०९६ भरतविषये रामलक्ष्मणसंवादः

तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।

निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ २।९६।१ ॥

एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरति–तामित्यादिना । गिरिनिम्नगां गिरिनदीम् । मांसेन छन्दयन् वशीकुर्वन् । “वशाभिप्राययोश्छन्दः” इति वैजयन्ती ॥ २।९६।१ ॥

इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।

एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ २।९६।२ ॥

वशीकरणप्रकारमाह–इदमित्यादिना । इदं मांसं मेध्यं शुद्धम्, निर्मलमिति यावत् । स्वादु रसवत् । निष्टप्तं प्रतप्तम् । इदंशब्देन स्वभुक्तशेषमिति गम्यते । एवमास्ते एवं ब्रुवन्नास्य इत्यर्थः ॥ २।९६।२ ॥

तथा तत्रासतस्तस्य भरतस्योपयायिनः ।

सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ २।९६।३ ॥

तथेति । तथा उक्तरीत्या । तत्र गिरिप्रस्थे । तस्य आसतः तस्मिन्नासीने सति । सैन्यरेणुः शब्दः सैन्यशब्दश्चोभौ नभस्स्पृशौ सन्तौ प्रादुरास्ताम् ॥ २।९६।३ ॥

एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः ।

अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ॥ २।९६।४ ॥

एतस्मिन्निति । एतस्मिन्नन्तरे अस्मिन् शब्दश्रवणसमये । ततः तेन ॥ २।९६।४ ॥

स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः ।

तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ २।९६।५ ॥

स इति । सैन्यसमुद्धूतं सैन्योत्पादितम् ॥ २।९६।५ ॥

तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।

उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ २।९६।६ ॥

तानिति । दीप्ततेजसमित्यनेन वक्ष्यमाणावेक्षणक्षमत्वमुच्यते ॥ २।९६।६ ॥

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।

भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ॥ २।९६।७ ॥

हन्तेति । व्यप्रतायामव्ययं वाक्यारम्भे वा । “वाक्यारम्भे ऽनुकम्पायां हन्त हर्षविषादयोः ।” इति वैजयन्ती । पश्य वृक्षमारुह्य प्रेक्षस्व । सुमित्रा सुप्रजास्त्वया त्वया सुमित्रा सत्पुत्रेति सान्त्वोक्तिः । भीमस्तनितगम्भीरः भयङ्करमेघनिर्घोषवद्गम्भीरः । महीस्तनितगम्भीर इति पाठे–भूकम्पजनितशब्दवत् गम्भीर इत्यर्थः ॥ २।९६।७ ॥

गजयूथानि वा ऽरण्ये महिषा वा महावने ।

वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ॥ २।९६।८ ॥

गजयूथानीति । मृगा इत्यत्रापि वाशब्दः सम्बन्धनीयः ॥ २।९६।८ ॥

राजा वा राजमात्रो वा मृगयामटते वने ।

अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ २।९६।९ ॥

राजेति । राजमात्रः राजतुल्यः । कश्चिन्मृगयामुद्दिश्य अटते । आत्मनेपदमार्षम् । श्वापदं व्याघ्रादिहिंस्रपशुः । नपुंसकत्वमार्षम् । “व्याघ्रादयो वनचराः पशवः श्वापदा मताः” इति हलायुधः । अन्यो वा यःकश्चित् श्वापदः अटत इति सम्बन्धः ॥ २।९६।९ ॥

सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।

सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ २।९६।१० ॥

सुदुश्चर इति । अयं गिरिः पक्षिणामपि सुदुश्चरो वर्त्तते, पक्षिसञ्चारोपीदानीं नास्तीत्यर्थः । सर्वमेतत्पूर्वोक्तकारणेष्वन्यतमं ज्ञातुमर्हसीत्यर्थः ॥ २।९६।१० ॥

स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् ।

प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमुदैक्षत ॥ २।९६।११ ॥

स इति । पुष्पितमित्यनेन विरलपत्रतया ऽनावारकत्वमुक्तम् । सर्वा दिशः प्रेक्षमाणः सामान्येन प्रेक्षमाणः सन् पूर्वां दिशमुदैक्षत सविशेषमलोकयत् ॥ २।९६।११ ॥

उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् ।

रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः ॥ २।९६।१२ ॥

तत्र हेतुदर्शनमाह–उदङ्मुख इत्यादिना । यत्तैः सन्नद्धैः ॥ २।९६।१२ ॥

तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।

शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ २।९६।१३ ॥

तामिति । रथध्वजविभूषितां रथबद्धध्वजैरलङ्कृताम् ॥ २।९६।१३ ॥

अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् ।

सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ २।९६।१४ ॥

अग्निमिति । अग्निं संशमयतु, अन्यथा धूमानुसारेणागच्छेत्सेनेति भावः । सत्यं ज्यया मौर्व्या सहितं कुरुष्व, शरांश्च कवचं तथा शरांश्च कवचं च, गृहाणेति शेषः । यद्वा कुरुष्वेत्यनुषङ्गः । करोतेः क्रियासामान्यवाचित्वात् औचित्येन शरान् गृहाण कवचं धारयेत्यर्थः ॥ २।९६।१४ ॥

तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।

अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ २।९६।१५ ॥

तमिति । तम् एवं समीक्ष्य वदन्तम् । पुरुषव्याघ्रः समीक्ष्यकारीति भावः । अङ्गेति सम्बोधने । अवेक्षस्व ध्वजचिह्नेन सम्यगालोकये । इमां त्वया दृष्टां चमूं कस्येयमिति मन्यसे, वदेति शेषः ॥ २।९६।१५ ॥

