०९९ श्रीरामदर्शनम्

निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।

जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ २।९९।१ ॥

अथ भरतस्य रामसङ्गम एकोनशततमे–निविष्टेत्यादिना । निविष्टायां सेनायाम्, स्वयं तत्र क्षणं निविष्टः सन् । उत्सुकः साभिलाषः । शत्रुघ्नमनुदर्शयन् । अनुः कर्मप्रवचनीयः । शत्रुघ्नस्य रामाश्रमसामीप्यचिह्नानि प्रदर्शयन् जगाम ॥ २।९९।१ ॥

ऋषिं वसिष्ठं सन्दिश्य मातृ़र्मे शीघ्रमानय ।

इति त्वरितमग्रे स जगाम गुरुवत्सलः ॥ २।९९।२ ॥

ऋषिमिति । मातृ़र्मे शीघ्रमानयेति ऋषिं वसिष्ठं सन्दिश्य जगामेत्यन्वयः । अनेन रामावासं निश्चित्य पश्चादानेष्यामीति धिया महासेनानिवेशे मातृ़र्निवेशितवानिति गम्यते ॥ २।९९।२ ॥

सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत ।

रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ २।९९।३ ॥

तत्पश्चात् शत्रुघ्नः तत्पश्चात्सुमन्त्रश्च गत इत्याह–सुमन्त्र इति । सुमन्त्रोप्यदूरात् समीपे शत्रुघ्नमन्वपद्यत अन्वगच्छत् । तत्र हेतुमाह रामेति । रामदर्शनजस्तर्षः रामदर्शनमुद्दिश्य जनितो ऽभिलाषः । “कामो ऽभिलाषस्तर्षश्च” इत्यमरः । तस्य शत्रुघ्नस्यच चकारात् सुमन्त्रस्य चास्ति हीत्यर्थः । सुमन्त्रस्यत्वरितागमनात् वसिष्ठ एव मात्रानयने नियुक्त इत्यावेदितम् ॥ २।९९।३ ॥

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् ।

भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ २।९९।४ ॥

गच्छन्निति । तापसालयसंस्थितां तापसालयानां मध्ये स्थिताम्, तापसालयसमानसंस्थानामिति वार्थः । पर्णकुटीम् अग्न्यगारभूतां पर्णशालाम् । उटजं दिदृक्षया समागतैः तापसैः सह सुखावस्थानार्थमुपकल्पितां पर्णशालाम् । यद्वा भ्रातुः पर्णकुटी सीतया सह शयनार्थं निर्मितां पर्णशालाम् । श्रीमान् तादात्विकप्रीतिजनितकान्तिमान् । उटजं दिवावस्थानार्थं कल्पितं पर्णमण्डपम् । यद्वा पर्णशालां महाशालाम् । उटजं तन्मध्यर्तिसदावस्थानास्थानम् । तथैव वक्ष्यति ददर्श महतीमित्यादिना । ददर्श चिह्नैरुत्प्रेक्षितवान् ॥ २।९९।४ ॥

शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा ।

काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ २।९९।५ ॥

चिह्नान्येवाह–शालाया इत्यादिना । काष्ठानि शत्रौ प्रकाशाय ज्वलनीयानि । पुष्पाणि पूजार्थानि ॥ २।९९।५ ॥

सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुषः ।

कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥ २।९९।६ ॥

सलक्ष्मणस्येति । ईयुषः जलाशयादाश्रमं गच्छतो रामस्य । “उपेयिवाननाश्वाननूचानश्च” इत्यत्र नात्रोपसर्गस्तन्त्रम् । अन्योपसर्गपूर्वान्निरुपसर्गाच्च भवत्येवेति वृत्तिकृतोक्तत्वादनुपसर्गपूर्वादिणः क्वसुः । कुशादिभिः कृतम् अभिज्ञानं चिह्नम्, अन्योन्यस्य गमनागमनपरिज्ञानार्थं कृतं चिह्नं ददर्श ॥ २।९९।६ ॥

ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान् ।

मृगाणां महिषाणां च करीषैः शीतकारणात् ॥ २।९९।७ ॥

ददर्श चेति । करीषैः कृतान् सञ्चयानित्यन्वयः । शीतकारणात् शीतनिवारणार्थम् ॥ २।९९।७ ॥

गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा ।

शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ २।९९।८ ॥

गच्छन्निति । अमात्यान् सुमन्त्रम्, बहुवचनं पूजार्थम् । यद्वा अनेनैवावगम्यते अन्येप्यमात्याः सुमन्त्रेण सहागता इति ॥ २।९९।८ ॥

