११३ भरतस्य प्रतिनिवर्तनम्

ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।

आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ २।११३।१ ॥

अथ भरतस्यायोध्याप्रवेशः त्रयोदशोत्तरशततमे–तत इत्यादि । पादुके शिरसि कृत्वा शत्रुञ्जयमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमूर्ध्न्याधायेत्यर्थः ॥ २।११३।१ ॥

वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।

अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ २।११३।२ ॥

वसिष्ठ इति । मन्त्रपूजिताः अमोघकार्यविचारनैपुण्यात्पूजिताः ॥ २।११३।२ ॥

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।

प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २।११३।३ ॥

मन्दाकिनीमिति । सीतारामयोर्जलक्रीडादिभिः रम्यां मन्दाकिनीं रामनिवासत्वेन महाप्रभावं चित्रकूटं गिरिं च प्रदक्षिणं कुर्वाणास्सन्तः प्राङ्मुखा ययुः ॥ २।११३।३ ॥

पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।

प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २।११३।४ ॥

पश्यन्निति । द्रुवगतिं विहाय नानाधातून् दृग्भ्यां पिबन्निव पश्यन् तस्य चित्रकूटस्य पार्श्वेन ययौ ॥ २।११३।४ ॥

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।

आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ २।११३।५ ॥

अदूरादिति । चित्रकूटसौन्दर्य्यदर्शनाकृष्टचित्ततया अदूरादिव भासमानम् ॥ २।११३।५ ॥

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।

अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २।११३।६ ॥

स इति । भरद्वाजस्य पादौ ववन्द इत्यन्वयः ॥ २।११३।६ ॥

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।

अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २।११३।७ ॥

एवमुक्तः स तु ततो भरद्वाजेन धीमता ।

प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥ २।११३।८ ॥

तत इति । अपिशब्दः प्रश्ने । रामेण किं समागतं सङ्गतम् । भवता रामेण कृत्यं भवत्प्रयोजनं किं कृतमित्यर्थः ॥ २।११३।७८ ॥

स याच्यमानो गुरुणा मया च दृढविक्रमः ।

राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २।११३।९ ॥

गुरुणा वसिष्ठेन ॥ २।११३।९ ॥

पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।

चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २।११३।१० ॥

चतुर्दशवर्षाणि वने वस्तव्यमिति कैकेयीनिमित्तं कृत पितुर्या प्रतिज्ञास्ति तामेव पितुः प्रतिज्ञां तत्त्वतः पालयिष्यामीत्यब्रवीदिति सम्बन्धः ॥ २।११३।१० ॥

एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।

वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २।११३।११ ॥

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।

अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २।११३।१२ ॥

एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।

पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २।११३।१३ ॥

निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।

अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २।११३।१४ ॥

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।

भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २।११३।१५ ॥

एवमित्यादि । हेमभूषिते इत्यनेन रामाय प्रीत्या समर्पयितुमभिनवतया निर्माय नगरात् भरतेनानीते इति गम्यते । योगक्षेमकरे अपूर्ववस्तुलाभो योगः, लब्धस्य परिपालनं क्षेमः, एते पादुके प्रयच्छेति वासिष्ठः प्रत्युवाच हेति सम्बन्धः ॥ २।११३।१११५ ॥

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।

यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २।११३।१६ ॥

आर्य्यं ज्येष्ठानुवर्त्तनरूपं श्रेयः । निम्ने तटाकादौ । सुष्टं धतम् ॥ २।११३।१६ ॥

अमृतः स महाबाहुः पिता दशरथस्तव ।

यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ २।११३।१७ ॥

“प्रजामनु प्रजायसे तदुते मर्त्यामृतम्” इति श्रुत्युक्तरीत्या सत्पुत्रलाभात् मृतो ऽपि दशरथः अमृत इत्याह–अमृत इति ॥ २।११३।१७ ॥

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः ।

आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २।११३।१८ ॥

तमिति । आमन्त्रयितुमारेभे विनयेनामन्त्रणोद्युक्त इव स्थित इत्यर्थः ॥ २।११३।१८ ॥

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः ।

भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ २।११३।१९ ॥

ततस्तदनुज्ञानन्तरम् । अत्र पुनःपुनरित्यनेन एकं प्रदक्षिणं न कार्यमित्युक्तम् । प्रदक्षिणविशेषणेन प्रणामस्तु सकृदेवेत्युक्तं भवतीत्याचार्याः । केचित्तु एकहस्तप्रणामैकप्रदक्षिणयोरिव एकप्रणामस्यापि निषिद्धत्वात् पुनःपुनरिति विशेषणस्यात्रार्थिके वा पूर्वश्लोकोक्ताभिवादनबललब्धे वा प्रणामेप्यन्वयेन न कोपि विरोध इत्याहुः । अयोध्यामुद्दिश्य ययावित्यन्वयः ॥ २।११३।१९ ॥

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ।

पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २।११३।२० ॥

भरतस्येव सेनायाश्चित्रकूटान्निवृत्तिमाह–यानैरिति ॥ २।११३।२० ॥

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।

ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ २।११३।२१ ॥

तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः ।

शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २।११३।२२ ॥

शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २।११३।२३ ॥

अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।

भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत् ॥ २।११३।२४ ॥

भरतमनुसृत्य सेनानुयानप्रकारमाह–तत इति । यमुनां तीर्त्त्वा गच्छन्तस्ते सर्वे गङ्गां ददृशुरिति सम्बन्धः ॥ २।११३।२१२४ ॥

सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।

निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २।११३।२५ ॥

सारथ इति । निराकारा निर्गतशोभनाकारा ॥ २।११३।२५ ॥

इत्यार्षे० श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड० त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