पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः ।
प्रत्युवाच ततः श्रीमान् ज्ञातिमध्ये ऽभिसत्कृतः ॥ २।१०७।१ ॥
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः ।
जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २।१०७।२ ॥
पुनरित्यादि । अभिसत्कृतः भरतेन स्तोत्रादिना सम्यगभिपूजितः ॥ २।१०७।१२ ॥
पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् ।
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ २।१०७।३ ॥
काममोहेन पित्रा कृतमिति पितरं निन्दन्तं भरतं प्रति रामो मोहहेतुप्रसक्तिरेव नास्तीति दुष्परिहरं हेत्वन्तरमाह–पुरेत्यादिना । राज्यशुल्कं समाश्रौषीत् तव पुत्रिकायां यो जनिष्यते तस्मै राज्यं दास्यामीति प्रतिज्ञां
कृतवान् ॥ २।१०७।३ ॥
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः ।
सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ २।१०७।४ ॥
दैवासुर इति । दैवासुरे देवासुरसम्बन्धिनि । वरं वरद्वयम् ॥ २।१०७।४ ॥
ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी ।
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ २।१०७।५ ॥
तत इति । तव माता सम्प्रतिश्राव्य शपथं कारयित्वा । ततः द्वौ वरौ अयाचतेति सम्बन्धः ॥ २।१०७।५ ॥
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।
तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ २।१०७।६ ॥
याच्ञाप्रकारमाह–तवेत्यादिना । ननु कैकेयी स्वोद्वाहकाले कन्याशुल्कत्वेन भरतस्य प्राप्तं राज्यं वरविषयत्वने कथमयाचत ? उच्यते–बाल्यवृत्तान्तत्वाच्चिरकालान्तरितत्वाच्च सन्निहितं वरद्वयमेव याचितवतीति न दोषः । मध्ये प्राप्तस्यापि वरद्वयस्य “किं न स्मरसि कैकेयि” इति मन्थरया स्मारितत्वात् चिरकालवृत्तान्तस्य विस्मरणमुपपन्नमेव । ननु दशरथउद्वाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं रामायदातुं कथमुद्युक्तवान् ? सत्यम्– “उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थेप्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥ " इति न्यायेन दोषाभावं हृदि निधाय तथा कृतवानिति न दोषः। केकयोपि रामगुणानुविद्धतया राज्यं न दौहित्राय याचितवान्। रामोपि सुमन्त्रादिभ्य इदं रहस्यं श्रुतवान् अत एव हि ते श्रृण्वन्तोऽनुमान्य स्थितवन्त इति द्रष्टव्यम् ॥ २।१०७।६ ॥
तेन पित्रा ऽहमप्यत्र नियुक्तः पुरुषर्षभ ।
चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ २।१०७।७ ॥
तेन कैकेय्यै प्रतिश्रुतराज्येन । अत्र वने दण्डकारण्ये । वरदानिकं वरदाननिमित्तकं वासं नियुक्त इति सम्बन्धः ॥ २।१०७।७ ॥
सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ।
सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥ २।१०७।८ ॥
भवानपि तथेत्येव पितरं सत्यवादिनम् ।
कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ २।१०७।९ ॥
अप्रतिद्वन्द्वः केनापि वारयितुमशक्य इति यावत् ॥ २।१०७।८९ ॥
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।
पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ २।१०७।१० ॥
ऋणान्मोचय राजानं स्वाभिषेचनेन कैकेय्या ऋणाद्राजानं मोचयेत्यर्थः ॥ २।१०७।१० ॥
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।
गयेन यजमानेन गयेष्वेव पितृ़न् प्रति ॥ २।१०७।११ ॥
स्वोक्तार्थस्यावश्यकर्त्तव्यत्वे सम्मतिमाह–श्रूयत इत्यादिना । गयेन गयाख्येन । गयेषु गयाख्येषु प्रदेशेषु ॥ २।१०७।११ ॥
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः पितृ़न् यत्पाति वा सुतः ॥ २।१०७।१२ ॥
पुन्नाम्नो नरकात्त्रायत इति पुत्रः । पितृ़न् पाति तदुद्देशकृतेष्टापूर्त्तादिना स्वर्लोकं प्रापय्य रक्षतीत्यर्थः ॥ २।१०७।१२ ॥
एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।
तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ २।१०७।१३ ॥
एष्टव्याः काङ्क्षितव्याः ॥ २।१०७।१३ ॥
एवं राजर्षयः सर्वे प्रतीता राजनन्दन ।
तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ २।१०७।१४ ॥
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।
शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः ॥ २।१०७।१५ ॥
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।
आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ २।१०७।१६ ॥
एवम् उक्तप्रकारेण । प्रतीताः निश्चितवन्तः ॥ २।१०७।१४१६ ॥
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।
गच्छत्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ २।१०७।१७ ॥
मृगाणां राजराट् भवामि मृगाणां रञ्जकः शिक्षकश्च भवामीत्यर्थः । अत्र मृगशब्देन तत्तुल्या मुनयो लक्ष्यन्ते । यद्वा भाविसुग्रीवरञ्जनवालिवधादीनां बीजन्यासोयम् ॥ २।१०७।१७ ॥
छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।
एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ २।१०७।१८ ॥
छायामिति । वर्षत्रं छत्रम् । सुखी श्रयिष्य इति पाठः ॥ २।१०७।१८ ॥
शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् ।
चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ २।१०७।१९ ॥
शत्रुघ्न इति । चराम करवामेत्यर्थः ॥ २।१०७।१९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता० अयोध्याकाण्ड० सप्तोत्तरशततमः सर्गः ॥ १०७ ॥