तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् ।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २।१०४।१ ॥
अथ रामभरतयोरुक्तिप्रत्युक्ती चतुरुत्तरशततमे–तं त्वित्यादिना । गुरुवत्सलं गुरौ स्वस्मिन् भक्तम्, समाज्ञाय ज्ञात्वा प्राप्तराज्यपरित्यागेन जटावल्कल धारणादिना च स्वस्मिन् भक्तियुक्तं ज्ञात्वेत्यर्थः । समाश्वास्येति पाठे–प्रियवचनादिभिः सम्यगाश्वास्येत्यर्थः ॥ २।१०४।१ ॥
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।
यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २।१०४।२ ॥
यस्मात् कारणात् त्वं चीरजटाजिनी सन् इमं देशमागतः एतत् एतत्कारणं किम् ? अहं त्वया प्रव्याहृतं श्रोतुमिच्छेदयं श्रोतुमिच्छामि, न तु ऊहेयेति भावः ॥ २।१०४।२ ॥
किं निमित्तमिमं देशं कृष्णाजिनजटाधरः ।
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २।१०४।३ ॥
इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना ।
प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥ २।१०४।४ ॥
एवमुक्तेपि शोकेन तूष्णीं स्थितं पुनः पृच्छति–किं निमित्तमित्यादिश्लोकद्वयेन । काकुत्स्थेन बलवत्प्रगृह्य गाढं परिष्वज्य तत्सर्वं वक्तुमर्हसीति भूय उक्तः कैकयीपुत्रः प्राञ्जलिर्वाक्यमब्रवीदित्यन्वयः ॥ २।१०४।३४ ॥
आर्य्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् ।
गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥ २।१०४।५ ॥
आर्यमिति । सुदुष्करं कर्म कृत्वा ज्येष्ठार्हं राज्यं स्त्रीनियोगात् कनिष्ठसात्कृत्येत्यर्थः । आर्यं त्वां परित्यज्य विवास्य ॥ २।१०४।५ ॥
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप ।
चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २।१०४।६ ॥
स्त्रियेति । सुमहत्पापं सुपुत्रस्य वने प्रव्राजनरूपम् ॥ २।१०४।६ ॥
सा राज्यफलमप्राप्य विधवा शोककर्शिता ।
पतिष्यति महाघोरे निरये जननी मम ॥ २।१०४।७ ॥
सा एवंरूपपापप्रेरणकर्त्री ॥ २।१०४।७ ॥
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।
अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २।१०४।८ ॥
इमाः प्रकृतयः सर्वा विधवा मातरश्च याः ।
त्वत्सकाशमनुप्राप्ताः प्रसादं कर्त्तुमर्हसि ॥ २।१०४।९ ॥
तस्य कैकेयीसम्बन्धात् प्राप्तापवादस्येत्यर्थः । राज्येन हेतुना ॥ २।१०४।८९ ॥
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥ २।१०४।१० ॥
आनुपूर्व्या युक्तं ज्येष्ठानुक्रमेण सङ्गतम् आत्मनि युक्तं च । भरणसमर्थे त्वय्येव प्राप्तम् ॥ २।१०४।१० ॥
भवत्वविधवा भूमिः समग्रा पतिना त्वया ।
शशिना विमलेनेव शारदी रजनी यथा ॥ २।१०४।११ ॥
भवत्विति । पतिनेति नाभाव आर्षः । रजनी यथा रजनीव । भूमिः शशिनेव त्वया अविधवा भवतु ॥ २।१०४।११ ॥
एभिश्च सचिवैः सार्द्धं शिरसा याचितो मया ।
भ्रातुः शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २।१०४।१२ ॥
ममैकस्य शोकाश्रुपातमसहमानः कथमेषामश्रूणि सहिष्यत इति मत्वा युद्धाय संनद्धैरिव रथगजतुरगपदातिभिः सार्द्धमागतो ऽस्मि । सचिवैः मम हि याचनमुपेक्ष्यमस्मद्राज्यानेर्वाहकैः पूजनीयैः सचिवैर्याचितं तवानतिक्रमणीयं हि । याचितः ममाग्रतः स्थितिरेवालं तव कार्यकरणाय किंपुनर्याचनेपि कृते । शिरसा याचितः “शिरसा याचतस्तस्य वचनं न कृतं मया” इति खलु तव हृदयमनुशेते । मया एतावत्पर्य्यन्तं त्वमेव मां याचित्वा मम मनोरथं पूरितवानसि । भ्रातुः किमर्थं याचितव्यं तवानुजो न भवामि किम् । शिष्यस्य अनुजो भूत्वा भवता सह किमंशभाक् तिष्ठामि मन्त्रसम्बन्धो ऽपि त्वत्तः खलु । दासस्य शिष्यो भूत्वा क्रयविक्रयार्हो न भवामि किम् अतः प्रसादं कर्तुमर्हसि उक्तैरमोघैः हेतुभिर्मम याञ्ञां सफलां कुरुष्व ॥ २।१०४।१२ ॥
