१०५ रामं प्रति भरतस्य प्रार्थना

ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।

शोचतामेव रजनी दुःखेन व्यत्यवर्त्तत ॥ २।१०५।१ ॥

अथ पुनर्भरतस्य कैकेयीनिर्बन्धकृतपितृनियोगपरिहारोचितवचनपूर्वकं प्रार्थनम्, रामस्य च तत्समाश्वासनं तत्त्वोपदेशेनेत्येतत्पञ्चोत्तरशततमे–ततः पुरुषसिंहानामित्यादि ॥ २।१०५।१ ॥

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।

मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २।१०५।२ ॥

तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।

भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २।१०५।३ ॥

रजन्यामिति । हुतं होमम् ॥ २।१०५।२३ ॥

सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।

तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २।१०५।४ ॥

दत्तमन्यथयितुमशक्तो ऽहमिति रामो वदेदिति मत्वा तस्य परिहारानुगुणं वचनमाह–सान्त्वितेति । ममेयं मामिका । शैषिको ऽण् । “तवकममकावेकवचने” इत्यण् । सन्नियोगेनास्मच्छब्दस्य ममकादेशः आदिवृद्धिश्च । “प्रत्ययस्थात्–” इत्यत्र “मामकनरकयोः–” इत्युपसंख्यानात् ककारात्पूर्वस्याकारस्य इकारः । मातृविरोधे न स्वीकुर्य्यादिति मत्वाह सान्त्वितेति । दत्तस्यान्यथाकरणमनुचितमिति रामो वदेदिति परिहरति दत्तमिति । त्रय एवाधना इति न्यायेन दासस्य स्वं त्वदीयमिति ददामीत्यर्थः ॥ २।१०५।४ ॥

महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे ।

दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २।१०५।५ ॥

त्वमेव राज्यं रक्षेत्याशङ्क्याह–महतेति । जलागमे वर्षाकाले । दुरावारम् आवरीतुमशक्यं राज्यखण्डं नवखण्डेषु भरतखण्डाख्यं राज्यं कोसलराज्यखण्डं वा ॥ २।१०५।५ ॥

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ित्रणः ।

अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २।१०५।६ ॥

राज्यस्य दुरावारत्वमुक्त्वा स्वस्याशक्तिमाह– गतिमिति । खरेत्यविभक्तिकनिर्देशः । खरस्येत्यर्थः । प्रकृतिभाव आर्षः । पतत्त्रिणः पक्षिमात्रस्य । अश्वस्य गतिमनुगन्तुं खरस्य यथा न शक्तिः गरुडस्य गतिमनुगन्तुं केवलपक्षिणो यथा च शक्तिर्नास्ति तथेत्यर्थः ॥ २।१०५।६ ॥

सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।

राम तेन तु दुर्जीवं यः परानुपजीवति ॥ २।१०५।७ ॥

तव शक्तिर्नास्ति चेदन्यः कश्चिद्राज्यं रक्षत्वित्यत्राह–सुजीवमिति । नित्यशः नित्यम् ॥ २।१०५।७ ॥

यथा तु रोपितो वृक्षः पुरुषेण विवर्द्धितः ।

ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥ २।१०५।८ ॥

स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।

स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥ २।१०५।९ ॥

एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।

यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २।१०५।१० ॥

उचितं च त्वद्रक्षणमेवेत्याह–यथेत्यादिना । श्लोकत्रयमेकान्वयम् । यथात्वितिनिपातसमुदायोयमुदाहरणोपक्रमद्योतनार्थः । केनचित्पुरुषेण रोपितः बीजावापेनोत्पादितः यो वृक्षः पुनः संवर्द्धितः ह्रस्वकेन वामनेन दुरारोहः क्रमेण रूढस्कन्धः महाद्रुमो जातः स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् स रोपयिता यस्य फलस्य हेतोः हेतुना तं वृक्षं रोपितवान् तां फलविषयिणीं प्रीतिं नानुभवेत् । विनयेन प्रत्येकं वक्तुमशक्तः समुदायरूपेण दर्शयति–भर्ता त्वम् अस्मान् भृत्यान् न शाधि यदि एषोपमेति एषा पूर्पोक्तमर्थजातमुपमा । उपमाशब्दापेक्षया स्त्रीलिङ्गत्वम् । रोपयिता अभिवृद्धो वृक्षः पुष्पदर्शनं फलादर्शनं चोपमेत्यर्थः । तमर्थमुपमेयमर्थजातं वेत्तुमर्हसि । भावज्ञानकुशलः खल्वसीत्यर्थः । रोपयितुर्दशरथ उपमेयः । वर्द्धितमहावृक्षस्य भवान् पुष्पदर्शनस्याभिषेचनौन्मुख्यं फलाननुभवस्य भवतो राज्यापरिपालनमित्येतत् सर्वं त्वं जानासीत्यर्थः । एतत्सर्वं महाबाहो इत्यनेन सूचितम् ॥ २।१०५।८१० ॥

