१०० रामस्य कुशलप्रश्नः

जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।

ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २।१००।१ ॥

दर्शनमात्रेण भरतो राज्यं पालयतीति कृत्वा राज्यनीतिं पृच्छति शततमे–जटिलमिति । यद्वा अथ भगवान् रामः प्रश्नव्याजेन राज्यरक्षणनीतिप्रकारान् शिक्षयति, पश्चाद्दशरथात्ययश्रवणभरतस्थण्डिलशयनादिव्यापारेण तदुपदेशावकाशाभावात् । जटिलमित्यादि । जटिलं, समीचीनमालिका दृष्टा चेदियं भरतस्य केशार्हेत्येवं दशरथो वदति स एव जटां बद्ध्वा तिष्ठतीति रामो विस्मयते । चीरवसनं श्लाघ्यचीनाम्बरं दृष्टं चेद्बालस्य भरतस्य वसनार्हमिदमिति पिता वदति स एवेदानीं वल्कलधारी तिष्ठति । प्राञ्जलिं पिता याचनापूर्वकं दिशति चेत् यः स्वीकरोति स सम्प्रति स्वाभिमतस्य स्वयमर्थी भवति । पतितं भुवि अङ्के भरतमारोप्येति स्थितिर्न लब्धा । कुसुमशय्यापि कठिनीभवेदितिमत्वा उत्सङ्गे एव पित्रा शायितः स सम्प्रति स्थले पतितः । ददर्श रामोदुर्दर्शं दत्तां दृष्टिमनाकृष्य स्थितस्य रामस्य दर्शनायोग्यनतया स्थितम् । यद्वा दुर्दर्शं जटिलत्वादिवेषेण स्नेहितजनस्य दुष्प्रेक्षम् । दुर्दुर्शं दुःखेन द्रष्टुं योग्यम्, कृच्छ्रेणाप्यभिज्ञातुमयोग्यमिति यावत् । युगान्ते भास्करं यथा न केवलं रामस्य सर्वस्यापि जनस्य दुर्दर्शतया स्थितमिति भावः । यद्वा युगान्ते भास्करं यथा युगान्ते भुवि पतितं भास्करमिव स्थितम्, अनेन पूर्ववन्महत्तरतेजोराहित्यं तादृशावस्थानर्हत्वं च व्यज्यते । (युगान्ते भुवि पतितं भास्करं यथेत्यनेन महत्तरतेजोराशित्वं तादृशावस्थानर्हत्वं चोच्यते ।) ननु गङ्गातीरे “अद्यप्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाचीराणिधारयन्” इति जटावल्कलधारणं प्रतिज्ञातम् । पुनर्नवतितमे भरद्वाजदर्शनसमये ऽवसानो वाससी क्षौमेऽ इति क्षौमवस्त्रं धृतवानित्युच्यते । अत्र तु जटिलं चीरवसनमिति सिद्धवदनूद्यते । कथमेतत्सङ्गच्छत इति चेत् ? अत्राहुः–प्रतिज्ञाया रात्रौ कृतत्वात् परेद्युर्भरद्वाजदर्शनानन्तरं जटावल्कले धृतवानित्यविरोध इति । अयं च परिहारः पुरैवास्माभिः प्रतिपादितः ॥ २।१००।१ ॥

कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।

भ्रातरं भरतं रामः परिजग्राह बाहुना ॥ २।१००।२ ॥

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।

अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २।१००।३ ॥

कथञ्चिदिति । कथंचिदभिविज्ञानत्वे हेतुद्वयम्विवर्णवदनं कृशमिति ॥ २।१००।२३ ॥

क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागतः ।

न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २।१००।४ ॥

अतिदुःखितस्य भरतस्य दुःखमपनेतुं प्रश्नव्याजेन धर्मानुपदिशति–क्वन्वित्यादि । ते पिता क्वन्वभूत् इति प्रश्नभङ्ग्या लोकान्तरं गतः किमिति सिद्ध्यति । तत्र हेतुः यदिति । तदुपपादयति नहीति । जीवतः जीवति । अनादरे षष्ठी । वनं नागन्तुमर्हसि, शुश्रूषणपरत्वादिति भावः । यद्वा तस्य त्वद्विरहासहिष्णुत्वादिति रामस्य प्रश्नान्तरसम्बन्धदर्शनेन भरतो नोत्तरमुक्तवानिति बोध्यम् ॥ २।१००।४ ॥

चिरस्य बत पश्यामि दूराद्भरतमागतम् ।

दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागतः ॥ २।१००।५ ॥

चिरस्येति । बतेत्यद्भुते । “खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत” इत्यमरः । दूरात् दूरावस्थितकेकयनगरात् । दुष्प्रतीकं वैवर्ण्यादिना दुर्ज्ञेयावयवम् । “अङ्गं प्रतीको ऽवयवः” इत्यमरः । किं किमर्थम् ॥ २।१००।५ ॥

कच्चिद्धारयते तात राजा यत्त्वमिहागतः ।

कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ २।१००।६ ॥

अस्मिन्नरण्ये तव किं प्रयोजनम् ? प्रयोजनं द्वेधा सम्भवति । राजनि जीवति तदाज्ञया मम दर्शनम्, राजनि मृते स्वबाल्येन बलवद्भिरपहृतराज्यत्वं वा । आद्यमाह–कच्चिदिति । धारयत इति, प्राणानिति शेषः । यस्मात्त्वमिहागतः तस्माद्राजा प्राणान् धारयते कच्चित् ? राजा जीवति चेत् त्वामत्रागच्छन्तं न सहेतेति भावः । कच्चिन्न धरत इति पाठान्तरम् । तदा देहं धारयितुं न शक्नोति कच्चिदित्यर्थः ॥ २।१००।६ ॥

कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २।१००।७ ॥

द्वितीयं पक्षं प्रश्नद्वयेन दर्शयति–कच्चिदित्यादि । राज्यं भ्रष्टं न कच्चित्, प्रजानुरागो विद्यते कच्चिदित्यर्थः ॥ २।१००।७ ॥

कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २।१००।८ ॥

कच्चिच्छुश्रूषस इति पितृशुश्रूषानादरेण किमागतो ऽसीति पक्षान्तरम् ॥ २।१००।८ ॥

कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः ।

राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चयः ॥ २।१००।९ ॥

अथ राज्ञः आरोग्यं पृच्छति–कच्चिद्दशरथ इति । कुशली अनामयः । राज्ञो व्याधिपरिभूतत्वात् तत्कथनाय किमागतोसीति पक्षान्तरम् । सत्यसङ्गरः सत्यप्रतिज्ञः । सत्यप्रतिज्ञां प्रेक्ष्य पश्चात्तापेन किमकुशलं प्राप्त इति हार्दो भावः । आहर्त्ता सम्पादयिता, कर्तेति यावत् । धर्मे निश्चयो यस्य स धर्मनिश्चयः ॥ २।१००।९ ॥

स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः ।

इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २।१००।१० ॥

स कच्चिदिति । सः प्रसिद्धः । ब्राह्मणः ब्रह्मवित् । “तदधीते तद्वेद” इत्यण् । विद्वान् सर्वविद्यासु कुशलः । धर्मनित्यः ज्ञानानुगुणमनुष्ठातेत्यर्थः । महाद्युतिः तत्कृतब्रह्मवर्चसयुक्तः । इक्ष्वाकूणामुपाध्यायः कुलगुरुः वसिष्ठः । यथावत् यथापूर्वम् । तातवत्संपूज्यते बहुमन्यते ॥ २।१००।१० ॥

सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।

सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २।१००।११ ॥

सा तातेति । सा पूर्वं दुःखिततया अनुभूता कौसल्या सुखिनी कच्चित् । प्रजावती सुपजाः सुमित्रा च सुखिनी कच्चिदित्यन्वयः । आर्येति स्वमातुरपि बहुमानोक्तिः । कैकेयी नन्दति कच्चित्, राज्यलाभेनेति शेषः ॥ २।१००।११ ॥

कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।

अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ २।१००।१२ ॥

कच्चिद्विनयसम्पन्न इति । विनयसम्पन्नः निरहङ्कारः । कुलपुत्रः सत्कुलप्रसूतः । बहुश्रुतमवधारणं यस्य स तथा । अनसूयुः । छान्दस उप्रत्ययः । अनुद्रष्टा वसिष्ठोपदिष्टानामुपद्रष्टा । ते पुरोहित इत्यनेन रामस्य सुयज्ञ इव भरतस्यापि प्रातिस्विकः कश्चित्पुरोहितो ऽस्तीति गम्यते । सुयज्ञ एवोच्यत इत्यप्याहुः । सत्कृतः पूजितः कच्चिदित्यन्वयः । अनेन पुरोहितः सदा सत्कर्तव्य इति शिक्षितम् । एवमुत्तरत्रापि योजनीयम् ॥ २।१००।१२ ॥

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।

हुतं च होष्यमाणं च काले वेदयते सदा ॥ २।१००।१३ ॥

“पितृव्यपुत्रे सापत्ने परनारीसुतेषु च । विवाहदानयज्ञादौ परिवेदो न दूषणम् ॥ " इति स्मरणात् द्वैमातुरेष्वधिवेदनदोषाभावाद्यज्ञोऽपि कृत इत्यारोप्य पृच्छति–कच्चिदग्निष्विति। अथवा अग्निषु अग्निकार्येषु युक्तः सावधानः नियुक्तो वा, अग्निशुश्रूषणपर इत्यर्थः। विधिज्ञः अग्निहोत्राद्यश्वमेधान्तसकलयागविधिज्ञः। मतिमान् ऊहापोहादिकल्पनचतुरः। ऋजुः प्रत्यक्षपरोक्षयोरेकरूपानुष्ठानवान्, एकरूपकरणत्रय इति वार्थः। पुरोहित इति शेषः। काले तत्तद्धोमकाले। वेदयते तुभ्यं ज्ञापयति कच्चित् ॥ २।१००।१३ ॥

कच्चिद्देवान् पितृ़न् मातृ़र्गुरून् पितृसमानपि ।

वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २।१००।१४ ॥

कच्चिद्देवानिति । अभिमन्यसे बहुमन्यसे । देवेषु बहुमतिर्यज्ञादिभिराराधनम्, पितृषु मातृषु च वचनकरणशुश्रूषणे । भृत्यानिति पाठे–तत्र बहुमतिः दानम् । गुरुष्वनुवर्तनाभिमतकरणादि, पितृसमेषु ज्ञातिष्वर्थदानम् वृद्धादिषु नमस्कारादि । वृद्धाः ज्ञानशीलवयोभिः । विद्या येषां सन्तीति वैद्याः विद्धांसः तान् । ब्राह्मणान् ब्रह्मविदः । यद्वा वैद्यान् भिषजः तेषां बहुमतिश्च धनादिना परितोषणम् । ब्राह्मणानिति जातिमात्रपरो वा । तदा विद्याशीलादिकमपरीक्ष्य ब्राह्मणत्वमात्रेण यथायोग्यं बहुमानं विवक्षितम् ॥ २।१००।१४ ॥

इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।

सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २।१००।१५ ॥

इष्वस्त्रवरसम्पन्नमिति–इषवः अमन्त्रका बाणाः, अस्त्राणि समन्त्रकाः, वरशब्दः प्रत्येकमभिसम्बध्यते । अर्थशास्त्रं नीतिशास्त्रम् । सुधन्वानं सुधन्वनामकम् उपाध्यायं धनुर्वेदाचार्यम् । मन्यसे बहुमन्यसे ॥ २।१००।१५ ॥

कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः ।

कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ २।१००।१६ ॥

आत्मसमाः विश्वसनीया इति यावत् । शूराः धीरा इति यावत् । श्रुतवन्तः नीतिशास्त्रज्ञाः । “श्रुतं शास्त्रावधृतयोः” इत्यमरः । जितेन्द्रियाः परैरलोभनीया इति यावत् । कुलीनाः प्रामाणिककुलोत्पन्नाः । ते त्वया ॥ २।१००।१६ ॥

मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।

सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ २।१००।१७ ॥

एतादृशमन्त्रिकरणे किं कारणम् ? तत्राह–मन्त्र इति । सुसंवृतः सुतरां गुप्तः । शास्त्रकोविदैः नीतिशास्त्रनिपुणैः । मन्त्रधरैः अमात्यैः । सुसंवृतो मन्त्रो हि विजयमूलं भवतीत्यन्वयः ॥ २।१००।१७ ॥

कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे ।

कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २।१००।१८ ॥

कच्चिदिति । अर्थनैपुणम् अर्थविषयसामर्थ्यमिति यावत् ॥ २।१००।१८ ॥

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।

कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २।१००।१९ ॥

कच्चिन्मन्त्रयस इति । एको न मन्त्रयसे कच्चित्, एकेन मन्त्रे क्रियमाणे तस्य कुत्रचिदभिनिवेशेन गुणागुणयोर्याथार्थ्यग्रहणं न सिद्ध्येदिति भावः । बहुभिः सह न मन्त्रसये कच्चित् बहुभिस्सह मन्त्रणेपि प्रथमं तावदैकमत्यं न घटते, मन्त्रभेदश्च भवेदिति भावः । राष्ट्रं जनपदं न परिधावति न व्याप्नोति । पूर्वं मन्त्रसंवरणमन्यहेतुतयोक्तम्, अत्र तु स्वतन्त्रतयोच्यत इति न पुनरुक्तिः ॥ २।१००।१९ ॥

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।

क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २।१००।२० ॥

कच्चिदर्थमिति । लघुमूलं लघुसाधनम् । महादेयं महाफलम् । अर्थं कार्यं विनिश्चित्य क्षिप्रमारभसे कच्चित्, न दीर्घयसि न विलम्बसे कच्चित् । एवमन्वयव्यतिरेकाभ्यामुक्तम् “क्षिप्रमक्रियमाणस्य कालः पिबति तत्फलम्” इति भावः ॥ २।१००।२० ॥

कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः ।

विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवाः ॥ २।१००।२१ ॥

कच्चित्ते सुकृतानीति । पार्थिवाः सामन्तनृपाः । ते सर्वकार्य्याणि मन्त्रितसर्वकार्य्याणि । सुकृतान्येव सुनिष्पन्नान्येव विदुः कच्चित् कृतरूपाणि कृतप्रायाणि वा क्षिप्रमेव फलोन्मुखानीति यावत् । कर्त्तव्यानि न विदुः मन्त्रेण कर्त्तव्यतया निश्चितानि करणात् पूर्वं न विदुरित्यर्थः ॥ २।१००।२१ ॥

कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।

त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २।१००।२२ ॥

कच्चिन्नेति । मन्त्रितं कार्य्यं त्वया वा तवामात्यैर्वा हेतुभिस्तर्कैः ऊहैः युक्त्या वा अनुमानेन वा ये चाप्यपरिकीर्तिताः अनुक्ताः इङ्गितादयः तैर्वा न बुद्ध्यते कञ्चित्, परैरिति शेषः । भवान् भवदीयामात्याश्च मन्त्रितार्थविषयपराभ्यूह्यस्थानानि सूक्ष्माण्यपि स्थगयन्ति कच्चिदित्यर्थः ॥ २।१००।२२ ॥

कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।

पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं महत् ॥ २।१००।२३ ॥

मूर्खाणां सहस्रात् मूर्खसहस्रं परित्यज्यापि । ल्यब्लोपे पञ्चमी । पण्डितं विमृश्यकारिणमेकमिच्छसि कच्चित् । पण्डितपरिग्रहे हेतुमाह पण्डित इति । अर्थकृच्छ्रेषु कार्यसङ्कटेषु (पाठान्तरम् । अर्थकृच्छ्रेषु अर्थसङ्कटेषु) महन्निःश्रेयसं प्रापयेदित्यर्थः । (महन्निःश्रेयसम्, अव्यभिचारितफलसाधनोपायम्) कुर्यात् उपदिशेदित्यर्थः ॥ २।१००।२३ ॥

सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।

अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २।१००।२४ ॥

एवमन्वयेनोपपाद्य व्यतिरेकमुखेनोपपादयति–सहस्राणीति । उपास्ते आश्रयति, संगृह्णातीत्यर्थः । नास्तीत्यस्मात्पूर्वं तथापीत्युपस्कार्यम् । सहायता मन्त्रोपायसहायत्वम् ॥ २।१००।२४ ॥

एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।

राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २।१००।२५ ॥

पण्डितशब्दार्थं विवृण्वन्नाह–एक इति । मेधा ऽस्यास्तीति मेधावी । “अस्मायामेधास्रजोविनिः” इति विनिः । झटिति परोपन्यस्तार्थग्रहणपटुरित्यर्थः । शूरः स्थिरबुद्धिः । दक्षः विचारसमर्थः । विचक्षणः अभ्यस्तनीतिशास्त्रः ॥ २।१००।२५ ॥

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।

जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २।१००।२६ ॥

कच्चिन्मुख्या इति । मुख्याः भृत्याः महत्सु मुख्येष्वेव कार्येषु वचनपरिवेषणादिषु कच्चिन्नियोजिताः न तु हीनेषु कार्येषु । मध्यमाः जात्यादिना मध्यमा भृत्याः मध्यमेष्वेव कार्येषु शय्यासनानयनादिषु नियोजिताः नतूत्तमाधमकार्य्येषु । जघन्याः जात्यादिहीनाः भृत्याः जघन्येष्वेव कार्येषु पादप्रक्षालनपादुकानयनपादसंवाहनादिषु नियोजिताः नतूत्तममध्यमेषु कार्येषु योजिताः कच्चित्, अन्यथा महद्वैशसं भवेदिति भाव ॥ २।१००।२६ ॥

अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।

श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २।१००।२७ ॥

भृत्येषूक्तं न्यायममात्येष्वतिदिशति–अमात्यानिति । उपधातीतान् स्वव्यतिरिक्तेष्वर्थाद्युपाधिरहितान् । यद्वा सुपरीक्षातीतान् “उपधा सुपरीक्षा स्यात्” इति वैजयन्ती । श्लाघ्यवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य अन्तः पुरप्रेषितं परराजप्रेषितमिति प्रलोभ्य परीक्षां कुर्वन्ति राजानः, तामतीतानित्यर्थः । पितृपैतामहान् कुलक्रमागतान् । शुचीन् करणत्रयशुद्धियुक्तान् ॥ २।१००।२७ ॥

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।

राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥ २।१००।२८ ॥

कच्चिन्नोग्रेणेति । तव उग्रेण दण्डेन उद्वेजितप्रजं पीडितप्रजायुक्तं राष्ट्रं राज्यं मन्त्रिणः नानुजानन्ति नानुमन्यन्ते कच्चित्, राजानं त्वामुग्रदण्डात् निवर्तयन्ति कच्चिदित्यर्थः ॥ २।१००।२८ ॥

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।

उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २।१००।२९ ॥

कच्चित्त्वामिति । उग्रप्रतिग्रहीतारमित्युपमानोपमेययोः साधारणविशेषणम् । अग्रेण दण्डोपायेनादण्ड्येभ्यो धनग्रहणं कुर्वन्तं त्वाम् उग्रप्रतिग्रहीतारम् उग्रेण दुर्दानेन धनप्रतिग्रहीतारं पतितं यष्टुकामं पतितं याजका ऋत्विज इव, उग्रेण कर्मणा बलात्कारेण प्रतिग्रहीतारं कामयानं पुरुषं स्त्रिय इव वचनाज्जानन्ति कच्चित्, प्रजा इति शेषः । प्रजावमानहेतुभूतं न्यायातिक्रमेण उग्रकरग्रहणं त्वयि नास्ति कच्चिदिति भावः ॥ २।१००।२९ ॥

उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।

शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २।१००।३० ॥

उपायेति । उपायेषु सामाद्युपायेषु । कुशलं निपुणं । वैद्यं कणिकोक्तकुटिलनीतिविद्याविदम् (चाणक्याद्युक्तकुटिलनीतिशास्त्रविदम् ।) भृत्यसन्दूषणे रतम् अन्तरङ्गभृत्यानां सन्दूषणे असद्दोषोद्घाटनेन तद्विघटने रतम् । शूरं राजहिंसनेपि निर्भयम् । ऐश्वर्यकामं क्रमेण राजैश्वर्याक्रमणकामं च पुरुषं यो न हन्ति स राजा तनैव वध्यते, राज्याद्भ्रष्टो भवतीत्यर्थः । एवंविधः पुरुषः त्वत्सन्निधौ न वर्तते कच्चिदित्यर्थः ॥ २।१००।३० ॥

कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः ।

कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ २।१००।३१ ॥

सङ्ग्राह्यसेनापतिगुणानाह–कच्चिद्धृष्ट इति । हृष्यतीति हृष्टः राजकृतसत्कारेण सन्तुष्टः । यद्वा धृष्ट इति च्छेदः । धृष्टः व्यवहारेषु प्रगल्भः । शूरः परनिग्रहपरः । मतिमान् तत्तत्समयानुगुणस्वपरसेनाव्यूहतद्भेदनसेनानयनादिचतुरबुद्धियुक्तः । धृतिमान् विपदिप्रशस्तधैर्यः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । यद्वा शुचिः स्वामिनि सविश्वासः । कुलीनः सत्कुलप्रसूतः । अनुरक्तः स्वस्मिन्निरवधिकप्रीतिमान् । दक्षः कार्यकुशलः एवंविधः सेनापतिः कृतः कच्चित्, तादृशं पूर्वसेनापतिं विहायातादृशमन्यं न परिगृहीतवानसि कच्चिदित्यर्थः ॥ २।१००।३१ ॥

बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः ।

दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ २।१००।३२ ॥

बलवन्त इति । बलवन्तः अत्यन्तबलाः । ते प्रसिद्धाः । मुख्याः गणमुख्याः । युद्धविशारदाः युद्धे समर्थाः । दृष्टं साक्षात्कृतम् अपदानं पूर्ववृत्तं पौरुषं येषां ते तथोक्ताः । विक्रान्ताः शूराः । “शूरो वीरश्च विक्रान्तः” इत्यमरः । सत्कृत्य मानिताः पारितोषिकदानपूर्वकं श्लाघिताः कच्चित् ॥ २।१००।३२ ॥

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।

सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २।१००।३३ ॥

कच्चिद् बलस्येति । बलस्य सैन्यस्य । सम्प्राप्तकालं कालप्राप्तम् । दातव्यं तत्तत्काले देयम् । भक्तमन्नं वेतनं प्रतिमासं देयां भृतिं च । यथोचितं तत्तकार्य्योचितं ददासि । न विलम्बसे कच्चित् कालातिक्रमणं विना ददासि कच्चित् ॥ २।१००।३३ ॥

कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः ।

भर्त्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः ॥ २।१००।३४ ॥

विलम्बे दोषमाह–कालातिक्रमणादिति । भृताः भृतिजीविनः, भटा इति यावत् । भर्तुः कुप्यन्ति भर्तारं प्रति कुप्यन्ति । दुष्यन्ति कोपेन विकृता भवन्ति, स विकारः सुमहाननर्थः स्मृतः अनर्थकरो भवेदित्यर्थः ॥ २।१००।३४ ॥

कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।

कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ॥ २।१००।३५ ॥

कच्चित् सर्व इति । कुलपुत्राः क्षत्त्रियकुलप्रसूताः ज्ञातय इति वा । प्रधानतः प्रधानाः । सार्वविभक्तिकस्तसिः ॥ २।१००।३५ ॥

कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान् ।

यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ २।१००।३६ ॥

कच्चिज्जानपद इति । जानपदः स्वजनपदभवः । परजनपदभवश्चेत्पक्षपातमाचरेत् । विद्वान् पराभिप्रायज्ञः । दक्षिणः समर्थः । प्रतिभानवान् प्रत्युत्पन्नमतिः, परोक्तस्याविलम्बमुचितोत्तरज्ञ इति यावत् । यथोक्तवादी उक्तमनतिक्रम्य सन्देशप्रतिसन्देशवदनशीलः । कार्योपयोगितया बहुमुखं व्याहरन्नपि स्वाम्युक्तमजहदेव व्यवहर्त्तेति यावत् । पण्डितः परिच्छेत्ता । “परिच्छेदो हि पाण्डित्यम्” इत्युक्तेः ॥ २।१००।३६ ॥

