प्रतिप्रयाते भरते वसन् रामस्तपोवने ।
लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ २।११६।१ ॥
अथ रामस्य चित्रकूटान्निर्गमनं षोडशोत्तरशततमे–प्रतिप्रयात इत्यादि । सोद्वेगं सभयम् । औत्सुक्यम् आश्रमान्तरगमनाभिलाषं लक्षयामास इङ्गिताकारादिभिरिति शेषः ॥ २।११६।१ ॥
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २।११६।२ ॥
य इति । पुरस्तात् पूर्वं चित्रकूटस्य तापसाश्रमे राममाश्रित्य ये निरतास्तान् । उत्सुकान् गमनोत्सुकान् । अलक्षयत् राम इत्यनुषङ्गः ॥ २।११६।२ ॥
नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किताः ।
अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥ २।११६।३ ॥
रामं निर्दिश्य प्रदर्श्य । मिथः रहस्ये । “मिथोन्योन्यरहस्ययोः” इति वैजयन्ती ॥ २।११६।३ ॥
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः ।
कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः ॥ २।११६।४ ॥
तेषामिति । आत्मनि शङ्कितः स्वस्मिन् सञ्जातशङ्कः ॥ २।११६।४ ॥
न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।
दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ॥ २।११६।५ ॥
हे भगवन् मयि पूर्ववृत्तं विकृतं न दृश्यते कच्चित् । येन तपस्विनो विक्रियन्ते इदं किञ्चित् किमिदमित्यर्थः ॥ २।११६।५ ॥
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।
लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥ २।११६।६ ॥
कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि ।
प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ २।११६।७ ॥
प्रमादात् अनवधानात् । मे अवराजस्य लक्ष्मणस्य । आत्मनो नानुरूपमिव किञ्चिच्चरितम् ऋषिभिर्दृष्टं न कच्चिदित्यन्वयः ॥ २।११६।६७ ॥
अथर्षिर्जरया वृद्धस्तपसा च जरां गतः ।
वेपमान इवोवाच रामं भूतदयापरम् ॥ २।११६।८ ॥
तपसा च जरां गतः सुदीर्धतपा इत्यर्थः ॥ २।११६।८ ॥
कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा ।
चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ २।११६।९ ॥
कल्याणसत्त्वायाः कल्याणस्वभावायाः । “सत्त्वो ऽस्त्री जन्तुषु क्लीबो ऽध्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः ॥ " इति वैजयन्ती ॥ २।११६।९ ॥
त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।
रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः ॥ २।११६।१० ॥
त्वन्निमित्तमिति । त्वन्निमित्तं त्वत्तो हेतोः । रक्षोभ्यः समागतम् इदं वक्ष्यमाणमुपद्रवजातम् । तापसान् प्रति वर्तते । तेन रक्षस्सञ्जातोपद्रवेण । संविग्नाः तापसाः मिथः रहसि कथाः रक्षोविषयिणीः तदुपद्रवविषयिणीश्च कथयन्ति ॥ २।११६।१० ॥
रावणावरजः कश्चित् खरो नामेह राक्षसः ।
उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ २।११६।११ ॥
धृष्टश्च जितकाशीं च नृशंसः पुरुषादकः ।
अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ २।११६।१२ ॥
ता एवाह–रावणावरज इत्यादिना । श्लोकद्वयमेकं वाक्यम् । उत्पाट्य उत्खाय, निष्कास्येति यावत् । जितेन जयेन काशते प्रकाशत इति जितकाशी । यद्वा जिताहवः । “जितकाशीं जिताहवः” इति हलायुधः ॥ २।११६।१११२ ॥
त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।
तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २।११६।१३ ॥
त्वमिति । विप्रकुर्वन्ति अपकुर्वन्ति ॥ २।११६।१३ ॥
दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि ।
नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ॥ २।११६।१४ ॥