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।

प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २।१०५।११ ॥

तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः ।

अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥ २।१०५।१२ ॥

तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।

भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥ २।१०५।१३ ॥

श्रेणय इति । श्रेणयः पौरश्रेणयः । अग्र्याः प्रधानाः ॥ २।१०५।१११३ ॥

तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।

रामः कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २।१०५।१४ ॥

तमिति । दुःखितं स्वप्रार्थनानङ्गीकारेण दुःखितम् । विलपन्तं मम हेतोरार्यविवासनं पितुर्मरणमित्यादिजातमिति प्रलपन्तम् । कृतात्मासुशिक्षितबुद्धिः धैर्यवान् वा ॥ २।१०५।१४ ॥

नात्मनः कामकारो ऽस्ति पुरुषो ऽयमनीश्वरः ।

इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ २।१०५।१५ ॥

कैकेयीप्रेरितो राजा भवांश्च न मद्वनवासहेतुः किन्तु दैवमेवेति तत्त्वदृष्ट्या भरतं दुःखान्निवर्तयितुमुपक्रमते– नात्मन इत्यादि । आत्मनः पुरुषस्य कामकारः ऐच्छिकव्यापारो नास्ति । यतो ऽयं पुरुषः अनीश्वरः, अस्वतन्त्र इत्यर्थः । इतश्च एतस्माद्देशात् देशान्तरम् । इतरतः अन्यद्देशाच्च एनं देशं कृतान्तः स्वतन्त्रदैवमेव परिकर्षति आकर्षति । “दैवे कृतान्तः सिद्धान्ते यमाकुशलकर्मणोः” इति वैजयन्ती । यथोक्तं भगवता गीताचार्येण– “ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ " इति ॥ २।१०५।१५ ॥

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।

संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २।१०५।१६ ॥

अपरिहरणीयवस्तुस्वभावपर्य्यालोचनायां पितृमरणेनापि शोकस्यावकाशो नास्तीत्यमुमर्थमाहसर्वं इति । निचयाः धनसञ्चयाः । सर्वे बहुशः सम्पादिता अपि क्षयान्ताः क्षयपर्य्यवसायिनः, चोरेण कामेन राज्ञा वा नश्यन्तीत्यर्थः । समुच्छ्रयाः अत्यन्तसमुन्नता अपि पतनान्ताः अत्युन्नतपदस्थिताः ब्रह्येन्द्रादयोपि स्वस्वाधिकारसमाप्तिदशायां तत्पदभ्रंशपर्यवसायिन इति यावत् । संयोगाः पुत्रमित्रकलत्रादिसम्बन्धा अपि विप्रयोगान्ताः विरहपर्य्यवसायिनः । जीवितं च उत्कृष्टजीवनमपि मरणान्तम् अपरिहार्यमरणाधीनभङ्गशालीत्यर्थः । पितृमरणशोकेनैवमुच्यते भरतेनेत्यारोप्य तदपनोदनं कृतमस्मिन् श्लोके पादत्रयोक्तार्थत्रयं दृष्टान्तार्थम् । तुरीयपादश्च दार्ष्टान्तिकं दशरथमरणमभिप्रैति । अतः अपरिहार्यकालकृतत्वात् पितृमरणमपि न शोचनीयमिति भावः ॥ २।१०५।१६ ॥

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।

एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २।१०५।१७ ॥

यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।

तथैव सीदन्ति नरा जरामृत्युवशङ्गताः ॥ २।१०५।१८ ॥

प्रथमश्लोके वनगमनं न मया स्वतन्त्रेण कृतम् अपित्वीश्वरकृतमित्युक्तम्, द्वितीयश्लोके दशरथमरणंच कालकृतमतस्तत्रापि न शोचनीयमित्युक्तम् । अथ द्वितीयश्लोकोक्तं सदृष्टान्तं प्रपञ्चयति–यथेत्यादिना ॥ २।१०५।१७१८ ॥

अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।

यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २।१०५।१९ ॥

अत्येतीति । समुद्रस्योदकाकुलत्वविशेषणम् । यमुनायाः सर्वथा अनिवर्त्यत्वाय ॥ २।१०५।१९ ॥

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।

आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ २।१०५।२० ॥

प्रथमाबहुवचनमहोरात्रविशेषणम् । अंशवः सूर्य्यस्येति शेषः ॥ २।१०५।२० ॥

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।

आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २।१०५।२१ ॥

शोकविषयं निर्द्धारयति–आत्मानमिति । आयुस्ते यतो हीयते अतः परलोक चिन्तामेव कुर्वित्यर्थः ॥ २।१०५।२१ ॥

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।

गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २।१०५।२२ ॥

मृत्युः सर्वथा दुष्परिहर इत्याह–सहैवेति ॥ २।१०५।२२ ॥

गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।

जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ २।१०५।२३ ॥

कालान्तरे तथैव करिष्यामीत्यत्राह–गत्रेष्वित्यादिना । तस्मात् बाल्य एव आत्मज्ञानाय यतेतेत्युक्तं भवति । किं हि कृत्वा पूर्वोक्तोपद्रवपरिहारत्वेन कमुपायं कृत्वा आत्मानं प्रभुं कुर्य्यादित्यर्थः ॥ २।१०५।२३ ॥

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।

आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २।१०५।२४ ॥

बाल्येपि पुरुषाणां विवेको दुर्ल्लभ इत्याह–नन्दन्तीत्यादिना । आदित्ये उदिते नन्दन्ति, अर्थार्जनकालो ऽयमागत इति । रवौ अस्तमितेपि नन्दन्ति, कामोपभोग कालो ऽयमागत इति । आत्मनो जीवितक्षयं नावबुध्यन्ते सच्छिद्रघटे गृहीतं जलमिव प्रतिक्षणमायुः क्षीयत इति न जानन्ति । जीवितकाल एव परलोकहितं कर्तुं नेच्छन्तीत्यर्थः ॥ २।१०५।२४ ॥

हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।

ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षयः ॥ २।१०५।२५ ॥

हृष्यन्तीति । तत्तदृत्वागमं दृष्ट्वा नानाभोगहेतुरिति हृष्यन्ति, प्रत्युत ऋत्वागमो ऽनर्थहेतुरित्याह–ऋतूनां परिवर्त्तेनेति ॥ २।१०५।२५ ॥

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।

समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २।१०५।२६ ॥

एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।

समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ २।१०५।२७ ॥

श्लिष्टानां विश्लेषस्यावश्यम्भावित्वात्तदपि न शोचनीयमित्यभिप्रायेणाह–यथा काष्ठमितिश्लोकद्वयेन । विनाभवः वियोगः ॥ २।१०५।२६२७ ॥

नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।

तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ २।१०५।२८ ॥

नात्रेति । अस्मिल्लोके कश्चिदपि प्राणी यथाभावं न समभिवर्त्तते यथाभिलाषं बन्धुभिः सह न वर्त्तते तेन कारणेन प्रेतस्य मृतस्य हेतोः अनुशोचतः पुरुषस्य तस्मिन् मरणनिवारणे सामर्थ्यं नास्ति । (अस्मिन् बद्धलोके कश्चिदपि ब्रह्मादिस्तम्बपर्यन्तेषु को ऽपि जन्तुः यथाभावं यथाभिलाषम् अप्रतिहतसङ्कल्पतयेत्यर्थः । न समभिवर्तते कश्चिदित्यनेन मानुषाद्यपेक्षया चिरकालवर्तिनां शक्त्यतिशयभाजामपि ब्रह्मादीनामधिकारावसाने मरणं दुर्निवारमेवेत्याशयः । तेन एवमप्रतिहतसङ्कल्पत्वाभावेन प्रेतस्य मृतस्य हेतोः अनुशोचतः पुरुषस्य तस्मिन्मरणनिवारणे सामर्थ्यं नास्ति, अतः ब्रह्मादीनामप्यपरिहार्ये शोकं विहाय सर्वानर्थनिवृत्तये प्रयतेतेति भावः) ॥ २।१०५।२८ ॥

यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः ।

अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २।१०५।२९ ॥

एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।

तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ २।१०५।३० ॥

यथेत्यादिश्लोकद्वयम् । गच्छन्तं सार्थं पथिकसमूहं पथि स्थितः पुरुषो यथा अहमप्यागमिष्यामीति ब्रुयादनुगच्छति च एवं पूर्वैर्वंश्यैः गतः प्राप्तो मार्गः पितृपैतामहः पितृपितामहसम्बन्धी तैरपि प्राप्त इति यावत् । ध्रुवः पुत्रादिभिरपि गन्तव्यत्वेन निश्चितः ॥ २।१०५।२९३० ॥

