१०३ रामादीनां शोकः

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च ।

अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ २।१०३।१ ॥

राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।

ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २।१०३।२ ॥

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।

सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ २।१०३।३ ॥

अथ मातृसमागमस्त्र्युत्तरशततमे–वसिष्ठ इति । रामदर्शनतर्षितः रामदर्शने सञ्जाताभिलाषः ।

“कामो ऽभिलाषस्तर्षश्च” इत्यमरः ॥ २।१०३।१३ ॥

इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।

वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः ॥ २।१०३।४ ॥

इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः ।

स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २।१०३।५ ॥

इदमिति । ते प्रसिद्धाः रामादयः । ये प्राक् निर्विषयीकृताः राज्यान्निष्कासिताः । वने तेषां क्लिष्टम् उपमर्दितम् इदं तीर्थमवतरणम् । केवलं निश्चितम् । “केवलं निश्चिते क्लीबे वाच्यवत्त्वेककृत्स्नयोः” इति वैजयन्ती ॥ २।१०३।४५ ॥

जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः ।

भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणैः ॥ २।१०३६ ॥

जघन्यमिति । जघन्यं हीनम् । जलाहरणादिकर्म कृतवानपि न गर्हितः । कुत इत्यत्राह भ्रातुरिति । भ्रातुर्ज्येष्ठभ्रातुः । अर्थसहितं प्रयोजनसहितं यत्कर्म तत्सर्वं गुणैर्विहितम् । “ज्येष्ठभ्राता पितृसमः” इति वचनात् पितृशुश्रूषावत् गुणाय कल्पत इत्यर्थः ॥ २।१०३।६ ॥

अद्यायमपि ते पुत्रः क्लेशानामतथोचितः ।

नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ १।१०३।७ ॥

अद्येति । क्लेशानामतथोचितः इदानीं यादृशक्लेशानुभवस्तादृशक्लेशानामनुचितः । ते अयं पुत्रः नीचानर्थसमाचारं निकृष्टदुःखप्रचुरसमाचारसहितम् । सज्जम् उद्युक्तं कर्म अद्य प्रमुञ्चत्वपि । अपिशब्दः सम्भावनायाम् “अपिः सम्भावनाप्रश्नगर्हाशङ्कासमुच्चये” इति वैजयन्ती । भरतप्रार्थनया रामेण स्वराज्ये स्वीकृते लक्ष्मणस्य नीचकर्मप्रमोचनं सम्भवेदिति भावः ॥ २।१०३।७ ॥

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।

पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २।१०३।८ ॥

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।

उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ २।१०३।९ ॥

इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ।

राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २।१०३।१० ॥

दक्षिणाग्रेष्विति । पितुरिति चतुर्थ्यर्थे षष्ठी ॥ २।१०३।८१० ॥

तस्य देवसमानस्य पार्थिवस्य महात्मनः ।

नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २।१०३।११ ॥

चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः ।

कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ २।१०३।१२ ॥

तस्येति । औपयिकं प्राप्तम् । “युक्तं स्यादुचितं न्याय्यं प्राप्तमौपयिकं तथा” इति हलायुधः ॥ २।१०३।१११२ ॥

अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मा ।

यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २।१०३।१३ ॥

राज्यैश्वर्य्ययोग्यतया ऋद्धिमान् इत्युक्तिः ॥ २।१०३।१३ ॥

रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।

कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ २।१०३।१४ ॥

स्फोटति । स्फुटति ॥ २।१०३।१४ ॥

श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।

यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ २।१०३।१५ ॥

एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।

ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २।१०३।१६ ॥

सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः ।

आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ २।१०३।१७ ॥

तासां रामः समुत्थाय जग्राह चरणान् शुभान् ।

मातृ़णां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ॥ २।१०३।१८ ॥

सत्या सत्यार्था । लौकिकी लोकविदिता, लोकप्रसिद्धेति यावत् । देवता इति श्रुतिः सत्येत्यन्वयः ॥ २।१०३।१५१८ ॥

ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः ।

प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ २।१०३।१९ ॥

ता इति । रामस्यायतलोचना इति पाठः ॥ २।१०३।१९ ॥

सौमित्रिरपि ताः सर्वाः मातृ़ः सम्प्रेक्ष्य दुःखितः ।

अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २।१०३।२० ॥

असक्तम् अविरतम् । “अविरतमनवरतं स्यादेकार्थमनारतमसक्तमपि” इति हलायुधः ॥ २।१०३।२० ॥

यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः ।

वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २।१०३।२१ ॥

सीतापि चरणांस्तासामुपसंगृह्य दुःखिता ।

श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ २।१०३।२२ ॥

तां परिष्वज्य दुःखार्त्तां माता दुहितरं यथा ।

वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २।१०३।२३ ॥

विदेहराजस्य सुता स्नुषा दशरथस्य च ।

रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ २।१०३।२४ ॥

ववृतिरेचक्रुरित्यर्थः ॥ २।१०३।२१२४ ॥

पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।

काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ २।१०३।२५ ॥

मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम्

भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥ २।१०३।२६ ॥

ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः ।

पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ २।१०३।२७ ॥

पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः ।

प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ २।१०३।२८ ॥

ते मुखं प्रेक्ष्य स्थितामिति शेषः । मां मनसि स्थितः सन्निति शेषः । आश्रयमाश्रयभूतं काष्ठादिकम् ॥ २।१०३।२५२८ ॥

ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।

जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २।१०३।२९ ॥

ततो जघन्यं वसिष्ठरामोपवेशादनन्तरमुपोपविष्टः । “प्रसमुपोदः पादपूरणे” इति द्विर्वचनम् ॥ २।१०३।२९ ॥

उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।

श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ २।१०३।३० ॥

कृताञ्जलिः अभूदिति शेषः ॥ २।१०३।३० ॥

किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।

इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २।१०३।३१ ॥

स राघवः सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिकः ।

वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयो ऽग्नयः ॥ २।१०३।३२ ॥

इतीवेत्यत्र इवशब्दो वाक्यालङ्कारे ॥ २।१०३।३०३१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥

इति श्रीगोविन्द० श्रीरामायणभू० पीताम्बरा० अयोध्याकाण्ड० त्र्युत्तरशततमस्सर्गः ॥ १०३ ॥