११४ अयोध्याप्रवेशः

स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।

अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ २।११४।१ ॥

पूर्वसर्गान्तिमश्लेकोक्तं विस्तरेण दर्शयति चतुर्दशोत्तरशततमे–स्निग्धगम्भीरघोषेणेत्यादि । उपयान् समीपमागच्छन् ॥ २।११४।१ ॥

बिडालोलूकचरितामालीननरवारणाम् ।

तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २।११४।२ ॥

कालीं कृष्णपक्षसम्बन्धिनीम् ॥ २।११४।२ ॥

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।

ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ २।११४।३ ॥

अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।

लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ २।११४।४ ॥

राहुशत्रोः चन्द्रस्य ॥ २।११४।३४ ॥

विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् ।

हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ २।११४।५ ॥

विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।

हतप्रवीरामापन्नां चमूमिव महाहवे ॥ २।११४।६ ॥

सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।

प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ २।११४।७ ॥

हविरभ्युक्षितां दध्यादिहविषा अभ्युक्षिताम् । शिखां प्रवर्ग्योत्थितज्वालाम् ॥ २।११४।५७ ॥

त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।

सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ २।११४।८ ॥

यज्ञायुधैः स्फ्यादिभिः । सुत्याकाले सुत्यादिवसे ॥ २।११४।८ ॥

गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।

गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ २।११४।९ ॥

अचरन्तीम् अभक्षयन्तीम् ॥ २।११४।९ ॥

प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।

वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ २।११४।१० ॥

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।

संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ २।११४।११ ॥

प्रभाकराद्यैः पद्मरागाद्यैः ॥ २।११४।१०११ ॥

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।

द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ २।११४।१२ ॥

वसन्तान्ते ग्रीष्मे । द्रुतदावाग्निविप्लुष्टां वेगवद्दावाग्निना ईषद्दग्धाम् ॥ २।११४।१२ ॥

सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।

प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ २।११४।१३ ॥

संमूढनिगमां जनसञ्चाररहितमार्गाम् । “निगमो निश्चये वेदे पुरे पथि वणिक्पथे” इति वैजयन्ती । संक्षिप्तविपणापणां सङ्कुचितविक्रयां सङ्कुचितनिषद्यां च ॥ २।११४।१३ ॥

क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् ।

हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ २।११४।१४ ॥

क्षीणपानोत्तमैः क्षीणमधूत्तमैः । शरावैः चषकाकारैः । हतशौण्डां हतमत्तजनाम् । आकाशे अनावृतप्रदेशे ॥ २।११४।१४ ॥

वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।

उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ २।११४।१५ ॥

वृक्णभूमितलां विदीर्णभूमितलाम् । वृक्णपात्रैः भिन्नपात्रैः ॥ २।११४।१५ ॥

विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।

भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ २।११४।१६ ॥

वितताम् अटनीद्वयव्याप्ताम्, आरोपितामिति यावत् । युक्तपाशां युक्तरज्जुम् । तरस्विनां वीराणां बाणैः विनिष्कृत्ताम्, छिन्नामिति यावत् । आयुधात् धनुषः ॥ २।११४।१६ ॥

सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।

निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ २।११४।१७ ॥

शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ।

प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ २।११४।१८ ॥

पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।

सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ २।११४।१९ ॥

युद्धशौण्डेन आहवसमर्थेना निक्षिप्तभाण्डाम् अवरोपिताश्वभूषाम् । उत्सृष्टां वाहनानर्हां किशोरीं बालवडवाम् ॥ २।११४।१७१९ ॥

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।

प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २।११४।२० ॥

भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः ।

वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २।११४।२१ ॥

प्रविगाढायां प्रवृद्धायां भास्करस्य प्रभामिव स्थिताम् । उक्तविशेषणविशिष्टामयोध्यां प्रविवेशेति पूर्वेणान्वयः ॥ २।११४।२०२१ ॥

किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।

यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ २।११४।२२ ॥

किंनु खलु अहो कष्टं जातमित्यर्थः ॥ २।११४।२२ ॥

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः ।

धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ २।११४।२३ ॥

यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः ।

प्रमत्तगजनादश्च महांश्च रथनिस्वनः ।

नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २।११४।२४ ॥

चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः ।

गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते ॥ २।११४।२५ ॥

बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः ।

नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ २।११४।२६ ॥

वारुणीमदगन्धः वारुण्याः मदोत्पादको गन्ध इत्यर्थः ॥ २।११४।२३२६ ॥

सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।

नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २।११४।२७ ॥

सासारा वेगवद्वृष्टिसहिता । “आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले” इति वैजयन्ती । अर्जुनी शुक्लपक्षसम्बन्धिनी ॥ २।११४।२७ ॥

कदा नु खलु मे भ्राता महोत्सव इवागतः ।

जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ २।११४।२८ ॥

महोत्सवः ग्रीष्मे अम्बुद इव च अयोध्यायां कदा मे भ्राता हर्षं जनयिष्यतीति सम्बन्धः ॥ २।११४।२८ ॥

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।

सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ २।११४।२९ ॥

तरुणैरिति । उन्नतगामिभिः सगर्वगमनैरित्यर्थः । महापथाः राजमार्गाः ॥ २।११४।२९ ॥

एवं बहुविधं जल्पन् विवेश वसतिं पितुः ।

तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २।११४।३० ॥

एवमिति । एवं बहुविधं जल्पन्निति पाठः ॥ २।११४।३० ॥

तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।

निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥ २।११४।३१ ॥

तदेति । सुरैरुत्सृष्टमभास्करं दिनमिव उज्झितप्रभम् अन्तःपुरं निरीक्ष्येति सम्बन्धः । विविक्तं विजनम् । “विविक्तौ पूतविजनौ” इत्यमरः । पुरा किल देवासुरयुद्धे असुरैर्देवाः पराजिताः, स्वर्भानुना च भानुः पातितस्तदानीं कियान् कालो दिवारात्रविभागरहितो ऽभूत् । ततः परं ब्रह्मनियोगादत्रिः स्वतेजसा सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा । अग्निः स्वतेजसेति पाठान्तरम् ॥ २।११४।३१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