१०२ निवापाञ्जलिदानम्

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।

राघवो भरतेनोक्तां बभूव गतचेतनः ॥ २।१०२।१ ॥

तामित्यादि । करुणां शोकावहाम् । यद्वा अकरुणां करुणारहिताम्, क्रूरामिति यावत् ॥ २।१०२।१ ॥

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।

वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ॥ २।१०२।२ ॥

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः ।

वने परशुना कृत्तस्तथा भुवि पपात ह ॥ २।१०२।३ ॥

तं त्वित्यादिश्लोकद्वयमेकं वाक्यम् । दानवारिणा इन्द्रेण । बाहू प्रगृह्य पाणिना पाणिं निष्पीड्य उद्धृत्य वा । वाग्वज्रमित्यस्य पूर्वश्लोकादनुषक्तेन श्रुत्वेत्यनेनान्वयः ॥ २।१०२।२३ ॥

तथा निपतितं रामं जगत्यां जगतीपतिम् ।

कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ २।१०२।४ ॥

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् ।

रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ २।१०२।५ ॥

तथेत्यादिश्लोकद्वयम् । कूलघातेन मदेन दन्तकण्ड्वा च कृतेन कूलप्रहारेण परिश्रान्तम् अत एव प्रसुप्तं कुञ्जरमिव स्थितम्, मूर्च्छितमित्यर्थः । सलिलेन सर्वतः सिषिचुः सर्वगात्राणि मोहशान्तये सिक्तवन्तः । यतः “अमृतं वा आपस्तस्मादद्भिरवतांतमभिषिञ्चन्ति” इति श्रुतिरपि हि वदति ॥ २।१०२।४५ ॥

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।

उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम् ॥ २।१०२।६ ॥

स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।

उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ २।१०२।७ ॥

स त्विति । उपाक्रामत उपाक्रमत । दीर्घ आर्षः ॥ २।१०२।६७ ॥

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।

कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ २।१०२।८ ॥

किमिति । दिष्टां कालकल्पिताम् । “कालो दिष्टोप्यनेहापि” इत्यमरः । यद्वा दिष्टां दैवकल्पिताम् । “दैवं दिष्टं भागधेयम्” इत्यमरः । राजवरात् । तृतीयार्थे पञ्चमी । (पाठान्तरं । किं करिष्यामीत्यस्य भावमुद्घाटयति राजवरेति । राजवराधीनां तद्रक्षणाधीनामित्यर्थः) ॥ २।१०२।८ ॥

किं नु तस्य मया कार्य्यं दुर्जातेन महात्मनः ।

यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ २।१०२।९ ॥

पितृमरणहेतुभूतत्वात्तत्संस्कारानुपयोगाच्चात्मानं विगर्हते–किं नु तस्येति ॥ २।१०२।९ ॥

अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ ।

शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ २।१०२।१० ॥

अहो इति । अनघ “पुत्रमन्त्ये तु कर्मणि” इत्युक्तपितृसंस्काररूपभाग्यविघटकपापरहित अहं हि तादृशपापवानिति भावः । येन कारणेन त्वया शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु प्राप्तेषु राजा सत्कृतः ॥ २।१०२।१० ॥

निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।

निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ २।१०२।११ ॥

निष्प्रधानामिति । एकाग्रा अनाकुला । “अनाकुलेपि चैकाग्रः” इत्यमरः । सा न भवतीत्यनेकाग्रा । ताम् आकुलामिति यावत् ॥ २।१०२।११ ॥

समाप्तवनवासं मामयोध्यायां परन्तप ।

को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ २।१०२।१२ ॥

समाप्तेति । शासिष्यति कार्य्येषु नियोक्ष्यतीत्यर्थः ॥ २।१०२।१२ ॥

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।

वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ २।१०२।१३ ॥

पुरेति । सुवृत्तं शोभनं नियोगा चरणरूपं वृत्तं यस्य तम् । कुतः कस्मात् पुरुषात् ॥ २।१०२।१३ ॥

