ततो निक्षिप्य मातृ़ः स अयोध्यायां दृढव्रतः ।
भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २।११५।१ ॥
अथ भरतस्य नन्दिग्रामे स्थित्वा राज्यपरिपालनं पञ्चदशोत्तरशततमे–तत इत्यादिना ॥ २।११५।१ ॥
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य वः ।
तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ॥ २।११५।२ ॥
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।
रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ २।११५।३ ॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥ २।११५।४ ॥
नन्दिग्राममिति । राघवं विना दुःखं राघवं विना प्राप्तं दुःखम् ॥ २।११५।२४ ॥
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।
वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २।११५।५ ॥
सुभृशं श्लाघनीयं चेति पाठः । सदृशमिति पाठे कुलस्य सदृशमित्यर्थः ॥ २।११५।५ ॥
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥ २।११५।६ ॥
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।
अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २।११५।७ ॥
नित्यमिति । नानुमन्येत वचनमिति शेषः ॥ २।११५।६७ ॥
प्रहृष्टवदनः सर्वा मातृ़ः समभिवाद्य सः ।
आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वितः ॥ २।११५।८ ॥
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ ।
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ २।११५।९ ॥
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः ।
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २।११५।८९ ॥
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।
प्रययौ भरते याते सर्वे च पुरवासिनः ॥ २।११५।११ ॥
रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः ।
नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २।११५।१२ ॥
ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः ।
अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २।११५।१३ ॥
(प्रहृष्टवदन इति सम्यक् ॥ २।११५।८९ ॥ अग्रतो गुरवस्तत्र नन्दिग्रामो यतो ऽभवत् इति पाठः ॥ २।११५।१०१२ ॥ नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके इत्यतःपरं ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः । अवतीर्य रथात्तूर्णं गुरूनिदमुवाचहेति श्लोकः ॥ २।११५।१६ ॥ )
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।
योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २।११५।१४ ॥
मातृवरव्याजेन पित्रा दत्तं राज्यं भरतः करोतीति जनवादो माभूदिति धिया वदति–एतदित्यादिना । संन्यासवत् सम्यक्निक्षिप्तद्रव्यमिव अनेनान्यूनतया प्रत्यर्पणीयत्वं ध्वन्यते । निक्षेपवद्दत्तस्य राज्यस्य रक्षणादिस्वातन्त्र्यमपि स्वस्य नास्तीति दर्शयति योगक्षेमवहे चेति ॥ २।११५।१४ ॥
भरतः शिरसा कृत्वा संन्यासं पादुके ततः ।
अब्रवीद्दुःखसन्तप्तः सर्वं प्रकृतिमण्डलम् ॥ २।११५।१५ ॥
भरत इति । संन्यासं पादुके स्वप्रतिनिधित्वेन न्यस्ते पादुके ॥ २।११५।१५ ॥
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।
आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥ २।११५।१६ ॥
छत्त्रमित्येतच्चामरादीनामुपलक्षणम् । अत एव धारयतेति बहुवचनम् । आर्यपादाभेदभावनया पादुकयोरिमाविति पुँल्लिङ्गनिर्देशः । पादुकाभ्यामिति हेतौ तृतीया ॥ २।११५।१६ ॥
भ्रात्रा हि मयि संन्यासो निक्षिप्तः सौहृदादयम् ।
तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २।११५।१७ ॥
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् ।
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ २।११५।१८ ॥
अयं संन्यासः पादुकारूपप्रतिनिधिः । पालयिष्यामि रक्षिष्यामि ॥ २।११५।१७१८ ॥
ततो निक्षिप्तभारो ऽहं राघवेण समागतः ।
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २।११५।१९ ॥
राघवेण समागतः सङ्गतः । गुरवे राज्यं निवेद्य रामाय राज्यं प्रत्यर्प्य । ततः गुरुवृत्तितां भजिष्ये पितरीव शुश्रूषां करिष्यामीत्यर्थः ॥ २।११५।१९ ॥
राघवाय च संन्यासं दत्त्वे मे वरपादुके ।
राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २।११५।२० ॥
धूतपाप इत्यत्र पापशब्देन कैकेयी निमित्तमयश उच्यते ॥ २।११५।२० ॥
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।
प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २।११५।२१ ॥
एवं तु विलपन् दीनो भरतः स महायशाः ।
नन्दिग्रामे ऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह ॥ २।११५।२२ ॥
स वल्कलजटाधारी मुनिवेषधरः प्रभुः ।
नन्दिग्रामे ऽवसद्वीरः ससैन्यो भरतस्तदा ॥ २।११५।२३ ॥
प्रहृष्टमुदिते प्रहृष्टः पुलकितगात्रः, मुदितः सञ्जातमानसहर्षः ॥ २११५।२१२३ ॥
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः ।
भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २।११५।२४ ॥
पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा ।
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २।११५।२५ ॥
रामागमनमाकाङ्क्षन्नित्यादि । पादुकाभ्यां न्यवेदयत् विज्ञापयामास ॥ २।११५।२४२५ ॥
ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके ।
तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २।११५।२६ ॥
आर्य्यपादुके अभिषिच्य राज्याभिषेकमार्यपादुकयोः कृत्वेत्यर्थः । तदधीनः पादुकापरतन्त्रः ॥ २।११५।२६ ॥
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।
स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २।११५।२७ ॥
तदा पादुके पुरस्कृत्य राज्यपालनसमये । उपायनम् उपहारः । “उपायनमुपग्राह्यमुपहारः” इत्यमरः ॥ २।११५।२७ ॥
इत्यार्षे श्रीरामायणे० वाल्मी० श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