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।

त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ २।१००।३७ ॥

कच्चिदष्टादशान्येष्विति । अन्येषु परपक्षेषु । अष्टादशतीर्थानि स्वपक्षे पञ्चदशतीर्थानि च । अविज्ञातैः परस्परमन्यैश्चाविज्ञातैः । विज्ञातत्वे तेषां साङ्केतिकव्यवहारः प्रादुष्यात् । एकस्मिन् तीर्थे त्रिभिस्त्रिभिः चारकैः वेषान्तरधारिभिश्चारैः । कृत्रिमार्थे कप्रत्ययः । वेत्सि कच्चित्, एतानि न्यायतो ऽन्यायतो वा प्रवर्तन्त इति जानासि कच्चिदित्यर्थः । तानीमानि अष्टादशनीतिशास्त्रोक्तानि तीर्थानि–मन्त्रिपुरोहितयुवराजसेनापतिदौवारिकान्तर्वंशिककारागाराधिकृतार्थसञ्चयकृत्कार्यनियोजकप्राड्विवाकसेना नायकनगराध्यक्षकर्मान्तिकसभ्यधर्माध्यक्षदण्डपालदुर्गपालराष्ट्रान्तपालाः । एष्वेव मन्त्रिपुरोहितयुवराजव्यतिरिक्तानि स्वपक्षे पञ्चदशतीर्थानि । मन्त्रिपुरोहितयुवराजसेनापतयः प्रसिद्धाः । दौवारिकः अन्तःपुरादिद्वाररक्षणाधिकृतजननिर्वाहकः । अन्तर्वंशिकः अन्तःपुरकार्यनिर्वाहकः । कारागारम् अपराधिनां बन्धनगृहम्, तत्राधिकृतः कारागाराधिकृतः । अर्थसञ्चयकृत् धनाध्यक्षः । कार्यनियोजकः राजाज्ञाया बहिः प्रचारकर्ता । प्राड्विवाकः व्यवहारप्रष्टा । तल्लक्षणमुक्तम्– “विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥ " इति। सेनानायकः सेनायाः भृतिजीवनादि दानाध्यक्षः। नगराध्यक्षः रात्रौ नगरशोधननगरद्वारप्राकारादिरक्षणसंविधानादिकर्ता। कर्मान्तिकः कार्यान्ते वेतनग्राहिणां सैनिकव्यतिरिक्तानां सर्वेषां राज्ञस्सकाशात् एकधा स्वयं वेतनं गृहीत्वा प्रत्येकं तद्यो दापयति सः। सभ्यः प्रतिदिनं सभालङ्करणराजमन्त्रिप्रभृतिसमुचितासनविधानसभ्यानयनासभ्यनिरोधनयथोचितनिवेशनसभानिश्शब्दीकरणसभारक्षणादिविधायिजननिर्वाहकः। धर्माध्यक्षः दायभागादिविषये विवादं कुर्वतां विवादपदविशोधनपूर्वकं यथाधर्मशास्त्रं विवादशमनकर्ता। दण्डपालः परस्वापहरणाद्यपराधकारिणां राजाज्ञाप्रकारेण करशिरश्छेदादिविधायिजननियोजकः। दुर्गपालः गिरिजलवनादिदुर्गसन्ततरक्षकजननिर्वाहकः। राष्ट्रान्तपालः स्वराष्ट्रसीमान्ते सर्वासु दिक्षु परराजाक्रमणादिनिवारणाय सदा तद्रक्षणं कुर्वतां निर्वाहकः। स्वकीयमन्त्रिपुरोहितयुवराजा न परीक्ष्याः, तेषां सदा स्वसमीपवर्तित्वेन तत्स्वभावस्य स्वेनैव ज्ञातत्वात्। तथोक्तं नीतिशास्त्रे– “चारान् विचारनयेत्तीर्थेष्वात्मनश्च परस्य च। पाषण्डादीनविज्ञातानन्योन्यमितरैरपि ॥ मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् ॥ " इति। स्वेषु मन्त्रिणं युवराजं पुरोहितं च हित्वेत्यन्वयः। एषां तीर्थशब्दवाच्यत्वमुक्तं हलायुधे– “योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि ॥ " इति ॥ २।१००।३७ ॥

कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।

दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २।१००।३८ ॥

कच्चिद्व्यपास्तानिति । व्यपास्तान् निष्कासितान् । प्रतियातान् पुनरागतान् । अहितान् शत्रून् दुर्बलाननवज्ञाय वर्त्तसे कच्चित्, दुर्बला इत्यवज्ञां कृत्वा न वर्त्तसे कच्चिदिति भावः । प्रतियानमवष्टम्भमन्तरेण न सम्भवतीति मत्वा तेषु सावधानतया स्थातव्यमिति भावः ॥ २।१००।३८ ॥

कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।

अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ २।१००।३९ ॥

कच्चिन्नेति । लोकायतिकान् लोकेष्वायतं विस्तृतं लोकायतं प्रत्यक्षप्रमाणम् । यद्वा लोकायतशब्दाभ्यां प्रत्यक्षमनुमानं चोच्यते । लोक्यते साक्षात्क्रियते ऽनेनेति लोकेः प्रत्यक्षप्रमाणम्, आ समन्ताद्व्याप्य धूमादिसमीपवर्ती वह्न्यादिर्यत्यते गृह्यते ऽनेनेति आयतमनुमानं तदेषामस्तीति लोकायतिकाः । “अत इनिठनौ” इति ठन् प्रत्ययः । नास्तिका बौद्धचार्वाकादयः तान् ब्राह्मणान् न सेवसे कच्चित् । असेवायां हेतुमाह अनर्थेति । अर्थेषु तत्त्वार्थेषु कुशलाः यथावज्ज्ञानवन्तः ते न भवन्तीत्यनर्थकुशलाः । यद्वा अनर्थः धर्मानुष्ठानश्रद्धावैकल्यतन्मूलकसज्जनबहिष्कारनरकपतनादिः तत्र कुशलाः, दूर्बोधनेन तत्सम्पादका इत्यर्थः । बालाः तत्त्वज्ञानविरोध्यज्ञानयुक्ताः । अथ च पण्डितमानिनः अपण्डितमात्मानं पण्डितं मन्वानाः । एते अनर्थकुशला हि ॥ २।१००।३९ ॥

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।

बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २।१००।४० ॥

अनर्थकुशलत्वमेवोपपादयति–धर्मशास्त्रेष्विति । दुर्बुधाः वेदमार्गविपरीतबुद्धयः । ते मुख्येषु तामसस्मृतिपुराणादिव्यावृत्तेषु सात्त्विकमहर्षिप्रणीतेषु सज्जनादरणीयेषु । धर्मशास्त्रेषु धर्मप्रमापकशास्त्रेषु विद्यमानेषु तत्सम्प्रदायपरम्परया पठ्यमानेषु सत्सु । आन्वीक्षिकीं बुद्धिं प्राप्य शुष्कतर्कविषयां बुद्धिमास्थाय । निरर्थं निष्प्रयोजनं प्रवदन्ति । “आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥ " इति स्मृतेः ॥ २।१००।४० ॥

वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः ।

सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २।१००।४१ ॥

ब्राह्मणैः क्षत्ित्रयैर्वैश्यैः स्वकर्मनिरतैः सदा ।

जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥ २।१००।४२ ॥

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।

कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २।१००।४३ ॥

वीरैरित्यादिश्लोकत्रयमेकं वाक्यम् । अयोध्यां सत्यनामां परिरक्षसि कच्चित्, सत्यनामां “डाबुभाभ्यामन्यतरस्याम्” इति डाप् । अयोध्येति नाम सत्यं यथा भवति तथा रक्षसि कच्चिदित्यर्थः । सत्यनामात्वमूलं वीरैरध्युषितामित्यादि । तत्फलानि सत्यनामात्वादीनि । आर्यैः पूज्यैः । तत्र हेतवः स्वकर्मनिरतत्वादयः । वैद्यजनाकुलां वैद्यजनाः विद्वज्जनाः तैरावृताम् । सुमुदितां सुसन्तुष्टजनामित्यर्थः । स्फीतां समृद्धाम् ॥ २।१००।४१४३ ॥

कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः ।

देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ २।१००।४४ ॥

प्रहृष्टनरनारीकः समाजोत्सवशोभितः ।

सुकृष्टसीमा पशुमान् हिंसाभिः परिवर्जितः ॥ २।१००।४५ ॥

अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।

परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥ २।१००।४६ ॥

विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः ।

कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ २।१००।४७ ॥

कच्चिच्चित्यशतैरित्यादिश्लोकचतुष्टयमेकं वाक्यम् । चित्यशतैः चैत्यशतैरिति च पाठः । उभयत्रापि अश्वमेधान्तमहायज्ञचयनप्रदेशसमूहैरित्यर्थः । सुनिविष्टजनाकुलः सुप्रतिष्ठितजनव्याप्तः । सुप्रतिष्ठितत्वं च राजन्यत्वसुवृष्ट्यारोग्यादिदेशगुणाकृष्टचित्ततया देशान्तरजिगमिषाराहित्येन तत्रैवासक्तत्वम् । देवस्थानैः देवालयैः । प्रपाभिः पानीयशालाभिः, मार्गप्रवर्तिताभिरिति शेषः । “प्रपा पानीयशालिका” इत्यमरः । तटाकैः सस्यादिवृद्धिनिमित्तैर्महाजलाशयैः । समाजोत्सवशोभितः समाजैः धर्मनिर्णयार्थसभाभिः शोभितः । यद्वा नदीतटाकादितीरवनेषु समस्तवस्तुविक्रयसौकर्याय निखिलजनविदिततया कृतवारसङ्केतः । कृतापणो वणिजां समूहः समाज इत्युच्यते । यद्वा समाजयुक्तोत्सवशोभितः । सुकृष्टसीमा अकृष्टा ईषत्कृष्टा च भूमिर्न तत्रास्तीत्यर्थः । यद्वा सर्वदा सुकृष्टप्रायसीमा, अकृष्टपच्यभूमियुक्त इत्यर्थः । पशुमान् गवाजादिपशुसमृद्धः । हिंसाभिः ईतिभिः षड्भिः “अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः खगाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ " इत्युक्ताभिः परिवर्जितः। यद्वा परस्परहिंसारहित इत्यर्थः। अदेवमातृकः देवमातृकदेशरहितः, वृष्ट्येकनिष्पाद्यसस्यकदेशरहित इत्यर्थः। सरयूतीरस्थत्वेन सर्वतो नदीमातृक इति यावत्। “नद्यम्बुजीवनो देशो नदीमातृक उच्यते। वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातृकः ॥ " इति हलायुधः । रम्यः आरामादिशोभितत्वेन रमणीयः । श्वापदैः व्याघ्रादिहिंस्रपशुभिः परिवर्जितः । भयैः सर्वैः भयहेतुभिश्चोरादिभिः सर्वैः परित्यक्तः परितस्त्यक्तः, तत्समीपदेशेपि चोरादिभयं नास्तीत्यर्थः । खनिभिः रत्नसुवर्णरजताद्याकरैः । “खनिः स्त्रियामाकरः स्यात्” इत्यमरः । पुनः कच्चिच्छब्देन प्रतिविशेषणं प्रश्ना इति गम्यते “आद्यन्तयोः प्रयुक्तो ऽयं कुतो नान्वेति मध्यतः । प्रष्टव्यतायां तुल्यायां केनार्धजरतीक्रमः । आदरातिशयो ऽनेन श्रीमत् कोसलगोचरः । गम्यते रघुनाथस्य मुक्तिर्येनापिपीलिकम् ॥ " ॥ २।१००।४४४७ ॥

कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः ।

वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २।१००।४८ ॥

कच्चित्ते दयिता इति । कृषिगोरक्षजीविनः वैश्याः । दयिताः कश्चित् अर्थसम्पादनद्वारा अभिमताः । वार्त्तायां क्रयविक्रयात्मकवाणिज्ये सति । “वार्त्ता वागिङ्गितोदन्तवाणिज्यादिषु वर्त्तते” इति वैजयन्ती । संश्रितो लोकः त्वत्संश्रितो जनः सुखमेधते हि ॥ २।१००।४८ ॥

तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ।

रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ २।१००।४९ ॥

तेषामिति । गुप्तिपरीहारैः इष्टप्रापणानिष्टनिवारणैः । ते त्वया तेषां भरणं पोषणं कृतं कच्चित् । तस्यावर्जनीयत्वमाह रक्ष्या हीति ॥ २।१००।४९ ॥

कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।

कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ २।१००।५० ॥

कच्चित्स्त्रिय इति । स्त्रियः स्वस्त्रियः । सान्त्वयसि तदनुकूलतया वर्त्तसे । सुरक्षिताः अन्यपुरुषसम्भाषणादिभ्य इति शेषः । आसां स्त्रीणाम्, वचनमिति शेषः । न श्रद्धधासि आदरेण यथार्थबुद्ध्या न श्रृणोषीत्यर्थः । गुह्यं न भाषसे ताभ्य इति शेषः । स्त्रीणामतिचञ्चलमतित्वेन रहस्यभेदप्रसङ्गादिति भावः ॥ २।१००।५० ॥

कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः ।

कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २।१००।५१ ॥

कच्चिन्नागवनमिति । नागवनं गजोत्पत्तिस्थानभूतं वनम् । तदरक्षणे परैर्गजग्रहणप्रसङ्ग इति भावः । धेनुकाः गजग्रहणसाधनभूताः करिण्यः । “करिणी धेनुका वशा” इत्यमरः । गणिकाश्वानां गणिकाः करिण्यः “वेश्याकरिण्योर्गणिका” इति वैजयन्ती । गणिकाश्चाश्वाश्च गणिकाश्वाः तेषां गणिकाश्वानां कुञ्जराणां च न तृप्यसि कच्चित् । तत्सम्पादनविषये तृप्तिं न प्राप्नोषि कच्चिदित्यर्थः । “पूरणगुण–” इत्यादिना समासप्रतिषेधेन सूचिता षष्ठी ॥ २।१००।५१ ॥

कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।

उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २।१००।५२ ॥

कच्चिद्दर्शयस इति । विभूषितम्, आत्मानमिति शेषः । महापथे सभायामिति यावत् । प्रातः सभायां स्थित्वा मनुष्याणां विभूषितमात्मानं दर्शयसे कच्चिदिति सम्बन्धः । अन्यथा राजारोग्ये तेषां शङ्का स्यादिति भावः ॥ २।१००।५२ ॥

कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्ते ऽविशङ्कया ।

सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २।१००।५३ ॥

कच्चिन्न सर्व इति । कर्मान्ताः कर्मान्तिकाः, कर्मकरा इति यावत् । अविशङ्कया ते न प्रत्यक्षाः कच्चित्, निर्भयतया त्वत्सन्निधिं प्राप्ता न कच्चिदित्यर्थः । अथवा ते सर्वे पुनः उत्सृष्टा न कच्चित्, दर्शनाप्रदानेन परित्यक्ता न कच्चिदित्यर्थः । अविशङ्कया प्रवेशे अवज्ञादिकं सम्भवेत् । दर्शनाभावे कार्यहानिः स्यात् अतः अत्र कर्मान्तिकविषये मध्यमेव कारणम् । अतिदर्शनादर्शनयोर्मध्यमरीत्याश्रयणमेवार्थसिद्धिकारणम् । अतिदर्शने दृप्तानां तेषां स्वामिन्यनादरः स्यात् । अत्यदर्शने स्वकार्यविज्ञापनावसरालाभात्किमनेनेति कोपः स्यात् राजकार्यहानिश्च, तस्माद्यथोचितसमये दर्शनप्रदानमेवोचितमिति भावः ॥ २।१००।५३ ॥

कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।

यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २।१००।५४ ॥

कच्चित्सर्वाणीति । दुर्गाणि औदकपार्वतवार्क्षैरिणधान्वनानि । धनधान्यायुधोदकैः यन्त्रैः शिल्पिभिर्धनुर्द्धरैश्च परिपूर्णानि कच्चित् । अत्र कामन्दकः– “औदकं पार्वतं वार्क्षमैरिणं धान्वनं तथा । जलान्नायुधयन्त्राढ्यं वीरयौधैरधिष्ठितम् । गुप्तिप्रधानमाचार्या दुर्गं समनुमेनिरे ॥ " इति ॥ २।१००।५४ ॥

आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः ।

अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २।१००।५५ ॥

आय इति । आयः धनागमः कोशः सञ्चितधनम् । अपात्रेषु नटविटगायकेषु न गच्छति कच्चित् । तेभ्योपरिमितं न देयमिति भावः ॥ २।१००।५५ ॥

देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।

योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ २।१००।५६ ॥

धनव्ययस्योचितविषयमाह–देवतार्थ इत्यादिना ॥ २।१००।५६ ॥

कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा ।

अपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ २।१००।५७ ॥

कच्चिदार्य इति । विशुद्धात्मा विशुद्धस्वभावः । शुचिः करणत्रयशुद्धियुक्तः । आर्य्यः सज्जनः । यदृच्छया चोरकर्मणा । आक्षारितः अभिशस्तः । “आक्षारितः क्षारितोभिशस्तः” इत्यमरः । शास्त्रकुशलैः अपृष्टः प्रश्नेन अशोधितः सन् । लोभाद्धनलोभात् न वध्यते कच्चित् ॥ २।१००।५७ ॥

गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः ।

कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २।१००।५८ ॥

गृहीत इति । पृष्टः प्रश्नैः शोधितः । काले कालविशेषे । दृष्टः सकारणः चौर्यलब्धद्रव्यवत्तया वा दृष्टः । लोभात् मुषितं धनं तव दास्यामीति तद्दत्तधनलोभान्न मुच्यते कच्चित् ॥ २।१००।५८ ॥

व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।

अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ २।१००।५९ ॥

व्यसन इति । आढ्यस्य दुर्गतस्य दरिद्रस्य च । व्यसने विवादरूपसङ्कटे प्राप्ते । अर्थं व्यवहारम् । “अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥ " इति वैजयन्ती। विरागाः विगतधनरागाः। पश्यन्ति परीक्षन्ते कच्चित् ॥ २।१००।५९ ॥

यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।

तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥ २।१००।६० ॥

यानीति । मिथ्याभिशस्तानां राज्ञाम् अविचार्यप्रवर्तितमिथ्याभियोगानां प्रजानां यानि अस्राणि अश्रूणि पतन्ति तानि प्रीत्यर्थमनुशासतः राज्ये न्यायान्यायावविचार्य्य केवलभोगार्थं राज्यं कुर्वत इत्यर्थः ॥ २।१००।६० ॥

कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।

दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २।१००।६१ ॥

कच्चिद्वृद्धानिति । दानेन अभिमतवस्तुप्रदानेन, मनसा स्नेहेन, वाचा सान्त्ववचनेन एतैस्त्रिभिर्बुभूषसे, प्राप्तुमिच्छसि वशीकर्त्तुमिच्छसि कच्चिदिति यावत् । भू प्राप्तावात्मनेपदी इति गणपाठे पठितत्वादात्मनेपदी ॥ २।१००।६१ ॥

कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।

चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २।१००।६२ ॥

कच्चिद्गुरूनिति । चैत्यान् देवतावासभूतचतुष्पथस्थमहावृक्षान् । सिद्धार्थान् निष्पन्नप्रयोजनान् । यागादिना लब्धामुष्मिकप्रयोजनानिति यावत् ॥ २।१००।६२ ॥

कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः ।

उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २।१००।६३ ॥

कच्चिदर्थेनेति । अर्थेन धर्मं न बाधसे कच्चित् । धर्मार्जनयोग्ये पूर्वाह्णे अर्थार्जनं कृत्वा धर्मं न बाधसे कच्चिदित्यर्थः । धर्मेणार्थं न बाधसे अर्थार्जनयोग्ये अपराह्णे धर्मार्जनं कृत्वा अर्थं न नाशयसि कच्चिदित्यर्थः । प्रीतिलोभेन सुखाभिलाषेण हेतुना । कामेन सायंकालविहितेन कामेन उभौ वा न बाधसे कच्चित् । यद्वा अर्थेन हेतुना धर्मं न बाधसे कच्चित्, धर्मं हित्वा अर्थं न गृह्णासीत्यर्थः । तथा धर्मेण हेतुना कुटुम्बनिर्वाहाद्यपेक्षितमर्थं न बाधसे । धर्मार्थावुभावपि प्रीतिलोभेन सुखेच्छया कामेन च हेतुना न बाधसे, गणिकादिसक्तावुभयमपिहि नश्यति ॥ २।१००।६३ ॥

कच्चिदर्थं च धर्मं च कामं च जयतां वर ।

विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २।१००।६४ ॥

उक्तमर्थं सविशेषमाह–कच्चिदिति । अर्थं च धर्मं च कामं च सर्वान् काले विभज्य सेवसे । प्रातर्दानादिधर्मकालः, तदनन्तरम् आस्थान्यां राज्यविचारेणार्थकालः, रात्रौ कामकाल इत्येवं विभज्य सेवस इत्यर्थः । जयतां वर तेषां कालान्तरे प्रवृत्तिनिवर्तनसमर्थेत्यर्थः ॥ २।१००।६४ ॥

कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः ।

आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ २।१००।६५ ॥

कच्चित इति । शर्म सुखम् । आशंसन्ते प्रार्थयन्ते ॥ २।१००।६५ ॥

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।

अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २।१००।६६ ॥

नास्तिक्यमित्यादि । नास्ति परलोक इति मतिर्यस्य स नास्तिकः “अस्ति नास्ति दिष्टं मतिः” इति ठञ् । तस्य भावः नास्तिक्यम् । अनृतमसत्यवचनम् । क्रोधं मातापित्राचार्यब्राह्मणदुर्बलादिषु कृतापराधेष्वपि तद्विषयकं क्रोधम् । प्रमादम् अनवधानत्वम् । दीर्घसूत्रतां चिरक्रियत्वम् । “दीर्घसूत्रश्चिरक्रियः” इत्यमरः । ज्ञानवतां सज्जनानाम् । अदर्शनं दर्शनाकरणम्, ज्ञानिनां दर्शनं हि निखिलश्रेयोमूलम् । आलस्यं मदकरवस्तुसेवाजनितं कार्यापटुकरणकत्वमित्यर्थः । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् ॥ २।१००।६६ ॥

एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।

निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २।१००।६७ ॥

अर्थानामेकचिन्तनं राज्यकार्याणां मन्त्र्यनादरेण स्वयमेक एव स्थित्वा पार्यालोचनम् । अनर्थज्ञैः विपरीतार्थदर्शिभिः ॥ २।१००।६७ ॥

मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः ।

कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २।१००।६८ ॥

मङ्गलस्य प्रातर्दर्पणाद्यवलोकनस्य । अप्रयोगम् अननुष्ठानम् । मङ्गलाद्यप्रयोगमिति पाठे–अमङ्गलाचरणमित्यर्थः । सर्वतः प्रत्युत्थानं नीच स्यानीचस्याप्यागमने प्रत्युत्थानमित्यर्थः । यद्वा सर्वदिगवस्थितशत्रूद्देशेन युगपद्दण्डयात्रामिति वा । एतांश्चतुर्दशेत्यनेन अन्येषामपि बहूनां दोषाणां विद्यमानत्वम्, तेषु सर्वेषूक्तानामवश्यहेयत्वं च ज्ञायते ॥ २।१००।६८ ॥

दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वतः ।

अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २।१००।६९ ॥

दशेत्यादि । दशवर्गादिकान् बुद्ध्वा यथावदनुमन्यसे कच्चित् दशवर्गादिकान् त्याज्यत्वेनोपादेयत्वेन च ज्ञात्वा यथावदनुतिष्ठसि कच्चिदिति वाक्यार्थः । पूर्वोक्तसङ्ग्रहो ऽयमुपदेशः । दशवर्गस्तावत्– “मृगयाक्षो दिवास्वापः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गुणः ॥ " इति मनुनोक्तः। तौर्यत्रिकं नृत्यगीतवाद्यम्। वृथाट्या वृथापर्यटनम्। कामन्दकस्तु प्रकारान्तरेण लोभक्रोधालस्यासत्यवचनत्वप्रमादभीरुत्वास्थिरत्वमौढ्यानयावमन्तृत्वानि दशवर्ग इत्याशयेनाह– “लुब्धः क्रूरोऽलसो सत्यः प्रमादी भीरुरस्थिरः। मूढोऽनयोऽवमन्ता च सुखच्छेद्यो रिपुर्मतः ॥ " इति । पञ्चवर्गः पञ्च दुर्गाणि । तथाह मनुः– “औदकं पार्वतं वार्क्षमैरिणं धान्वनं तथा । शस्तं प्रशस्तमतिभिर्दुर्गं दुर्गोपचिन्तकैः ॥ " इति यद्वा पञ्चवर्गः पञ्चविधवैराणि। अत्रापि कामन्दकः “सापत्नं वस्तुजं स्त्रीजं वाग्जातमपराधजम्। वैरप्रभेदनिपुणैर्वैरं पञ्चविधं स्मृतम् ॥ " इति चतुर्वर्गः सामदानभेददण्डाः । यथा कामन्दकीये “साम दानं च भेदश्च दण्डश्चेति चतुर्विधम्” इति । यद्वा यतुर्विधमित्राणि वा । यथाह कामन्दकः– “औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ " इति। यद्वा धनानां न्यायार्जनादिधर्मचतुष्टयं वा। तदपि तत्रैवोक्तम्– “न्यायेनार्जनमर्थस्य रक्षणं वर्धनं तथा। सत्पात्रे प्रतिपत्तिश्च राज्यवृत्तं चतुर्विधम् ॥ " इति । सप्तवर्गः स्वाम्यमात्यादिः । यथोक्तम्– “स्वाम्यमात्याश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । परस्परोपकारीदं राज्यं सप्ताङ्गमुच्यते ॥ " इति यद्वा स्वपक्षस्थ्ाजनावान्तरभेदसप्तकं वा। यथाह– “निजोऽथ मैत्रश्च समाश्रितश्च सुबन्धुजः कार्य्यसमुद्भवश्च। भृत्यो गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविधं वदन्ति ॥ " इति । यद्वा प्रधानव्यूहाः सप्त वा सप्तवर्गः । यथा–“श्येनः सूची च वज्रश्च शकटो मकरस्तथा । दण्डाख्यः पद्मनामा च व्यूहाः सप्त प्रधानतः ॥ " इति अष्टवर्गमाह कामन्दकः– “कृषिवाणिज्यदुर्गाणि सेतुः कुञ्जरबन्धनम्। खन्याकरः करादानं शून्यानां च निवेशनम्। अष्टवर्गमिमं साधु स्वस्थवृत्तो न लोपयेत् ॥ " इति । यद्वा पैशुन्याद्यष्टकं वा अष्टवर्गः । यथा– “पैशुन्यं साहसं द्रोहमीर्ष्यासूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजो ऽपि गुणो ऽष्टकः ॥ " इति। ईर्ष्या क्षान्त्यभावः क्षान्तिविरोधी वा कश्चिद्गुणः, अज्ञदुर्बलकृतापराधासहिष्णुत्वमिति यावत्। असूया तु गुणेष्वपि दोषारोपः। वाक्पारुष्यं दण्डपारुष्यं च गुणद्वयम्। अथ त्रिवर्गः धर्मार्थकामाः। यद्वा उत्साहप्रभुत्वमन्त्रशक्तयस्त्रिवर्गः। यद्वा परेषां क्षयस्थानवृद्धयः। “क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” इत्यमरः। यद्वा अशक्यसमुद्यमादिकार्यव्यसनत्रयं वा। यथाह कामन्दकः– “वस्तुष्वशक्येषु समुद्यमश्च शक्येषु मोहादसमुद्यमश्च। शक्येष्वकालेषु समुद्यमश्च त्रिधैव कार्य्यं व्यसनं वदन्ति ॥ " इति । तिस्रो विद्याः त्रयीवार्त्तादण्डनीतयः “आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च” इति विद्यायाश्चतुर्विधत्वेपि आन्वीक्षिक्यास्त्रय्यामन्तर्भावः । तथाह कामन्दकः “त्रयी वार्त्ता दण्डनीतिरिति विद्या हि मानवाः । त्रय्या एव विशेषो ऽयमियमान्वीक्षिकी मता ॥ " इति। त्रयी वेदः, वार्ता कृषिगोरक्षवाणिज्यम्, दण्डनीतिः नीतिशास्त्रम् ॥ २।१००।६९ ॥

इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।

कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २।१००।७० ॥

इन्द्रियाणां जयं जयोपायम् । षड्गुणा एव षाड्गुण्यम् । स्वार्थे ष्यञ् । ते च सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः । दैवमानुषं देवमनुष्येभ्य आगतं व्यसनमित्यर्थः । दैवं मानुषं च व्यसनं प्रत्येकं पञ्चविधम् । यथाह कामन्दकीये– “हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुषं व्यसनं परम् ॥ आयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च व्यसनं पञ्चधा भवेत् ॥ " इति आयुक्तकाः अधिकारिणः। कृत्यम् अलब्धवेतनावमानितकोपितभीषितेषु शत्रुसम्बन्धिष्वभिमतवस्तुप्रदानेन कर्त्तव्यं भेदनम्। अत्राप्याह कामन्दकः– “अलब्धवेतनो लुब्धो मानी चाप्यवमानितः। क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः। यथाभिलषितैः कामैर्भिन्द्यादेतांश्चतुर्विधान् ॥ " इति । असन्धेयाः विग्राह्याः बालवृद्धादयो विंशतिविधाः । प्रतिपक्षनृपतयो विंशतिवर्ग इत्युच्यते । यथाह कामन्दकीये– “बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः । दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः । अदेशस्थो बहुरिपुर्युक्तो ऽकालेन यश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी । एतैः सन्धिं न कुर्वीत विगृह्णीयात्तु केवलम् ॥ " इति ज्ञातिबहिष्कृतः बन्धुजनबहिष्कृतः । भीरवः जनाः मन्त्रिसेनापतियोधाः यस्य सः भीरुजनकः । एवमेव लुब्धजन इत्यत्रापि । लुब्धाः अत्यन्तधनाशापराः । दैवोपहतकः महर्षिशापाद्यभिहतः । दैवचिन्तकः दैवमेव सर्वं कुर्यादिति मत्वा पुरुषव्यापारमकुर्वाणः । बलव्यसनं सेनाविलयः । अदेशस्थः प्रोषितः । अकालेन युक्तः क्रूरग्रहदशाभागादियुक्तः । यद्वा विग्रहकारणभूतो राज्यापहारादिर्विंशतिवर्गः । अत्र च कामन्दकः– “राज्यस्त्रीस्थानदेशानां ज्ञातीनां च धनस्य च । अपहारो मदो मानः पीडा वैषयिकी तथा । ज्ञानार्थशक्तिधर्माणां विघातो दैवमेव च । मित्रार्थयोश्चावमानस्तथा बन्धुविनाशनम् । भूतानुग्रहविच्छेदस्तथा मण्डलदूशणम् । एकार्थाभिनिवेशित्वमिति विग्रहयोनयः ॥ " इति। अत्रापहारशब्दः पूर्वैः षड्भिः सम्बध्यते। वैषयिकी पीडा विषयपारवश्यम्। विघातशब्दो ज्ञानादिभिश्चतुर्भिरन्वेति। दैवशब्देन देवा इन्द्रादय उच्यन्ते। तेषां विरोध्यपि विग्राह्यः। यथा दशरथस्य इन्द्रविरोधी शम्बरः। मित्रार्थयोरित्यत्र मित्रं मित्रार्थस्तदनुबन्धी चेत्यर्थः। यद्वा मित्रं मित्रस्यार्थः तद्धनम्। अर्थस्यावमानो हरणमेव। भूतानुग्रहविच्छेदः लोकानुग्रहराहित्यम्। मण्डलदूषणं मण्डलशब्देन स्वमन्त्रिसेनापतिसुहृदादिरुच्यते, तस्य दूषणं तद्विघटनम्। एकार्थाभिनिवेशित्वं स्वाभिमतविषयाभिलाषित्वम्। प्रकृतयश्च मण्डलं च प्रकृतिमण्डलम्। प्रकृतयस्तावत्– “अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः। एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ " इति कामन्दकोक्ताः । मण्डलं द्वादशविधराजात्मकम्–मध्यतो विजिगीषुः तस्य शत्रु मित्रं शत्रोर्मित्रं मित्रमित्रं शत्रुमित्रमित्रं चेति पुरोवर्तिनः पञ्च । पार्ष्णिग्राहः आक्रन्दः पार्ष्णिग्राहासारः आक्रन्दासारश्चेति पृष्ठभागस्थाश्चत्वारः । पार्श्वस्थो मध्यमः तेषां बहिरवस्थित उदासीनश्चेति । तथाच कामन्दकः– “सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥ अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥ पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरः । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥ अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्व्यस्तयोर्निग्रहे प्रभुः ॥ मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः ॥ " इति अत्र शत्रुमित्रशब्दौ पुरस्तादव्यवहितानन्तरराष्ट्राधिपतिमेकव्यवहितानन्तरराष्ट्राधिपतिं च क्रमेण वदतः । पार्ष्णिग्राहाक्रन्दशब्दावपि पृष्ठतस्तादृशौ क्रमेण वदतः नतु प्रसिद्धशत्रुमित्रपरौ । “विषयानन्तरो राजा शत्रुर्मित्रमतः परम् । उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ॥ " इत्यमरः। आसारः सुहृद्बलम्। “आसारः स्यान्मित्रबले” इति रत्नमाला। मध्यमशब्देन च अरिविजिगीषोर्व्यस्तयोः समस्तयोश्च निग्रहानुग्रहसमर्थः। पार्श्वदेशस्थः कश्चिदुक्तेभ्योऽन्यो राजोच्यते न तु मध्यवर्ती। उदासीनशब्देन च एतेषां सर्वेषामपि व्यस्तानां समस्तानां च निग्रहानुग्रहसमर्थः कश्चिद्विप्रकृष्टदेशस्थो राजोच्यते ॥ २।१००।७० ॥

यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।

कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २।१००।७१ ॥

यात्रा दण्डविधानं यात्रा यानं दण्डस्य सैन्यस्य विधानं संविधानं व्यूहभेदविधानम् । यद्वा दण्डः शत्रुनिरसनं तस्य विधानं प्रकारः । यात्रा च दण्डविधानं च यात्रादण्डविधानम् । प्रकृतिमण्डलमित्यत्रात्रचैकवद्भावः । सेनाव्यूहभेदाः पूर्वमुक्ताः शत्रुनिरसनप्रकाराश्च स्फुटाः सुज्ञेया इति यात्राशब्दितं यानं प्रदर्श्यते । तच्च पञ्चविधम्–बलातिशयेन पार्ष्णिग्राहादिभिर्विगृह्य शत्रूद्देशेन यानं विगृह्ययानम्, पार्ष्णिग्राहादिभिः सन्धिं कृत्वा शत्रूद्देशेन यानं सन्धाययानम्, सामन्तैः समेत्य यानं सम्भूययानम्, अन्योद्देशेन यात्राप्रसङ्गमुत्पाद्य अन्यं प्रति यानं प्रसङ्गतो यानम्, अन्यप्रसङ्गं कृत्वा बलवत्तया तमुपेक्ष्य तन्मित्रोद्देशेन यानमुपेक्ष्ययानमिति । यथा कामन्दकीये– “विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः । उपेक्ष्य चेति निपुणैर्यानं पञ्चविधं स्मृतम् ॥ " इति। द्वियोनी इति। सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः पृथक् पृथक् प्रतिपादिताः। इदानीं द्वैगुण्यमतावलम्बनेन यानादीन् सन्धिविग्रहयोरन्तर्भाव्य वदति। यानासने विग्रहस्य स्वरूपं द्वैधीभावसमाश्रयौ सन्धे रूपम्। तत्र विजिगीषोररिं प्रति यात्रायानं तयोर्मिथः प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम्। दुर्बलस्य प्रबलयोर्द्विषतोर्वाचिकमात्मसमर्पणं द्वैधीभावः। तथाह– “बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन्। द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः ॥ " इति । अरिणा पीड्यमानस्य बलवदाश्रयणं समाश्रय इति विवेकः । तदुक्तं कामन्दकेन– “यानासने विग्रहस्य रूपं सद्भिरिति स्मृतम् । सन्धेश्च सन्धिमार्गज्ञैर्द्वैधीभावसमाश्रयौ ॥ " इति। एतान् पूर्वोक्तान् यथावदनुमन्यसे अनुतिष्ठसि कच्चिदित्यर्थः। उक्तदशवर्गादीनां तत्त्वं ज्ञात्वा हेयान् जहासि ग्राह्यान् गृह्णासि कच्चिदिति यावत् ॥ २।१००।७१ ॥

मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।

कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथः ॥ २।१००।७२ ॥

मन्त्रिभिरिति । यथोद्दिष्टैः शास्त्रोक्तमन्त्रिलक्षणलक्षितैः । यथोद्दिष्टमिति पाठे–नीतिशास्त्रोक्तमन्त्रविचारमार्गमनतिक्रम्येत्यर्थः । बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्याभावाच्च ऽचतुर्भिस्त्रिभिरेव वाऽ इत्युक्तम् । व्यस्तैस्तत्तन्मतं परिज्ञाय समस्तैश्चतुर्भिस्त्रिभिर्वा परिगणितैर्मन्त्रिभिः मिथः रहसि मन्त्रं मन्त्रयसे कच्चित् ॥ २।१००।७२ ॥

कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः ।

कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ २।१००।७३ ॥

राज्ञामवश्यं सम्पादनीयानर्थान् पृच्छति–कच्चित्ते सफला वेदा इति । ते वेदाः त्वदधीता वेदाः सफलाः कच्चित् । अग्निहोत्राद्यनुष्ठानेन सफलीकृताः कच्चित् । क्रियन्ते साध्यन्त इति क्रियाः धनानि । धनानि त्वत्सम्पादितानि दानभोगाभ्यां सफलीकृतानि कच्चित् । ते दाराः सफलाः कच्चित् रतिपुत्राभ्यां सफलाः कच्चित् ।

ते श्रुतं शास्त्रश्रवणं सफलं कच्चित् शीलवृत्ताभ्यां सफलं कच्चित् । तथा च महाभारते– “अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ " इति ॥ २।१००।७३ ॥

कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।

आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २।१००।७४ ॥

कच्चिदेषैवेति । आयुष्या यशस्या धर्मकामार्थसंहिता उक्ता एषा बुद्धिर्मम यथा तथैव ते तव वर्तते कच्चित् ॥ २।१००।७४ ॥

यां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः ।

तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २।१००।७५ ॥

अथ उक्तानुक्तं सकलं सङ्ग्रहेण दर्शयति–यामित्यादिना । वृत्तिमाचरन् वर्तते अवर्तिष्ट । यद्वा दशरथमरणस्याज्ञातत्वात् वर्तत इत्युक्तिः । पितामहस्य अजस्य चिरं राज्यपरिपालनाभावात् प्रपितामहा इत्युक्तम् । प्रपितामहाः प्रपितामहप्रभृतयः । यथा “सप्तमी शौण्डैः” इत्यत्र “शौण्डादिभिः” इति वृत्तिकारः । अत्र अवर्तन्तेत्यध्याहार्यम् । पित्राद्यननुष्ठितस्याननुष्ठाने प्राप्ते आह–या च सत्पथगा शुभेति । सत्पथगा सन्मार्गानुसारिणी । शुभा अनिन्दिता ॥ २।१००।७५ ॥

कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।

कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ २।१००।७६ ॥

कच्चिदिति । स्वादुकृतं मधुरतया सिद्धम् । आशंसमानेभ्यः, धनमिति शेषः ॥ २।१००।७६ ॥

राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् ।

अवाप्य कृत्स्नां वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥ २।१००।७७ ॥

एवमाचरतो राज्ञः ऐहिकामुष्मिकफले दर्शयति–राजा त्वित्यादिना । तुशब्देन राजवैलक्षण्यमुच्यते । हिः प्रसिद्धौ । पालयित्वा, महीमिति शेषः । महामतिः उक्तनीतिधर्मज्ञः । दण्डधरः युक्तदण्डधरः । यथावत् पूर्वराजवत् । इतः अस्माल्लोकात् च्युतः प्रारब्धकर्मावसाने मृत इत्यर्थः । विद्वान् शरीरभिन्नात्मज्ञानवान् ॥ २।१००।७७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततमः सर्गः ॥ १०० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने शततमः सर्गः ॥ १०० ॥