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।

दिधक्षन्निव तां सेनां रुषितः पावको यथा ॥ २।९६।१६ ॥

एवमिति । रुषितः कुपितः । कर्त्तरि क्तः । पावको यथा वह्नितुल्यः ॥ २।९६।१६ ॥

सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।

आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥ २।९६।१७ ॥

सम्पन्नमिति । कैकेय्याः सुतः तत्सुतत्वेन क्रूरप्रकृतिः भरतः अभिषेचनं प्राप्य कैकेयीवरानुरोधेनाभिषिक्तः तावताप्यतृप्तः । सम्पन्नं समृद्धम्, निष्कण्टकमिति यावत् । राज्यमिच्छन् सन् तदंशभागिनौ आवां हन्तुं समभ्येति ॥ २।९६।१७ ॥

एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।

विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे ॥ २।९६।१८ ॥

भरतागमने किं चिह्नमित्यत्राह–एष इति । विटपी ध्वजचिह्नीभूतो वृक्षः । प्रकाशते स्पष्टं दृश्यते । तमेव विशिनष्टि विराजतीति । उद्गतस्कन्धः उन्नतस्कन्धः । उन्नतस्कन्धत्वं लिखितवृक्षद्वारा । कोविदारध्वजः कोविदारवृक्षयुक्तो ध्वजः ॥ २।९६।१८ ॥

[असौ हि सुमहास्कन्धो विटपी च महाद्रुमः ।

विराजते महासैन्ये कोविदारध्वजो रथे ॥ ]

भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।

एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः ॥ २।९६।१९ ॥

भजन्तीति । एते अश्वारोहाः अश्वानारुह्य भजन्ति, इमं देशं प्राप्नुवन्तीत्यर्थः । सादिनः गजारोहाः ॥ २।९६।१९ ॥

गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।

अथवेहैव तिष्ठावः सन्नद्धावुद्यतायुधौ ॥ २।९६।२० ॥

गृहीतधनुषाविति । दुर्गे स्थित्वा युद्धार्थं गिरेः श्रयणम् ॥ २।९६।२० ॥

अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ २।९६।२१ ॥

अपिः कामप्रवेदने । नौ आवयोः ॥ २।९६।२१ ॥

अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।

त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ २।९६।२२ ॥

अपिद्रक्ष्यामीत्यारभ्य श्लोकः ॥ २।९६।२२ ॥

यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।

सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥ २।९६।२३ ॥

यन्निमित्तमिति । यन्निमित्तं यस्माद्भरताद्धेतोः ॥ २।९६।२३ ॥

भरतस्य वधे दोषं नाहं पश्यामि राघव ।

पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २।९६।२४ ॥

भरतस्येति । त्यागे वधे ॥ २।९६।२४ ॥

पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।

एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २।९६।२५ ॥

पूर्वापकारीति । अपकारश्च न प्रामादिक इत्याह त्यक्तधर्म इति ॥ २।९६।२५ ॥

अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।

मया पश्येत् सुदुःखार्त्ता हस्तिभग्नमिव द्रुमम् ॥ २।९६।२६ ॥

अद्येति । सङ्ख्ये युद्धे । “मृधमास्कन्दनं सङ्ख्यम्” इत्यमरः ॥ २।९६।२६ ॥

कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।

कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २।९६।२७ ॥

कैकेयीमिति । वधिष्यामि । हन्तेर्वधादेश आर्षः । सानुबन्धा मन्थराद्यनुबन्धसहिताम् । कलुषेण पापेन । “कलुषं वृजिनैनोवमंहोदुरितदुष्कृतम्” इत्यमरः ॥ २।९६।२७ ॥

अद्येमं संयतं क्रोधमसत्कारं च मानद ।

मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २।९६।२८ ॥

अद्येति । संयतं स्ताम्भतम् । असत्कारं तिस्कारम् । मोक्ष्यामि तत्कार्य्यं करिष्यामीत्यर्थः, शरव्याजेन मोक्ष्यामीति वार्थः । कक्षेषु शुष्कगुल्मेषु । मानदेत्यनेन मानं माच्छेत्सीरित्युच्यते ॥ २।९६।२८ ॥

अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः ।

भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २।९६।२९ ॥

शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।

श्वापदाः परिकर्षन्तु नरांश्च निहतान् मया ॥ २।९६।३० ॥

अद्यैतदिति । शत्रुशरीराणि भिन्दन् एतत् काननं शोणितोक्षितं करिष्य इत्यन्वयः ॥ २।९६।२९३० ॥

शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।

ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ २।९६।३१ ॥

शराणामिति । अहं यतः पूर्वं तत्रतत्र युद्धे शराणां धनुषश्च विषये अनृणः ऋणरहितः शत्रुकलेवराहारदानेन परिहृतऋणः, स्वयं युद्धे क्वाप्यपराजितः शत्रुजयैकशील इत्यर्थः । अतः अस्मीत्यहमर्थे ऽव्ययम् । अस्मि अहं महामृधे भाविन्यपि युद्धे ससैन्यं भरतं हत्वा अनृण इत्यनुकर्षः, अनृणो भविष्यामीत्यन्वयः । वनवासात्पूर्वमपि शम्बरसुतजयादिप्रतिपादनात् तत्र लक्ष्मणस्यापि सहभावावश्यंभावाद्युद्धसम्भवः । अस्मीति क्रियापदं वा । तदा अभवमित्यर्थः । यतः अनृणो ऽभवमित्यन्वयः । त्वयापि मद्वीर्यं ज्ञातपूर्वमित्यर्थः ॥ २।९६।३१ ॥

इत्यार्षे श्रीरामायणे० श्रीमदयोध्याकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥

इति श्रीगो० श्रीरा० पीता० अयो० षण्णवतितमः सर्गः ॥ ९६ ॥