निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः ।
अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥ २।९८।१ ॥
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् ।
भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २।९८।२ ॥
अथ भरतस्य रामप्राप्तिरष्टनवतितमे सर्गे–निवेश्येत्यादिना । गुरुवर्तकं गुरुवचनानुवर्तकम् ॥ २।९८।१२ ॥
क्षिप्रं वनमिदं सौम्य नरसङ्घैः समन्ततः ।
लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ २।९८।३ ॥
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा ।
समन्वेषतु काकुत्स्थावस्मिन् परिवृतः स्वयम् ॥ २।९८।४ ॥
क्षिप्रमिति । लुब्धैः व्याधैः ॥ २।९८।३४ ॥
अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः ।
वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम् ॥ २।९८।५ ॥
अमात्यैरिति । अमात्यैः सह पौरेः सह । गुरुभिः द्विजातिभिश्च परिवृतः पद्भ्यां सर्वं वनं चरिष्यामीति सम्बन्धः ॥ २।९८।५ ॥
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् ।
वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ २।९८।६ ॥
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् ।
भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ २।९८।७ ॥
यावदिति । शान्तिः दुःखशान्तिः मङ्गलं वा । “शान्तिः प्रशममङ्गले” इति वैजयन्ती ॥ २।९८।६७ ॥
यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ ।
शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ २।९८।८ ॥
यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः ।
अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति ॥ २।९८।९ ॥
यावदिति । पार्थिवव्यञ्जनान्वितौ वज्रध्वजारविन्दाङ्कुशसुधाकलशादिमहाराजलक्षणयुक्तौ चरणौ यावन्न शिरसा धारयिष्यामि तावत्पर्यन्तं मे शान्तिर्न भविष्यति । यदा रामः स्वयोग्यसिंहासनाधिराज्यमौलिं धृत्वा मम योग्यं श्रीपादाख्यमौलिं ददाति तदा मे सकलदुःखशान्तिर्भविष्यतीति भावः ॥ २।९८।८९ ॥
सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम् ।
मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ २।९८।१० ॥
सिद्धार्थ इति । चन्द्रविमलोपमं निर्मलचन्द्रसदृशम् ॥ २।९८।१० ॥
कृतकत्या महाभागा वैदेही जनकात्मजा ।
भर्तारं सागरान्तायाः पृथिव्या या ऽनुगच्छति ॥ २।९८।११ ॥
महाकुलप्रसूता वैदेही महाभागा महाभाग्यवता । कृतकृत्या कृतार्था च । तत्फलं तद्धेतुं चाह भर्तारमिति । पृथिव्या भर्तारमित्यन्वयः ॥ २।९८।११ ॥
सुभगश्चित्रकूटो ऽसौ गिरिराजोपमो गिरिः ।
यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥ २।९८।१२ ॥
सुभग इति । असौ चित्रकूटः । सुभगः भाग्यशाली । गिरिराजोपमश्च गिरिराजोपमः हिमवत्पर्वतसदृशः । नन्दने नन्दयतीति नन्दनं चैत्ररथम् । सुभग इत्यादि सुभगः प्रदेशान्तरेभ्यो ऽतिरमणीयः । सुभगः सर्वेषामुद्देश्यतमः । अत्र हेतुं यस्मिन्नित्युत्तरार्धे वक्ष्यति । चित्रकूटः स्वभावतोपि रमणीयः । असौ गिरिः अयोध्यां परित्यज्यापि रामेण आदरणीयः । यद्वा गिरिराजोपमः गिरिराजो ऽत्र श्रीनिवाससान्निध्यस्थानभूतो वेङ्कटाचलः । तत्र उभयत्र हेतुमाह यस्मिन्निति । काकुत्स्थः अयोध्याधिपतिः स्वदेशं विहाय अपरिचिते यस्मिन् वसति । तत्रानुरूपं दृष्टान्तमाह कुबेर इति । चैत्ररथवासयोग्यः कुबेरः इन्द्रोद्याने नन्दन इव । यद्वा स्वगृहं विहाय स्वगृहोद्याने विहरमाणो वैश्रवण इव वसतीत्यर्थः । ऽइक्ष्वाकूणामियं भूमिं सशैलवनकाननाऽ इत्युक्तेश्चित्रकूटोपि रामविषयो हि, नन्दनोपमानेन रामस्य चित्रकूटे भोग्यताप्रकर्ष उच्यते । काकुत्स्थः ककुत्स्थकुलोद्भवः । यथा स्वकुलमकृतार्थयत् तथा स्ववासस्थलमप्यकृतार्थयदिति भावः । यद्वा कुबेर इव नन्दने भूवाचकेन कुशब्देन जगदुपलक्ष्यते, बेरं शरीरं कुबेरो जगच्छरीरः परमात्मा । नन्दन इव वैकुण्ठनन्दनवन इव ॥ २।९८।१२ ॥
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् ।
यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥ २।९८।१३ ॥
कृतेति । कृतकार्यं कृतार्थम् । दुर्गं दुष्प्रवेशम् । व्यालनिषेवितं दुष्टसर्पाश्रितम् । कृतकृत्यत्वे हेतुः यदित्यादि । वनं दुर्गमिति स्थलस्वभावेन वासानर्हत्वमुक्तम् । महातेजा इत्यादिना रामवैभवापेक्षयापि वासानर्हत्वमुच्यते ॥ २।९८।१३ ॥
एवमुक्त्वा महातेजा भरतः पुरुषर्षभः ।
पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ॥ २।९८।१४ ॥
एवमिति । महातेजा इत्यादिना पद्भ्यां गमनानर्हत्वमुच्यते ॥ २।९८।१४ ॥
स तानि द्रुमजालानि जातानि गिरिसानुषु ।
पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ २।९८।१५ ॥
स इति । द्रुमजालानि मध्येन द्रुमजालानां मध्येनेत्यर्थः । मध्यशब्दस्य दिग्वाचित्वात् “एनपा द्वितीया” इति द्वितीया । वदतां वर इत्यनेन रामसन्निधौ वक्तव्यविशेषं चिन्तयन्नेव जगामेत्युक्तम् ॥ २।९८।१५ ॥
स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् ।
रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम् ॥ २।९८।१६ ॥
स इति । अग्नेर्ध्वजं धूमम् । पूर्वं धूमाग्रदर्शनम् अधुना समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्तिः ॥ २।९८।१६ ॥
तं दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः ।
अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥ २।९८।१७ ॥
तमिति । मुमोह मोहसदृशं पारवश्यं प्राप । मुमोदेति च पाठः । अम्भसः समुद्रस्य पारं गत इव, अभूदिति शेषः ॥ २।९८।१७ ॥
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम् ।
गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ २।९८।१८ ॥
स इति । निशम्य दृष्ट्वा । दीर्घाभाव आर्षः । तत्समीपस्थजनेभ्यः श्रुत्वेति वार्थः । अत एव पुण्यजनोपपन्नमित्युच्यते । गुहेनेति प्रधानजनोपलक्षणपरम् । चमूं पुनर्निवेश्य अन्वेषणार्थमागतां चमूमपि स्थापयित्वा । महात्मा दृढाध्यवसायः ॥ २।९८।१८ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितमः सर्गः ॥ २।९८।१८ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टनवतितमः सर्गः ॥ ९८ ॥