१०१ दशरथनिर्याणकथनम्

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।

किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ २।१०१।१ ॥

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह इत्यादि अयं सर्ग एवात्र लेखनीयः । ऽतं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम्ऽ इत्यादिसर्गस्तु लेखकैः प्रमादाल्लिखितः । तस्योक्तप्रश्नोत्तरत्वाभावात् । अत्र भरतोच्यमानपितृमरणश्रवणानन्तरं रामस्य दुःखितत्वाश्रवणात् । अत्र महेश्वरतीर्थेन सर्गपौर्वापर्यवैपरीत्यमनालोच्य स्वदृष्टकोशमात्रप्रामाण्येन ऽतं तु रामः समाज्ञायऽ इत्यादिकं सर्गमेवैकोत्तरशततमं मन्वानेन तत्सर्गव्याख्यानान्ते तत्रत्यार्थविरोधमालोच्यैवमाक्षेपपरिहारावुक्तौ । “ननु–आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥ इति । इमाः प्रकृतयः सर्वा विधवा मातरश्च याः । त्वत्सकाशमनुप्राप्ताः । इति च भरतेनोक्ते रामस्तदानीमशोचन् तदुल्लङ्घ्याभिषेकप्रत्याख्यानमेव किमिति कृतवान् नैष दोषः । तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुषङ्गिकत्वेनोक्तं राज्यस्वीकरणमेव प्राधान्येनोक्तम् । अतो रामस्तदेवं मन्यते । पिता पुत्रशोकेन मृतकल्पा न पुनर्जीविष्यतीति मृत इत्युच्यते । मातरश्च विधवाकल्पा इति विधवा इत्युच्यन्ते । अनेन ममाभिषेचनमेव प्राधान्येनोच्यत इत्यशोचन्नभिषेकप्रत्याख्यानं कृतवान् । स्ववाक्ये पितृमरणानुवादस्य चायमेवार्थः” इति । अत्रायं परिहारो न युज्यते । यदि च पिता मृतकल्पत्वेन मृत इत्युच्यत इति रामो गृह्णीयात् तदा ऽव्यादिश्य च महातेजा दिवं दशरथो गतःऽ इति नानुवदेत् । यस्तु स्वाशयं स्वयमेवैवमिति वदति तस्यान्येन गत्यन्तरे सति तद्विरुद्धाभिप्रायकल्पनं कथं कर्तुं शक्यम् ? अतो ऽनेनैवानुवादेन रामेण पिता मृत इत्येव गृहीतमिति भाति । किञ्च प्रकृतीनां मातृ़णां च समागमनात्पूर्वम् “इमाः प्रकृतयः सर्वा विधवा मातरश्च याः । त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि” इत्यङ्गुल्यादिनिर्देशानुपपत्तेश्च । अतः ऽतं तु रामः समाज्ञायऽ इत्यादिसर्गः वसिष्ठं पुरतः कृत्वेति त्र्युत्तरशततमसर्गानन्तरं चतुरुत्तरशततमसर्गत्वेन लेखनीयः पठनीयश्च । तथा चेत्सङ्गतः स्यात् । अतो ऽत्र रामस्य वचनं श्रुत्वेत्ययं सर्ग एव व्याख्यायते–रामस्य वचनं श्रुत्वेत्यादि । धर्मात् त्वत्सेवारूपमुख्यधर्मात् । यद्वा धर्मात् त्वदुक्तराजधर्मानुष्ठानहेतुभूतराजभावात् । राजधर्मः त्वदुक्तनीतिस्थः ॥ १।१०१।१ ॥

शाश्वतो ऽयं सदा धर्म्मः स्थितो ऽस्मासु नरर्षभ ।

ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ २।१०१।२ ॥

कुतस्ते राजभावाभाव इत्यत्राह–शाश्वत इति । अस्मासु अस्मत्पूर्वेषु ॥ २।१०१।२ ॥

स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।

अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ २।१०१।३ ॥

स समृद्धामिति । भवाय भद्राय । “भवो भद्रे हरे प्राप्तौ सत्ता संसारजन्मसु” इति वैजयन्ती ॥ २।१०१।३ ॥

राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।

यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ २।१०१।४ ॥

न सर्वसुलभं राजत्वमित्याह–राजानमिति । प्राहुः प्राकृता जना इति शेषः । स राजा मम देवत्वे मतः । देवत्वेन सम्मत इत्यर्थः ॥ २।१०१।४ ॥

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।

दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ २।१०१।५ ॥

एवं सन्निहितनीति प्रश्नस्योत्तरमुक्त्वा प्राथमिकराजविषयप्रश्नस्योत्तरमाह–केकयस्थ इति । यायजूकः इज्याशीलः । “इज्याशीलो यायजूकः” इत्यमरः ॥ २।१०१।५ ॥

निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।

दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ २।१०१।६ ॥

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः ।

अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ २।१०१।७ ॥

मन्निर्गमनानन्तरं कतिदिवसेषु राजा दिवं गत इत्यत्राह–निष्क्रान्तमात्र इति ॥ २।१०१।६७ ॥

प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।

अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥ २।१०१।८ ॥

भवद्भ्यां दत्ते किं मयापि दातव्यमित्यत्राह–प्रियेणेति ॥ २।१०१।८ ॥

त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।

त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमितः पिता ते ॥ २।१०१।९ ॥

प्रियत्वमेव दर्शयति–त्वामेवेति । रुग्णः पीडित इति यावत् ॥ २।१०१।९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकोत्तरशततमःसर्गः ॥ १०१ ॥

इति श्रीगोविन्दराजविरचिते श्रीरा० पीता० अयो० एकोत्तरशततमः सर्गः ॥ १०१ ॥