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।

नातिदूरे हि मन्ये ऽहं नदीं मन्दाकिनीमितः ॥ २।९९।९ ॥

मन्य इति । इतः अस्मात्प्रदेशात् । मन्दाकिनीं नातिदूरे मन्ये, प्रत्यासन्नां मन्य इत्यर्थः । अतः यं देशं भरद्वाजो ऽब्रवीत् तं देशं प्राप्ताः स्मेति मन्ये । प्राप्ताः स्मेत्येव वक्तव्ये मन्य इत्युक्त्या अयमर्थो ऽवगम्यते–कैकेय्या राजन्नित्याहूतस्य भाग्यहीनस्य मे नेयं तद्देशप्राप्तिर्भवितुमर्हति किन्तु भ्रमस्वप्नादिष्वन्यतमो ऽयमिति ॥ २।९९।९ ॥

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।

अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ २।९९।१० ॥

उच्चैरिति । उच्चैर्बद्धानि चीराणि उन्नतप्रदेशे चीराणि बद्धानि दृश्यन्ते तस्मादयं पन्थाः विकाले अकाले सायङ्कालादौ गन्तुमिच्छता फलमूलजलादिसङ्ग्रहणार्थं गन्तुमिच्छता लक्ष्मणेनाभिज्ञानकृतः कृताभिज्ञानो भवेत्, अतो ऽनेनैवास्माभिर्गन्तव्यमिति भावः ॥ २।९९।१० ॥

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् ।

शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ २।९९।११ ॥

मार्गचिह्नकरणं गजपदमर्दनक्लिष्टत्वेन दुर्ज्ञानत्वादित्याशयेनाह–इदं चेति । उदात्तदन्तानां महादन्तानाम् । “महत्युदात्त उच्चोक्तौ” इति वैजयन्यी । तरस्विनां वेगवताम् । अन्योन्यमभिगर्जताम् अन्योन्यं प्रतिगर्जताम् । कूञ्जराणां गजानाम् । शैलपार्श्वे परिक्रान्तमिदं परिक्रमणस्थानमिदम् । “क्तो ऽणिकरणे च” इत्यधिकरणे क्तः । इदमेषामासितमित्यादिवत् । अस्मिन्मार्गे कुञ्जराः परिक्रान्ता इत्यर्थः । अन्योन्यकोपातिशयेन वेगाद्दन्तादन्तिप्रहारं कुर्वतामाश्रमप्रवेशस्याशक्यत्वादाश्रमप्रान्तगमनमाश्रमप्रदेशं सूचयतीत्यर्थः ॥ २।९९।११ ॥

