११० वसिष्ठसूचनम्

क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह ।

जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २।११०।१ ॥

अथ वसिष्ठो जाबालिवचनयाथार्थ्यप्रदर्शनेन तद्विषयकोपं निवर्त्त्य स्वाभिमतं ज्येष्ठस्यैव राज्यार्हतारूपं निवर्त्तनोपायं प्रतिपादयति–क्रुद्धमित्यादिना । लोकस्य जनस्य गतं गमनम् । भावे निष्ठा । परलोकप्राप्तिं तत इहागतिं च जानीते, नासौ नास्तिक इत्यर्थः ॥ २।११०।१ ॥

निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।

इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २।११०।२ ॥

सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।

ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ।

स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २।११०।३ ॥

निवर्तनार्थमिति तदुक्तमपि सत्यमित्याह निवर्तयितुकाम इत्यादिना । ज्येष्ठस्यैव राज्यार्हतां वक्तुमारभते इमामित्यादि । लोकनाथ तवैव तत्प्रत्यक्षं हीति भावः ॥ २।११०।२३ ॥

असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः ।

आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥ २।११०।४ ॥

तस्मान्मरीचिः संजज्ञे मरीचेः काश्यपः सुतः ॥ २।११०।५ ॥

असृजदिति । आकाशप्रभव इत्यत्राकाशशब्दः परब्रह्मपरः । “आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म” इति श्रुतेः । इत्थमेव “अव्यक्तप्रभवो ब्रह्म” इति बालकाण्डोक्तमपि । शाश्वतः प्रवाहरूपेण नित्यः । नित्यः इतरापेक्षया चिरकालस्थायी, अन्यथा आकाशप्रभव इति विरुध्यते । अव्ययः तस्मात् स्थानात्तस्य मोक्षसिद्धेः ॥ २।११०।४५ ॥

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः ।

स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ २।११०।६ ॥

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २।११०।७ ॥

इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः ।

कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ २।११०।८ ॥

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।

बाणस्य तु महाबाहुरनरण्यो महायशाः ॥ २।११०।९ ॥

नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।

अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २।११०।१० ॥

अनरण्यान्महाबाहुः पृथू राजा बभूव ह ।

तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।

स सत्यवचनाद्वीरः सशरीरो दिवङ्गतः ॥ २।११०।११ ॥

विवस्वानिति । वैवस्वतः विवस्वत्सम्बन्धी तस्येक्ष्वाकुवंशकूटस्थत्वं च दर्शयति स त्वित्यादिना । “मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्” इति तस्यायोध्यानिर्मातृत्वोक्तिः ॥ २।११०।६११ ॥

त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः ।

धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २।११०।१२ ॥

युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत ।

मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥ २।११०।१३ ॥

त्रिशङ्कोरिति । युवनाश्व एव महातेजाः महातेजःप्रभावेन महाबलधुन्धुनामकासुरमारणाद्धुन्धुमारसंज्ञामलभतेत्यर्थः ॥ २।११०।१२१३ ॥

सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ।

यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ॥ २।११०।१४ ॥

सुसन्धेरिति । ज्येष्ठस्य ध्रुवसन्धेः । वंशकथनाज्ज्येष्ठस्यैव राज्ये स्थापितत्वमुक्तम् ॥ २।११०।१४ ॥

भरतात्तु महाबाहोरसितो नाम जायत ।

यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।

हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २।११०।१५ ॥

भरतादिति । जायतेत्यत्राडभावः अनित्यत्वात् । प्रतिराजानः सामन्ताः शत्रवः । उदपद्यन्त आसन्नित्यर्थः । हैहयाद्यास्तत्तद्दशोधिपतयः ॥ २।११०।१५ ॥

तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः ।

स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ २।११०।१६ ॥

तानिति । प्रतिव्यूह्य युद्धं कृत्वा राजा असितः शैलवरे हिमवति रम्ये निर्भयतया स्थातुं योग्ये मुनिः सन्नभिरतो बभूव अन्यथा तस्मादपि शैलात्प्रवासयेयुरिति भावः ॥ २।११०।१६ ॥

