१११ राम-भरतसंवादः

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः ।

अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ २।१११।१ ॥

अथ रामनिवर्त्तनोपायान् पुनरुपन्यस्य निरस्यति एकादशोत्तरशततमे–वसिष्ठस्त्वित्यादिना ॥ २।१११।१ ॥

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।

आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २।१११।२ ॥

एवं कुलधर्मोपपादनेपि सर्वं तत्पितृनियोगव्यतिरिक्तविषयमिति मत्वा तूष्णींस्थितस्य रामस्याशयं जानन् वसिष्ठः पुनर्निवर्त्तनहेत्वन्तरमाह–पुरुषस्येत्यादिना ॥ २।१११।२ ॥

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।

प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २।१११।३ ॥

सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।

मम त्वं वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥ २।१११।४ ॥

पितेति मातुरप्युपलक्षणम्, शरीरमेव मातापितरौ जनयत इत्यर्थः । तस्मात्प्रज्ञादानात् गुरुः मातापितृभ्यां गरीयानित्यर्थः । “स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म” इति वचनादिति भावः ॥ २।१११।३४ ॥

इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा ।

एषु तात चरन् धर्मं नातिवर्त्तेः सताङ्गतिम् ॥ २।१११।५ ॥

इमा इति । परिषदः ब्राह्मणसमूहाः । श्रेणयः पौरजनाः क्षत्त्रियाः वैश्याश्च ते त्वत्सम्बन्धिनः येषु विषये धर्मं परिपालनरूपं चरन् सतां गतिं सतां पूर्वेषां राज्ञां मार्गं नातिवर्तेः नातिवर्तेथाः ॥ २।१११।५ ॥

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।

अस्यास्तु वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥ २।१११।६ ॥

वृद्धाया इति । अवर्तितुं शुश्रूषामकर्तुं नार्हसि । अस्यास्तु “पितुः शतगुणं माता” इत्युक्तायाः ॥ २।१११।६ ॥

भरतस्य वचः कुर्वन् याचमानस्य राघव ।

आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २।१११।७ ॥

एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् ।

प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ २।१११।८ ॥

भरतस्येति । ऽसान्त्विता मामिका माताऽ इत्यादिप्रार्थयमानस्य । आत्मानम् आत्मभूतं भरतं नातिवर्त्तेथा इत्युदारः । सत्यधर्मनिष्णातत्वस्वभावमित्यपरे । स्वसाधारणधर्मत्वादाश्रितपारतन्त्र्यं नातिवर्तेथा इत्याचार्याः । स एव हि सर्वेश्वरस्य स्वभावः स्वतःसिद्धः । सत्यधर्मपराक्रमेति दृष्टान्तार्थम् । यथा सत्यवचनमनतिक्रमणीयं यथा च धर्मो नातिक्रमणीयः तथा आश्रितपारतन्त्र्यमपीत्यर्थः । सत्यधर्मयोः पराक्रमः अनुष्ठानशूरत्वं यस्येति बहुव्रीहिः ॥ २।१११।७८ ॥

यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।

न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २।१११।९ ॥

यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।

नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २।१११।१० ॥

ऽसति धर्मिणि धर्माश्चिन्त्यन्तेऽ इति न्यायेन सर्वधर्मसम्पादनबीजभूतशरीरोत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणणेन बहुविधोपकारकत्वाच्चाचार्यवचनादपि पितृवचनमवश्यं कर्तव्यम् अत एव “मातृदेवो भव पितृदेवो भव आचार्य देवो भव” इति चरमपर्वण्याचार्य उपात्त इत्यभिप्रायेणाह–यन्मातेत्यादिना श्लोकद्वयेन । तनये तनयसम्पादननिमित्तं यद्वृत्तं व्रतोपवासदेवताराधनादिकं कुरुतः, तन्न सुप्रतिकरं सुतरामशक्यप्रत्युपक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नादिप्रदानेन स्नापनोच्छादनेन नित्यं प्रियवादेन सदा संवर्धनेन च यत्कृतं तच्च सुप्रतिकरम् ॥ २।१११।९१० ॥

स हि राजा जनयिता पिता दशरथो मम ।

आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २।१११।११ ॥

स हीति । जनयितापितेति गौणपितृव्यावृत्तिः । आज्ञातम् प्रतिज्ञातम् । एवं प्रथमं प्रतिज्ञातत्वात् मातृवचनं भ्रातृवचनं च कर्तुं नार्हामीति भावः ॥ २।१११।११ ॥

एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् ।

उवाच परमोदारः सूतं परमदुर्मनाः ॥ २।१११।१२ ॥

एवमिति । प्रत्यनन्तरं समीपस्थं परमोदारः सान्त्वितामामिकेत्यादिना दत्तराज्यनिर्वाहकः ॥ २।१११।१२ ॥

इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।

आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २।१११।१३ ॥

इहेति । इह स्थण्डिले भूमौ कुशानास्तर आस्तृणीहि, पावनत्वार्थमित्यर्थः । अत एव वक्ष्यति ऽकुशानास्तीर्य राघवःऽ इति । प्रत्युपवेक्ष्यामि प्रतिरोत्स्यामीत्यर्थः ॥ २।१११।१३ ॥

अनाहारो निरालोको धनहीनो यथा द्विजः ।

शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २।१११।१४ ॥

प्रत्युपवेशप्रकारमाह–अनाहार इति । निरालोकः अवकुण्ठिताननः । धनहीनः वृद्ध्यर्थम् ऋणप्रदानान्निर्धनः । शेष्ये शयिष्ये । इडभाव आर्षः ॥ २।१११।१४ ॥