यमेवाधातुमिच्छन्ति तापसाः सततं वने ।

तस्यासौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः ॥ २।९९।१२ ॥

रामाश्रमस्यात्यन्तसन्निहितत्वज्ञापकं धूमबाहुल्यं दर्शयति–यमिति । तापसाः यमग्निमाधातुमिच्छन्ति सायंप्रातर्होमार्थं सर्वदा रक्षितुमिच्छन्ति तस्य कृष्णवर्त्मनः सङ्कुलो ऽसौ धूमो दृश्यते । पचनाग्नेर्होमाग्नेश्च व्यावृत्तं सन्ततस्थायिगार्हपत्याग्निं दर्शयितुं सङ्कुलशब्दः, अतिनिबिड इत्यर्थः । पचने ज्वालानां होमे च अङ्गाराणामपेक्षितत्वान्न तदा धूमनिबिडसम्भव इति भावः । अनेन रामस्याग्न्याधानाभावाच्छ्रौताग्रिरत्र नोच्यते किन्तु धार्यः स्मार्ताग्निः । यदि हि तस्य त्रेताग्निः स्यात् तदा “रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् । अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम् ॥ " इति चरमयात्रायामग्निहोत्रपुरस्कारश्रवणाद्वनयात्रायामपि तथा दृश्येत। अनुसरन्तोपि हि पौरवृद्धाः साग्नय एव समागता इत्युच्यन्ते। किञ्च “दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ " इति सीतामनोरथश्रवणाद्राज्याभिषेकात्पूर्वं न यज्ञो ऽनुष्ठित इति गम्यते । ततो ऽयमग्निर्गृह्याग्निरेव । न च तस्याप्यानयनं न पूर्वमुक्तमिति वाच्यम् तस्यात्मसमारोपणेनानेतुं शक्यत्वात् । न च आत्मसमारोपणेपि सायम्प्रातर्होमः कार्यः, स तु नोक्तः । प्रत्युत तमसातीरे गङ्गाकूले वृक्षमूले भरद्वाजाश्रमे यमुनातटे च सन्ध्यावन्दनमेवोक्तम् । अत्र च श्लोके तापसवनशब्दाभ्यां वने तापसानां शीतनिवारणप्रकाशकरणकन्दमूलादिपचनसाधनतया सङ्ग्राह्य एवाग्निरुच्यत इति वक्तुं शक्यते । आधातुं सङ्ग्रहीतुमित्यर्थः । अतो ऽयमग्निः पचनाद्यर्थ एव नतु धार्यः स्मार्ताग्निरिति चेत् । न “प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्” इति वक्ष्यमाणविरोधात् । न ह्यसंस्कृताग्नेर्वेदिसम्बन्धः प्रसिद्धः । प्रागुदक्प्रवणत्वादिवेदिलक्षणं चोच्यमानं वेदिं तत्स्थमग्निं च संस्कृताववगमयति । यद्येवं कथं तर्हि सायंप्रातर्होमावचनमिति चेत् ? नह्येकं स्वच्छन्दगामिना मुनिना असत्यामिच्छायामसति च फले पुनःपुनर्वक्तव्यम् । वक्ष्यति तु उपरिष्टात् सुतीक्ष्णाश्रमे– “अथ ते ऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वन । उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमभिगम्यैवमिदं वचनमुब्रुवन् ॥ " इति। अत्रानुदितहोमपक्षेण उदयात्पूर्वमग्निकार्यवचनादग्निमित्येकवचनाच्च औपासनं सम्यगुक्तमिति। एवमेव सर्वत्र द्रष्टव्यमिति। अत्रचाग्निकार्ये रामस्य साक्षात्प्रधानकर्तृत्वेन सीतायाः सहभावेन प्रणयनादिना च लक्ष्मणस्य समिदादिसंपादनरूपसहकारित्वेन चान्वय इति ज्ञेयम्। तपस्विशरणे वन इत्यनेनातिसङ्कटदेशेपि यथावदनुष्ठानश्रद्धाविशेष उच्यते। अतश्चतुर्दशसु वनवाससंवत्सरेषु सीताहरणपर्यन्तं रामस्य चित्रकूटादिपञ्चवट्यन्तेषु प्रदेशेषु यत्र माससंवत्सरादिवासेन चिरकालावस्थानं तत्र बहिः स्मार्तनित्याग्निधारणम्।

अन्यत्रात्मनि समिधि वा समारोप्य होमकाले ऽवरोप्य सायंप्रातरौपासनमिति दिक् । अस्मिन् श्लोके च तापसा यमाधातुमिच्छन्तीत्यस्यार्थश्च वर्णितः । तेन च रामाश्रमचिह्नत्ववत्पावनत्वमप्युक्तं भवति ॥ २।९९।१२ ॥

अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम् ।

आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ २।९९।१३ ॥

अत्रेति । गुरुसंस्कारकारिणं गुरुसंस्कारः श्रेष्ठसंस्कारः, मन्त्रोपदेशादिः तत्कारिणम् ॥ २।९९।१३ ॥

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः ।

मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ २।९९।१४ ॥

अथेति । राघवः भरतः । तं जनं सहागतं शत्रुघ्नादिकम् ॥ २।९९।१४ ॥

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः ।

जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ २।९९।१५ ॥

जगत्यामित्यादि । जगत्यां भूमौ । वीरासने दक्षिणजानूपरिन्यस्तवामपादतया ऽवस्थाने । धिङ्मे जन्म सजीवितमिति मे जन्म प्राणनं च धिगित्यर्थः ॥ २।९९।१५ ॥

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः ।

सर्वान् कामान् परित्यज्य वने वसति राघवः ॥ २।९९।१६ ॥

मत्कृते व्यसनं प्राप्तः कैकेय्या मम राज्यप्रापणकृते राज्यभ्रंशरूपव्यसनं प्राप्तः ॥ २।९९।१६ ॥

इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् ।

रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ २।९९।१७ ॥

इति लोकसमाक्रुष्टः एवं प्रकारेण लोकैरपवादं प्रापितः । प्रसादयन् प्रसादनाद्धेतोः लक्ष्मणस्य चेति तस्य कनिष्ठत्वेपि कार्य्यगौरवात्पादपतनम् । यदि मया प्रसाद्यमाने रामे लक्ष्मणः कैकेयीकृतापकारं मय्यारोप्य मा प्रसीदेति रामं निरुन्ध्यात्तर्हि लक्ष्मणस्यापि पादयोर्निपत्य तमपि प्रसादयिष्यामि । यदि रामप्रसादनरूपं कार्यं केवलं सुसाधितं भवेत् तदानीं कनिष्ठपादपतनं दोषायेति भरतहृदयम् । (सीतायाश्च पुनःपुनरिति पाठः । सीताया लक्ष्मणस्य चेति पाठे रामभक्तत्वेन वयो नादृतमिति बोध्यम् । न “परीक्ष्यवयोवन्द्याः” इति स्मरणात्) ॥ २।९९।१७ ॥