दर्शयन्तीति । बीभत्सैः जुगुप्सितैः । क्रूरैः भीषणकैः भयङ्करैः । नानारूपैः अनेकप्रकारैः । विरूपैः लोकविलक्षणसंस्थानैः । विकृतदर्शनैः विकृतदृष्टिभिः । रूपैः शरीरैः दर्शयन्ति भयमिति शेषः ॥ २।११६।१४ ॥
अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् ।
प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्याः पुरतः स्थिताः ॥ २।११६।१५ ॥
अप्रशस्तैः अशुभैः । अशुचिभिः अशुचिद्रव्यैः संप्रयोज्य ॥ २।११६।१५ ॥
तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।
रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतसः ॥ २।११६।१६ ॥
अबुद्धम् अविदितं यथा भवति तथा । अवलीय निलय । रमन्ते विहरन्ति । अल्पचेतसः क्षुद्रबुद्धयः ॥ २।११६।१६ ॥
अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।
कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ २।११६।१७ ॥
हवने समुपस्थिते होमकर्मणि प्रवृत्ते ॥ २।११६।१७ ॥
तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासवः ।
गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ २।११६।१८ ॥
प्रजिहासवः प्रकर्षेण हातुमिच्छवः ॥ २।११६।१८ ॥
तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।
दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ २।११६।१९ ॥
बहुमूलफलं चित्रमविदूरादितो वनम् ।
पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥ २।११६।२० ॥
पुरादर्शयन्ति दर्शयिष्यन्ति । “यावत्पुरानिपातयोर्लट्” इतिलट् ॥ २।११६।१९२० ॥
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।
सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्त्तते ॥ २।११६।२१ ॥
खर इति । अयुक्तमिति क्रियाविशेषणम् । पुरा प्रवर्त्तते प्रवर्तिष्यते ॥ २।११६।२१ ॥
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।
समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ॥ २।११६।२२ ॥
सकलत्रस्येति । सन्देहः सन्देहजनकः । यत्तस्य सन्नद्धस्य । दुःखं दुःखहेतुः ॥ २।११६।२२ ॥
इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकः ॥ २।११६।२३ ॥
उत्तरैर्वाक्यैरवरोद्धुं न शशाक मयि वर्त्तमाने युष्माकं का भीतिः अहमेव परितो रक्षामीत्युत्तरवाक्यैर्निरोद्धुं न शशाक ॥ २।११६।२३ ॥
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।
स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ २।११६।२४ ॥
अभिनन्द्येति । कुलैः ऋषिसङ्घातैः । “कुलं सङ्घातवंशयोः” इति वैजयन्ती ॥ २।११६।२४ ॥
रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।
सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २।११६।२५ ॥
रामः ऋषिगणं तस्माद्देशात् आश्रमप्रदेशात् । अनुगमनात् संसाध्य प्रस्थाप्य । कुलपतिमभिवाद्य तैरुपदिष्टार्थः उपदिष्टप्रयोजनस्सन् । वासाय पुण्यं स्वनिलयम् उपसंपेदे इति सम्बन्धः ॥ २।११६।२५ ॥
आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि न विजहौ स राघवः ।
राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणाः ॥ २।११६।२६ ॥
आश्रममिति । राघवः ऋषिविरहितमप्याश्रमं क्षणं न विजहौ मुनिशून्यतया तदैव त्याज्यमप्याश्रमं मुनिविषयप्रेम्णा क्षणं न त्यक्तवानित्यर्थः । आर्षचरितधृतगुणाः रामस्यार्षचरित्रेण सञ्चितगुणाः । हि यस्मात्कारणात्तापसाः राममनुगतस्तस्मात् तत्प्रेम्णा क्षणं न जहाविति । वृत्तं तु श्लोकद्वयस्यापि चिन्त्यम् ॥ २।११६।२६ ॥
इत्यार्षे श्रीरामायणे० श्रीमदयोध्याकाण्डे षोडशोत्तरशततमः सर्गः ॥ ११६ ॥
इति श्रीगो० श्रीरामा० पीता० अयोध्याकाण्ड० षोडशोत्तरशततमः सर्गः ॥ ११६ ॥