स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः ।

कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २।१११।१५ ॥

राममवेक्षन्तं रामानुज्ञां काङ्क्षन्तमित्यर्थः । कुशोत्तरं कुशास्तरणम् । उपस्थाप्य आनीय स्वयमेवास्तरत् आस्तृणात्, शयनं कृतवानित्यर्थः ॥ २।१११।१५ ॥

तमुवाच महातेजा रामो राजर्षिसत्तमः ।

किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २।१११।१६ ॥

तमिति । किं कुर्वाणं किमपकारं कुर्वाणम् । तात इति सान्त्वनार्थमुक्तम् ॥ २।१११।१६ ॥

ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।

न तु मूर्द्धाभिषिक्तानां विधिः प्रत्युपवेशने ॥ २।१११।१७ ॥

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।

पुरवर्य्यामितः क्षिप्रमयोध्यां याहि राघव ॥ २।१११।१८ ॥

ब्राह्मण इति । एकपार्श्वेन एकपार्श्वशयनेन । मूर्द्धाभिषिक्तानाम् अभिषिक्तक्षत्त्रियाणाम् ॥ २।१११।१७१८ ॥

आसीनस्त्वेव भरतः पौरजानपदं जनम् ।

उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥ २।१११।१९ ॥

आसीन इति । नानुशासथेत्यत्र इतिकरणं बोध्यम् ॥ २।१११।१९ ॥

ते तमूचुर्महात्मानं पौरजानपदा जनाः ।

काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥ २।१११।२० ॥

त इति । काकुत्स्थं रामम् अभिजानीमः अभितो जानीमः, सत्यसन्धं जानीम इत्यर्थः ॥ २।१११।२० ॥

एषो ऽपि हि महाभागः पितुर्वचसि तिष्ठति ।

अत एव न शक्ताः स्मो व्यावर्त्तयितुमञ्जसा ॥ २।१११।२१ ॥

तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।

एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २।१११।२२ ॥

सम्यग्वदतीत्येतदुपपादयति–एष इत्यादिना । अञ्जसा शीघ्रं व्यावर्त्तयितुं न शक्ता स्म इति तं भरतमूचुरित्यन्वयः ॥ २।१११।२१२२ ॥

एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।

उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २।१११।२३ ॥

एतदिति । एतदुभयं मद्वचनं पौरजनवचनं चेत्यर्थः । सम्यक्सम्पश्य कर्त्तव्यं सम्यक् निरूपय । मां च स्पृश तथोदकमिति क्षत्त्रियाविहितप्रत्युपवेशनप्रायश्चित्तार्थमित्यर्थः । वसिष्ठादिषु विद्यमानेषु स्वस्पर्शनविधैः इतः परमेवंविधं न क्रियत इति शपथार्थं जलं स्पृष्ट्वा मां स्पृशेत्यपि सिद्धम् ॥ २।१११।२३ ॥

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।

श्रृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ २।१११।२४ ॥

न याचे पितरं राज्यं नानुशासामि मातरम् ।

आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २।१११।२५ ॥

अथेत्यादि । न याचे न याचितवान् । नानुशासामि नानुशास्मि, एवंकुर्विति नानुशिष्टवानस्मीत्यर्थः । नानुजानामि वनवासाय नानुज्ञातवानस्मीत्यर्थः ॥ २।१११।२४२५ ॥

यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वचः ।

अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २।१११।२६ ॥

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः ।

उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २।१११।२७ ॥

यदीति । अवश्यं पितुर्वचः कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे तर्हि अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि । त्वं तु मत्प्रतिनिधित्वेना ऽयोध्यां पालय, एवंच सत्युभाभ्यां सम्यक् पितृवचनं कृतं भवेदिति भावः । इति भरतो वाक्यमब्रवीदित्यन्वयः ॥ २।१११।२६२७ ॥

विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।

न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २।१११।२८ ॥

विक्रीतमिति । आहितम् आधिरूपेण न्यस्तं विक्रयस्त्यागः क्रयः स्वीकार इति भेदः । मह्यं वनवासं दत्त्वा तन्मूल्यत्वेन राज्यं स्वीकृतवान् । यद्वा मम वनवासमाधिं कृत्वा तव राज्यं दापितवान् तल्लोपयितुं न शक्यमित्यर्थः ॥ २।१११।२८ ॥

अपधिर्न मया कार्य्यो वनवासे जुगुप्सितः ।

युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २।१११।२९ ॥

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।

सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २।१११।३० ॥

अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः ।

भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ २।१११।३१ ॥

वारुणस्नानाशक्तस्य मान्त्रस्नानवदशक्तस्यैव प्रतिनिधिस्वीकारः । अहं तु वनवासे शक्तः अतः प्रतिनिध्याचरणं न पितृऋणमोचनमित्याह–उपधिरित्यादिना । उपधिः प्रतिनिधिरित्यर्थः । मया शक्तेन जुगुप्सितः हीनकल्पत्वेन निन्दितः । “हीनकल्पं न सेवेत पुरुषो विभवे सति” इति वचनादिति भावः । कैकेय्या युक्तं योग्यमेवोक्तं पित्रा च सुकृतं धर्म्यं कृतम् आवाभ्यां तदकरणे हीनकल्पकरणे च पितुरनृतं स्यात् ॥ २।१११।२९३१ ॥

वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।

अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २।१११।३२ ॥

वृत इति । पितरम् अनेन राज्यपरिपालनेन अनृतात् मोचयेत्यर्थः ॥ २।१११।३२ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततमः सर्गः ॥ १११ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामापयणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकादशोत्तरशतततः सर्गः ॥ १११ ॥