण्यनावृष्ट्या लोके दग्धे सति यया स्वतपोमहिम्ना निरन्तरं मूलफले सृष्टे । जाह्नवी च प्रवर्तिता । यया दशवर्षसहस्राणि महत्तपस्तप्तं कृतम् । यया व्रतैः कृच्छ्रचान्द्रायणादिभिः प्रत्यूहास्तपोविघ्नाश्च निवर्तिताः निरस्ताः । देवकार्यनिमित्तं सन्त्वरमाणया यया दशरात्रमेकारात्रिश्च कृता दशरात्रावधिकः कालः एकरात्रत्वेन कृत इत्यर्थः । इयं कथा पुराणेषु द्रष्टव्या । उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता, सेयमनसूया ते मातेव मातृवत्पूजनीयेत्यर्थः ॥ २।११७।९११ ॥

तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।

अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।

अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ २।११७।१२ ॥

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।

सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ २।११७।१३ ॥

राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।

श्रेयोर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम् ॥ २।११७।१४ ॥

सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ।

तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ २।११७।१५ ॥

तामित्यादि । या कर्मभिरनन्यशक्यैः परानुग्रहार्थतपोविशेषैः अनसूया असूयारहितेति लोके ख्यातिमागता । यद्वा कर्मभिः पातिव्रत्यवर्द्धकैः अन्याभिः कर्त्तुमशक्यैः पतिरक्षणादिकर्मभिः । अनसूया अस्पर्द्धनीयमाहात्म्ययुक्तत्वादसूयितुमशक्या इति लोके ख्यातिमागता तामिमां वैदेही अनुगच्छत्विति सम्बन्धः ॥ २।११७।१२१५ ॥

शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।

सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ २।११७।१६ ॥

तां तु सीता महाभागामनसूयां पतिव्रताम् ।

अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ २।११७।१७ ॥

शिथिलामित्यादिश्लोकद्वयमेकान्वयम् । शिथिलां श्लथसन्धिबन्धावयवसन्निवेशाम् । वलितां सञ्जातवलिकाम् ॥ २।११७।१६१७ ॥

अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।

बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २।११७।१८ ॥

अनामयम् आरोग्यम् । “अनामयं स्यादारोग्यम्” इत्यमरः ॥ २।११७।१८ ॥

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।

सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २।११७।१९ ॥

दिष्ट्या भाग्येन धर्ममवेक्षसे पातिव्रत्यधर्ममवधानेन समीक्षसे ॥ २।११८।१९ ॥

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।

अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २।११७।२० ॥

नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ २।११७।२१ ॥

दुःशीलः कामवृत्तो वा धनैवा परिवर्जितः ।

स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ २।११७।२२ ॥

ज्ञातिजनं बन्धुजनम् । मानम् अहङ्कारम् । वने अवरुद्धं चतुर्दशवर्षाणि वने वस्तव्यमिति पित्रा नियुक्तम् ॥ २।११७।२०२२ ॥

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।

सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् ॥ २।११७।२३ ॥

सर्वत्रयोग्यं सर्वावस्थासु रक्षणसमर्थम् ॥ २।११७।२३ ॥

न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रियः ।

कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः ॥ २।११७।२४ ॥

प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।

अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ २।११७।२५ ॥

त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः ।

स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २।११७।२६ ॥

कामवक्तव्यहृदयाः कामविषयवक्तव्यहृदयाः, कामरूपार्थाभिलाषिण्य इति यावत् । यद्वा मदनविधेयहृदयाः । भर्तृनाथाः भर्तृ़णां नाथभूताः, भर्तृनियामिका इत्यर्थः । यद्वा भर्तारं नाथन्ते याचन्त इति तथा, परपुरुषकाङ्क्षिण्य इत्यर्थः ॥ २।११७।२४२६ ॥

तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।

भवस्व भर्त्तुः सहधर्मचारिणी यशश्च धर्मं च ततः समाप्स्यसि ॥ २।११७।२७ ॥

समयानुवर्त्तिनीं आचारानुवर्त्तिनी । “समयाः शपथाचारकालसिद्धान्तसंविदः” इत्यमरः । भर्तुः सहधर्मचारिणी भवस्व भव । आर्षमात्मनेपदम् । ततः भर्तुः सहधर्मचारिणीत्वेन यशश्च धर्मं च कालान्तरानुभाव्यसुखसाधनमदृष्टं च समाप्स्यसि । यद्वा भर्तुः सहधर्मचारिणी एवम्भूता त्वं ततः भर्तुः सहधर्मचारिणीत्वरूपहेतोः यशश्च भवस्व प्राप्नुहीत्यर्थः । धर्मं च समाप्स्यसि भूप्राप्तावत्मनेपदीति गणपाठात् प्राप्त्यर्थस्य भवतेरात्मनेपदम् । पातिव्रत्यधर्मेण सर्वैः श्लाघां प्राप्य कालान्तरे तज्जन्यादृष्टद्वारा निरतिशयं श्रेयः समवाप्स्यसीत्यर्थः । इति धर्मचारिण्यनसूया सीतामब्रवीदिति सम्बन्धः ॥ २।११७।२७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