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ।

एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २।११०।१७ ॥

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।

तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २।११०।१८ ॥

द्वे इति । श्रूयत इति श्रुतिः, जनवाद इत्यर्थः ॥ २।११०।१७१८ ॥

स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।

पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ।

धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदनः ॥ २।११०।१९ ॥

स इति । सः अभिवादनप्रसन्नो विप्रः । पुत्रजन्मनि विषये वरेप्सुं तामभ्यवदत् उवाच । महात्मा महामतिः । लोकविश्रुतः सर्वलोकप्रसिद्धः । पुत्रा भवितेत्यभ्यवददित्यन्वयः ॥ २।११०।१९ ॥

कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।

पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।

ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २।११०।२० ॥

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।

गरेण सह तेनैव जातः स सगरो ऽभवत् ॥ २।११०।२१ ॥

कृत्वेति । सा देवी तं मुनिं अनुमान्य सम्पूज्य ततो गृहमागम्य पद्मपत्त्रसमानाक्षं पद्मगर्भसमप्रभं पुत्रं व्यजायत व्यजीजनत् ॥ २।११०।२०२१ ॥

स राजा सगरो नाम यः समुद्रमखानयत् ।

इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ २।११०।२२ ॥

स राजेति । यः इष्ट्वा दीक्षां कृत्वा पर्वणि वेगेन अम्बुवेगेन इमाः प्रजाः त्रासयन्तं समुद्रम् अखानयत् ॥ २।११०।२२ ॥

असमञ्जस्तु पुत्रोभूत् सगरस्येति नः श्रुतम् ।

जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २।११०।२३ ॥

अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।

दिलीपों ऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ २।११०।२४ ॥

भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः ।

ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवाः ॥ २।११०।२५ ॥

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।

कल्माषपादः सौदास इत्येवं प्रथितो भुवि ॥ २।११०।२६ ॥

असमञ्ज इति । नः श्रुतम् अस्माभिः श्रुतमित्यर्थः ॥ २।११०।२३२६ ॥

कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुतः ।

यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २।११०।२७ ॥

शङ्खणस्य च पुत्रो ऽभूच्छूरः श्रीमान् सुदर्शनः ।

सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥ २।११०।२८ ॥

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ।

प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युतिः ॥ २।११०।२९ ॥

अम्बरीषस्य पुत्रो ऽभून्नहुषः सत्यविक्रमः ।

नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ २।११०।३० ॥

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।

अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ २।११०।३१ ॥

कल्माषपादेति । तद्वीर्य्यं वसिष्ठशापाद्राक्षसत्वं प्राप्तस्य कल्माषपादस्य पराक्रमम् । आसाद्य व्यनीनशत् विनाशं प्राप्तवानित्यर्थः । राक्षसत्वात् कल्माषपादेन स्वपुत्र एव विनाशित इत्यर्थः ॥ २।११०।२७३१ ॥

तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुतः ।

तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २।११०।३२ ॥

तस्येति । दायादः सुतः । “दायादौ सुतबान्धवौ” इत्यमरः ॥ २।११०।३२ ॥

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।

पूर्वजे नावरः पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २।११०।३३ ॥

इक्ष्वाकूणामिति । पूर्वजे विद्यमाने अवरः कनिष्ठपुत्रो राज्ये नाभिषिच्यते किंतु ज्येष्ठ एवेति अन्वयः ॥ २।११०।३३ ॥

स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि ।

प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशः ॥ २।११०।३४ ॥

स राघवाणामिति । स त्वं आत्मनः सम्बन्धिना राघवाणां सनातनं परम्परयागतं कुलधर्मं ज्येष्ठाभिषेचनरूपम् अद्य भवन्तमारभ्य न विहन्तुमर्हसि । अन्येन रक्षितुं चाशक्यमित्याह प्रभूतेति । रत्नानि श्रेष्ठवस्तूनि । प्रभूतराष्ट्रां बहुविधावान्तरजनपदयुक्ताम् ॥ २।११०।३४ ॥

इत्यार्षे० श्रीमदयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने दशोत्तरशततमः सर्गः ॥ ११० ॥