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।
पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २।१०४।१३ ॥
एभिश्च सचिवैरित्यस्य विवक्षितं दर्शयति–तदिति । तत्पुरवर्तनदशायामसन्निहितमिदम्, इदानीं सन्निहितम् ।
शाश्वतं सनातनम्, परम्पराप्राप्तमिति यावत् । पूजितं पूजार्हम् । प्रकृतीनां मन्त्रिपृभृतीनां मण्डलं समूहम् नातिक्रमितुमर्हसि, तद्वचनं नातिक्रमणीयमित्यर्थः ॥ २।१०४।१३ ॥
एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः ।
रामस्य शिरसा पादौ जग्राह विधिवत्पुनः ॥ २।१०४।१४ ॥
तं मत्तमिव मातङ्गं निःश्वसन्तं पुनःपुनः ।
भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ २।१०४।१५ ॥
एवमिति । महाबाहुः प्रसारितबाहुरिति यातव् । कैकयीसुतः मातुर्दोषादियमवस्थेति भावः । पुनरिति पूर्वं याचितवान् ततः शरणागतिमकरोदित्यर्थः ॥ २।१०४।१४१५ ॥
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ।
राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ २।१०४।१६ ॥
कुलीन इति । कुलीनः महाकुलप्रसूतः । सत्त्वसम्पन्नः सत्त्वगुणसम्पन्नः । पापं ज्येष्ठविषयप्रातिकूल्यरूपम् ॥ २।१०४।१६ ॥
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।
न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २।१०४।१७ ॥
नेति । बाल्यात् अज्ञानादित्यर्थः ॥ २।१०४।१७ ॥
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २।१०४।१८ ॥
कामेति । कामकारः स्वच्छन्दकरणम् । उपपन्नेषु शिष्यदासादिषु ॥ २।१०४।१८ ॥
वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः ।
भार्य्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २।१०४।१९ ॥
वयमिति । लोके भार्यादयः साधुभिर्यथा सङ्ख्याताः नियाम्यत्वेन परिगणिताः, वयमपि तथा दशरथस्येति त्वं ज्ञातुमर्हसि । अनुर्निरर्थकः ॥ २।१०४।१९ ॥
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।
राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥ २।१०४।२० ॥
वन इति । चीरं द्रुमवल्कलं वसनमुत्तरीयं यस्यतम् । कृष्णाजिनम् अम्बरम् अधराम्बरं यस्य तम् । ईश्वरः नियन्ता ॥ २।१०४।२० ॥
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।
तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २।१०४।२१ ॥
यावदिति । पितरि यावत् यत्परिमाणकं गौरवं जनन्यामपि तावत् तत्परिमाणकं गौरवम्, कर्तव्यमिति शेषः । यत्तच्छब्दाभ्यां “यत्तदेतेभ्यः परिमाणे वतुप्” इति वतुप् ॥ २।१०४।२१ ॥
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।
मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २।१०४।२२ ॥
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २।१०४।२३ ॥
एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।
व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ २।१०४।२४ ॥
फलितमाह–एताभ्यामिति । समाचरे समाचरामि, कथं समाचराणीत्यर्थः ॥ २।१०४।२२२४ ॥
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।
पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २।१०४।२५ ॥
चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः ।
उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २।१०४।२६ ॥
सचेति । पित्रा दत्तं भागं यथा यथावत् उपभोक्तुमित्यन्वयः ॥ २।१०४।२५२६ ॥
यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ।
तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २।१०४।२७ ॥
यदिति । परमात्मनो हितम् आत्मनः परं हितम् ॥ २।१०४।२७ ॥
स्
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततमः सर्गः ॥ १०४ ॥
इति श्रीगोवि० श्रीरामायणभूषणे पीता० अयोध्याकाण्डव्याख्याने चतुरुत्तरशततमस्सर्गः ॥ १०४ ॥