वयसः पतमानस्य स्रोतसो वा ऽनिवर्तिनः ।

आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥ २।१०५।३१ ॥

उक्तमर्थमुपसंहरति–वयस इत्यादिना । “यस्य च भावेन भावलक्षणम्” इति सप्तम्यर्थे षष्ठी । वाशब्द इवार्थः । अनिवर्तिनि स्रोतसीव वयसि पतमाने अनिवर्तितया गच्छति सति आत्मा सुखे सुखहेतौ धर्मे नियोक्तव्यः । परलोकहितचिन्तयेति शेषः । यतः प्रजाः सुखभाजः धर्मसाध्यसुखासक्ताः स्मृता इति योज्यम् ॥ २।१०५।३१ ॥

धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।

धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥ २।१०५।३२ ॥

एवं लोकस्थितिः, अस्मत्पितरं प्रति तु न शोकगन्धोपि कार्य इत्याशयेनाह–धर्मात्मेत्यादिना ॥ २।१०५।३२ ॥

भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।

अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः ॥ २।१०५।३३ ॥

भृत्यानामिति । धर्मेण अर्थादानात् धर्मेण करादिग्रहणात् ॥ २।१०५।३३ ॥

कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः ।

स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ २।१०५।३४ ॥

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।

उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ २।१०५।३५ ॥

कर्मभिरिति । इष्टैः जनानां स्वस्य चाभिमतैः शुभैः कर्मभिः महापथेषु तटाकनिर्माणादिभिः ॥ २।१०५।३४३५ ॥

आयुरुत्तममासाद्य भोगानपि च राघवः ।

स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ २।१०५।३६ ॥

आयुरिति । उत्तमं तत्पूर्वराजायुरपेक्षया अधिकतमम् । आयुः भोगानपि चासाद्य स्वर्गतः सतां सत्कृतः स पिता न शोच्य इत्यन्वयः ॥ २।१०५।३६ ॥

स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।

दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २।१०५।३७ ॥

स जीर्णमिति । दैवीमृद्धिं देवसम्बन्धिसम्पदं दिव्यदेहादिलाभरूपामित्यर्थः ॥ २।१०५।३७ ॥

तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति ।

तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः ॥ २।१०५।३८ ॥

तं त्विति । एवंविधः प्राज्ञ इति भरतगुणं प्रत्यक्षेण निर्दिशति–एवंविध इत्युक्तमुद्घाटयति तद्विध इति । श्रुतवान् बुद्धिमत्तरश्च यद्विधोषि तद्विध इत्यर्थः ॥ २।१०५।३८ ॥

एते बहुविधाः शोका विलापरुदिते तथा ।

वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २।१०५।३९ ॥

एत इति । बहुविधाः दशरथमरणमद्विवासनादिभेदेन बहुप्रकाराः । विलापरुदिते प्रलापाश्रुमोचने च वर्जनीये इति विपरिणामेनान्वयः ॥ २।१०५।३९ ॥

स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।

तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २।१०५।४० ॥

मद्विवासनं त्वयापि मान्यमित्याह–स स्वस्थ इत्यादिना । यात्वा गत्वा । तां पुरीम् । आवस अधितिष्ठ ॥ २।१०५।४० ॥

यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।

तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २।१०५।४१ ॥

न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।

तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥ २।१०५।४२ ॥

तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः ।

कर्मणा पालयिष्यामि वनवासेन राघव ॥ २।१०५।४३ ॥

धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।

भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २।१०५।४४ ॥

यत्रेति । यत्र वनरूपे स्थाने ॥ २।१०५।४१४४ ॥

आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।

निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥ २।१०५।४५ ॥

आत्मानमिति । स्वभावेनात्मानमनुतिष्ठ राजभावेन भवन्तं योजयेत्यर्थः । निशाम्य दृष्ट्वा, ज्ञात्वेति यावत् ॥ २।१०५।४५ ॥

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।

यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ २।१०५।४६ ॥

इतीति । यवीयसं यवीयांसम् ॥ २।१०५।४६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥

इति श्रीगोविन्दराज० श्रीरामायणभूषणे पीता० अयोध्यकाण्डव्याख्याने पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