एवं स विलपंस्तस्मिन् वने दशरथात्मजः ।

ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ २।९९।१८ ॥

एवमित्यारभ्य गुहामिवेत्यन्तमेकं वाक्यम् ॥ २।९९।१८ ॥

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।

विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ २।९९।१९ ॥

सालो ऽश्वकर्णादन्यो वृक्षः । अश्वकर्णः सर्जतरुः । तालो मृदुपर्णः श्रीतालः ॥ २।९९।१९ ॥

शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः ।

रुक्मपृष्टष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥ २।९९।२० ॥

कार्मुकैरिति बहुवचनादभ्यासयोग्यं कार्मुकान्तरमस्तीति गम्यते । भारसाधनैः गुर्ववयवैः । यद्वा अतिगुरुतररणकार्यसाधनूभूतैः । यद्वा भारो धनुःपरिमाणविशेषः । यथोक्तं धनुर्वेदे ईशानसंहितायाम्– “भारं पलशतं विदुः । तेन भारेण चापानां प्रमाणमुपलभ्यते” इति । रुक्मपृष्ठैः कनकानुलिप्तपृष्ठप्रदेशैः । महासारैः महास्थिरांशैः । “सारो बले स्थिरांशे च” इत्यमरः ॥ २।९९।२० ॥

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः ।

शोभितां दीप्तवदनैः सर्प्पैर्भोगवतीमिव ॥ २।९९।२१ ॥

भोगवती सर्प्पनगरी ॥ २।९९।२१ ॥

महारजतवासोभ्यामसिभ्यां च विराजिताम् ।

रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २।९९।२२ ॥

महारजतवासोभ्यां स्वर्णमयकोशाभ्याम् । रुक्मबिन्दुविचित्राभ्यां शोभाविशेषाय मध्येमध्ये शिल्पिनिर्मितकनकबिन्दुविचित्राभ्याम् । (आत्मबिन्दुविचित्राभ्यां व्याघ्रचर्मकृततया स्वाभाविकनानावर्णबिन्दुविचित्राभ्याम् ।) चर्मभ्यां खेटकाभ्याम् । “खेटकं फलकं चर्म” इति हलायुधः ॥ २।९९।२२ ॥

गोधाङ्गुलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः ।

अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहामिव ॥ २।९९।२३ ॥

गोधाङ्गुलित्रैः गोधा ज्याघातवारणम् । अङ्गुलित्रम् अङ्गुलित्राणम् । उपलक्षणे तृतीया । शोभितामित्यनुकर्षो वा । अनाधृष्याम् अप्रधृष्याम् ॥ २।९९।२३ ॥

प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् ।

ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २।९९।२४ ॥

प्रागुदक्प्रवणां प्रागुदग्भागे क्रमनिम्नाम् । “प्रवणो दक्षिणे प्रह्वे क्रमनिम्ने चतुष्पथे” इति वैजयन्ती । तत्र रामनिवेशने, पूर्वोक्तपर्णशालायामित्यर्थः ॥ २।९९।२४ ॥

निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम् ।

उटजे राममासीनं जटामण्डलधारिणम् ॥ २।९९।२५ ॥

निरीक्ष्येति । जटामण्डलधारित्ववैलक्षण्येन निश्चयार्थं मुहूर्त्तं निरीक्ष्य तेजोविशेषेण सामान्येन स्वगुरुं ज्ञातवानित्यर्थः । अस्मिन् श्लोके उत्तरार्धे जटामण्डलधारिणमित्यत्रणकारो गायत्र्याः सप्तमाक्षरः । षट्सहस्रं श्लोका गताः ॥ २।९९।२५ ॥

तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ।

ददर्श राममासीनमभितः पावकोपमम् ॥ २।९९।२६ ॥

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् ।

पृथिव्याः सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ २।९९।२७ ॥

विशेषतो दर्शनमाह–तं त्वित्यादिना । महार्हवसनोपेतस्य इदानीं ततो वैलक्षण्यमाह तं त्विति । तदेव वैलक्षण्यं दर्शयति कृष्णाजिनधरमिति । कृष्णाजिनधरम् उत्तरीयतया कृष्णाजिनधरम् । अधराम्बरत्वेन चीरवल्कलवाससम् । कृष्णाजिनधरं चीरवल्कलवाससं पूर्वस्माच्छोभाविशेषयुक्तम् । रामं वल्कलादिधारणेप्यपरावर्तमानं रामणीयकमुच्यते । आसीनं किञ्चिदासनमास्थायात्मानं ध्यायन्तम् । अभितः पावकोपमं तादृशतपोविशेषेण समन्तात्तेजः परिवृतम् । यद्वा “नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा” इत्युक्तरीत्या विद्युल्लेखामध्यवर्त्तिनीलतोयदमिव स्थितमित्यर्थः । यद्वा विरोधिनामनभिभवनीयमित्यर्थः । यद्वा उटजे राममासीनम् अयोध्यास्थितसमाजापेक्षया अल्पतरापीयं सभा महती जाता । कुतः ? अभितः पावकोपमं तत्सभायां समीपस्थस्य भ्रातुरपि ह्यत्र समीपमागन्तुं न शक्यते, न हि ज्वलत्यनले कस्यापि समीपमागन्तुं न शक्यते, न हि ज्वलत्यनले कस्यापि समीपमागन्तुं शक्यम् । यद्वा उटजे राममित्यत्र रामं श्यामम् । अधोरामौ सावित्रावित्यत्र तथाप्रयोगात् । यद्वा पावकोपमं दुर्दर्शमित्यर्थः । अत एव पूर्वश्लोके निरीक्ष्य स मूहर्तमित्युक्तम् ॥ २।९९।२६२७ ॥

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् ।

स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २।९९।२८ ॥

ब्रह्मापेक्षयास्य वैलक्षण्यमुच्यते शाश्वतमिति । स्थण्डिले भूतौ ॥ २।९९।२८ ॥

तं दृष्ट्वा भरतः श्रीमान् दुःखशोकपरिप्लुतः ।

अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ २।९९।२९ ॥

तमिति । द्वितीयो भरतशब्द उत्तरश्लोकेन सम्बध्यते ॥ २।९९।२९ ॥

दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा ।

अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ २।९९।३० ॥

दृष्ट्वेति । दृष्ट्वैव दर्शनमात्रेणेत्यर्थः । आर्तः खिन्नः । तामार्त्तिं धारयितुमशक्नुवन् । बाष्पसन्दिग्धया शोकोष्मणा सन्दिग्धवर्णया गिरा उपलक्षितः ॥ २।९९।३० ॥

यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् ।

वन्यैर्मृगैरुपासीनः सो ऽयमास्ते ममाग्रजः ॥ २।९९।३१ ॥

य इति । संसदि सभायाम् । युक्तः अर्हः ॥ २।९९।३१ ॥

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः ।

मृगाजिने सो ऽयमिह प्रवस्ते धर्ममाचरन् ॥ २।९९।३२ ॥

अधारयद्यो विविधाश्चित्राः सुमनसस्तदा

सो ऽयं जटाभारमिमं वहते राघवः कथम् ॥ २।९९।३३ ॥

वासोभिरिति । बहुसाहस्रैः बहुसहस्रमूल्यैः । उचितः, अलङ्कर्तुमिति शेषः । षष्ठ्यर्थे तृतीया वा । मृगाजिने मृगचर्मणी । प्रवस्ते आच्छादयति ॥ २।९९।३२३३ ॥

यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चयः ।

शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ २।९९।३४ ॥

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् ।

मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ २।९९।३५ ॥

मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः ।

धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ २।९९।३६ ॥

इत्येवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः ।

पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ २।९९।३७ ॥

दुःखाभितप्तो भरतो राजपुत्रो महाबलः ।

उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ २।९९।३८ ॥

यस्येति । यथोद्दिष्टैः यथाविहितैः । यथादृष्टैरिति पाठे–शास्त्रेष्विति शेषः । युक्तः योग्यः ॥ २।९९।३४३८ ॥

बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।

आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ २।९९।३९ ॥

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।

तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ २।९९।४० ॥

वक्तुमशक्यत्वे हेतुमाह–बाष्पापिहितकण्ठ इत्यादिना । बाष्पापिहितकण्ठः बाष्पनिरुद्धकण्ठः ॥ २।९९।३९४० ॥

ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये ।

दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ २।९९।४१ ॥

तत इति । राजसुतौ रामलक्ष्मणौ ॥ २।९९।४१ ॥

तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये ।

वनौकसस्ते ऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ २।९९।४२ ॥

तानिति । तान् तादृशसुखयुक्तान् । समागतान् सङ्गतान् ॥ २।९९।४२ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनशततमः सर्गः ॥ ९९ ॥