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।

उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ २।१०२।१४ ॥

एवमिति । अभ्येत्य अभिसुखो भूत्वा ॥ २।१०२।१४ ॥

सीते मृतस्ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण ।

भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ २।१०२।१५ ॥

सीत इति । दुःखमित्येतत् क्रिया विशेषणम् । इत्युवाचेति पूर्वोणान्वयः ॥ २।१०२।१५ ॥

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।

तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ २।१०२।१६ ॥

ततस्ते भ्रातरः सर्वे भृशमाश्वास्य राघवम् ।

अब्रुवन् जगतीभर्त्तुः क्रियतामुदकं पितुः ॥ २।१०२।१७ ॥

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।

नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ २।१०२।१८ ॥

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।

उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ २।१०२।१९ ॥

तत इति । क्रियतामित्यत्रेतिकरणं द्रष्टव्यम् ॥ २।१०२।१७१९ ॥

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।

जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ २।१०२।२० ॥

आनयेति । इङ्गुदिपिण्याकं तपस्विभोज्यं तापसतरुबीजपिण्याकम् । अनिस्सारिततैलं पिष्ट्वा चूर्णीकृत्य पिण्डीकृतमिङ्गुदीबीजमेव पिण्याकत्वेनोपचर्य्यते । “इङ्गुदी तापसतरुः” इत्यमरः । चीरं वासउदकदानार्थम् । (चीरं स्नानार्थं परिधानम्) उत्तरम् उत्तरीयं च ॥ २।१०२।२० ॥

सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।

अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २।१०२।२१ ॥

सीतेति । अभितः पश्चात् “अभितः परितः” इत्यादिना एनामिति द्वितीया । सुदारुणा सुतरां दुस्सहा । गतिः दुःखिनां गतिः । एषा हि स्नानाद्यर्थं स्त्रीबालपुरस्सरा खल्वित्यर्थः । तथा च सूत्रम् “सर्वे कनिष्ठप्रथमा अनुपूर्व इतरे स्त्रियो ऽग्रे” इति ॥ २।१०२।२१ ॥

ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।

मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २।१०२।२२ ॥

सुमन्त्रस्तैर्नृपसुतैः सार्द्धमाश्वास्य राघवम् ।

अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २।१०२।२३ ॥

तत इति । नित्यानुगः कुलक्रमानुगतानुचरः । विदितात्मा ज्ञातात्मस्वरूपः ॥ २।१०२।२२२३ ॥

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।

नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २।१०२।२४ ॥

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।

सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ २।१०२।२५ ॥

त इति । ते सीतालक्ष्मणरामाः । स्त्रियोपि उदकं दिशन्तीति शास्त्रसिद्धम् । शीघ्रस्त्रोतसं नदीमुपागम्य अकर्दमं तीर्थम् अवतारप्रदेशमासाद्य । तत हे तात ते तुभ्यमेतद्भवत्वित्युच्चार्य्य उदकं सिषिचुः, ददुरित्यर्थः । स्नानमर्थात्सिद्धम् । सीतायाः स्नानमात्रे ऽन्वयो वा । कृच्छ्रादित्यनेन तेषां दुःखातिशयात् स्खलितगमनमुच्यते । सुतीर्थामित्यनेन पुण्यतीर्थत्वमुक्तम् । उपगम्येत्यनेन नदीतीरेपि कञ्चित्कालं रोदनाचार उक्तः । यशस्विन इत्यनेन शास्त्रानतिक्रम उक्तः । रम्यामित्यनेनन दुःखशान्तिहेतुत्वमुक्तम् । पुष्पितकाननामित्येन उदकदानसमाप्तिपर्य्यन्तमनातपत्वमुक्तम् । शीघ्रस्रोतसमित्यनेन स्नानकाले स्रोतोभिमुखत्वमुक्तम् । शिवं शुद्धम् । अकर्द्दमं तीर्थमासाद्येत्यनेन तीरे सेचनमुक्तम् ॥ २।१०२।२४२५ ॥

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।

दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २।१०२।२६ ॥

दानप्रकारमाह–प्रगृह्येत्यादिना ॥ २।१०२।२६ ॥

एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।

पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २।१०२।२७ ॥

दानमन्त्रमाह–एतदित्यादिना ॥ २।१०२।२७ ॥

ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघवः ।

पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥ २।१०२।२८ ॥

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।

न्यस्य रामः सुदुःखार्त्तो रुदन् वचनमब्रवीत् ॥ २।१०२।२९ ॥

इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।

यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ २।१०२।३० ॥

ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।

आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ २।१०२।३१ ॥

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।

परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ २।१०२।३२ ॥

तत इति । भ्रातृभिः सह मन्दाकिनीतीरात् प्रत्युत्तीर्य्य पितुर्निवापं पिण्डप्रदानं चकार मन्दाकिनीतीरात्समुत्तीर्य्येत्युदकदानदेशात् किंचित्प्रदेशान्तरगमनवचनात् सपिण्डीकरणमेव कृतमित्यवगम्यते । दशाहात्यये उदकदानं विना पिण्डदानस्याचोदितत्वात् । उदकसेचनवत् कनिष्ठेन लक्ष्मणेन पिण्डदानानुक्तेश्च ॥ २।१०२।२८३२ ॥

तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ ।

भ्रातृ़णां सह वैदेह्याः सिंहानामिव नर्दताम् ॥ २।१०२।३३ ॥

तेषामिति । प्रतिश्रुत्कः प्रतिध्वनिः ॥ २।१०२।३३ ॥

महाबलानां रुदतां कुर्वतामुदकं पितुः ।

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ॥ २।१०२।३४ ॥

अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् ।

तेषामेव महाञ्छब्दः शोचतां पितरं मृतम् ॥ २।१०२।३५ ॥

महाबलानामित्यादिश्लोकद्वयमेकं वाक्यम् । त्रस्ताः किं भविष्यतीति धिया उद्विग्नाः । उद्वेगानन्तरं निश्चित्य वदन्ति स्मेत्याह अब्रुवन्नित्यादिना । मृतं पितरमुद्दिश्येति शेषः ॥ २।१०२।३४३५ ॥

अथ वासान् परित्यज्य तं सर्वे ऽभिमुखाः स्वनम् ।

अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥ २।१०२।३६ ॥

अथेति । स्वनमभिमुखाः स्वनोत्पत्तिदिगभिमुखा इत्यर्थः । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य । प्रधाविताः शीघ्रगतियुक्ताः ॥ २।१०२।३६ ॥

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः ।

सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ २।१०२।३७ ॥

अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।

द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥ २।१०२।३८ ॥

सुकुमारा इति । हयैरित्यादिभिरुक्तानां त्रयाणां विशेषणम् । सुकुमारत्वाभावे दुःखितं रामं प्रति पद्भ्यामेव गन्तव्यत्वात् ॥ २।१०२।३७३८ ॥

भ्रातृ़णां त्वरितास्तत्र द्रष्टुकामाः समागमम् ।

ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ॥ २।१०२।३९ ॥

सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता ।

मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ २।१०२।४० ॥

भ्रातृ़णामिति । एषां यानैर्गमनं दर्शनत्वरया । ययुर्बहुविधैर्यानैः खुरनेमिसमाहताः इति पाठः । ययुर्बहुविधैर्युक्तैरिति पाठे–युक्तेः सज्जैः, यानैरिति शेषः ॥ २।१०२।३९४० ॥

तेन वित्रासिता नागाः करेणुपरिवारिताः ।

आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ २।१०२।४१ ॥

तेनेति । आवासयन्तः मदगन्धेनावासयन्तः । एतेन वनगजानामपि रामदर्शनहर्षो द्योत्यते ॥ २।१०२।४१ ॥

वराहवृकसङ्घाश्च महिषाः सर्प्पवानराः ।

व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ॥ २।१०२।४२ ॥

वराहेति । गोकर्णः गोरिव कर्णौ यस्य स गोकर्णः । महापृषतविशेषः ॥ २।१०२।४२ ॥

रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः ।

तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥ २।१०२।४३ ॥

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।

मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ २।१०२।४४ ॥

ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।

आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥ २।१०२।४५ ॥

रथाङ्गेति । नत्यूहाः जलरङ्कवः । “नत्यूहो जलरङ्कुः स्यात्” इति हलायुधः । प्लवाः स्थूलबकविशेषाः ॥ २।१०२।४३४५ ॥

विगर्हमाणः कैकेयीं सहितो मन्थरामपि ।

अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ॥ २।१०२।४६ ॥

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् ।

पर्य्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ २।१०२।४७ ॥

विगर्हमाण इति । सहितः अन्योन्यसङ्गतः ॥ २।१०२।४६४७ ॥

स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।

चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मजः ॥ २।१०२।४८ ॥

स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वनः ।

गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥ २।१०२।४९ ॥

स इति । चकार सम्मानमिति शेषः ॥ २।१०२।४८४९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततमःसर्गः ॥ १०२ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्व्युत्तरशततमः सर्गः ॥ १०२ ॥