अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २।९५।१ ॥
एवं वनगिरिप्रदर्शनेनोपलाल्य नदीप्रदर्शनेनापि लालयति–अथेत्यादिना ॥ २।९५।१ ॥
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।
विदेहराजस्य सुतां रामो राजीवलोचनः ॥ २।९५।२ ॥
अब्रवीदिति । वचने हेतुः तत्सौन्दर्यमित्याशयेनोक्तम्–वरारोहामित्यादि । वरारोहाम् आरुह्यत इति आरोहो जघनम्, गुरुजघनामित्यर्थः । चारुचन्द्रनिभाननामित्यनेन रतिरमणनिदर्शितवनगिरिविलोकनकुतूहलविकसितवदनत्वमुक्तम् । राजीवलोचनः विस्मयोत्फुल्लनयन इत्यर्थः ॥ २।९५।२ ॥
विचित्रपुलिनां रम्यां हंससारससेविताम् ।
कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २।९५।३ ॥
विचित्रेति । पुलिनस्य विचित्रत्वं नवोलपालङ्कृतत्वात् । सारसाः हंसविशेषाः । अत्र वस्तुना पृथुजघनकलनूपुरसुन्दरकरपदवदनवती भवतीव भातीत्यलङ्कारध्वनिः ॥ २।९५।३ ॥
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः ।
राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ २।९५।४ ॥
नानेति । राजराजस्य कुबेरस्य । नलिनीं सौगन्धिकसरसीम् ॥ २।९५।४ ॥
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।
तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २।९५।५ ॥
मृगयूथेति । मृगयूथनिपीतानि अत एव कलुषाणि, रमणीयानि कुङ्कुमरसाभानि अम्भांसि येषु तानि तीर्थानि अवताराः । रतिम् अवगाहनविषयां प्रीतिम् ॥ २।९५।५ ॥
जटाजिनधराः काले वल्कलोत्तरवाससः ।
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २।९५।६ ॥
जटेति । काले स्वनियमोचितकाले । अवगाहन्ते मज्जन्ति । प्रिये इत्यन्यत्र दृष्टिर्निवार्यते ॥ २।९५।६ ॥
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहवः ।
एते परे विशालाक्षि मुनयः संशितव्रताः ॥ २।९५।७ ॥
आदित्यमिति । उपतिष्ठन्ते । “उपान्मन्त्रकरणे” इत्यात्मनेपदम् । नियमाद्धेतोः परे पूर्वोक्तमुनिभ्यो ऽन्ये । संशितव्रताः तीक्ष्णनियमाः ॥ २।९५।७ ॥
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ।
पादपैः पत्त्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २।९५।८ ॥
मारुतोद्धूतशिखरैः वायुकम्पितशाखैः । पुष्पाणि सृजद्भिः मुञ्जद्भिः पादपैः प्रनृत्त इव नृत्यङ्कर्त्तुमुद्युक्त इव । आदिकर्मणि क्तः । लोके हि नृत्तोद्युक्तः पुष्पाणि परिविकीर्य्य हस्तौ चालयति तद्वदित्युत्प्रेक्षा ॥ २।९५।८ ॥
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।
क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २।९५।९ ॥
क्वचिदिति । मणिनिकाशोदां मुक्तामणिनिभजलाम् । उदकस्योदभाव आर्षः । क्वचित्तीरे सिद्धजनेनावगाहनोद्युक्तेनावकीर्णाम् । एतेन श्वेतवसना पृथुजघना कामुकावृता नारी द्योत्यते ॥ २।९५।९ ॥
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।
पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २।९५।१० ॥
निर्द्धूतानिति । वायुना निर्द्धूतान् विततान् तीरे व्याप्तान् पुष्पसञ्चयान् पश्य जलमध्यगान् पोप्लूयमानान् भृशं पुनःपुनर्वा प्लवमानान् अपरान् पुष्पसञ्चयांश्च त्वं पश्य । प्रियहृतार्धगलितवसना नारीव लक्ष्यत इति व्यङ्ग्यम् ॥ २।९५।१० ॥
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ।
अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ २।९५।११ ॥
तानिति । वल्गुवचसः रत्यर्थाह्वानकालिकरम्यवचसः शुभाः गिरः विकूजन्तः रतिकालिकस्वरान् कुर्वन्तः । रथाङ्गाह्वयनाः चक्राह्वयाः द्विजाश्चक्रवाकाः तान् पुष्पसञ्चयान् । अधिरोहन्ति शयनमारोहन्तीत्यर्थः । अनेन चक्रवाकरतिर्दर्शिता ॥ २।९५।११ ॥
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २।९५।१२ ॥
दर्शनमिति । हे शोभने निर्मत्सरे चित्रकूटस्य दर्शनं पुरवासाधिकं चित्रकूटवासः पुरवासादप्यधिकसुखावहः, एकान्तभोगस्थानत्वादिति भावः । मन्दाकिन्या दर्शनं तव दर्शनादप्यधिकसुखकरम्, उद्दीपनत्वादिति भावः ॥ २।९५।१२ ॥
विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः ।
नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २।९५।१३ ॥
विधूतकलुषैरिति । तपोदमशमान्वितैः अत एव विधूतकलुषैः निष्पापैः सिद्धैः सिद्धसाधननिष्ठैः । नित्यविक्षोभितजलां सदा तत्स्नानेन तत्पादरेणुधन्यां मन्दाकिनीं मया सह विगाहस्व मामप्रधानीकृत्य जलक्रीडारसमनुभवेत्यर्थः । नित्यविक्षोभितजलामित्यनेन जलक्रीडोपकरणकुसुम्भादिसामग्री दर्शिता ॥ २।९५।१३ ॥
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २।९५।१४ ॥
सखीवदिति । सख्या यथा सलिलमवगाहसे तथा मया सह विगाहस्व । कमलानि रक्ताब्जानि । पुष्कराणि सिताम्भोजानि । अवमज्जन्ती अवमज्जयन्ती स्तनजघनाघातजनिततरङ्गैरिति भावः । यद्वा तव वदनकान्तिनिर्जिततया लज्जया अवमज्जयन्तीवेत्युत्प्रेक्षा ॥ २।९५।१४ ॥
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २।९५।१५ ॥
त्वमिति । त्वं व्यालान् वनचरजन्तून् पौरजनवत्पश्य, पौरजनप्रीतिं व्यालेषु कुर्वित्यर्थः । एवमुत्तरत्रापि । अतः पौरजनाद्यनवलोकनक्लेशो न कार्य्य इति भावः ॥ २।९५।१५ ॥
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ।
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २।९५।१६ ॥
लक्ष्मण इति । सौभ्रात्रम् अनुकूलभार्य्यत्वं च सौख्यरसायनमिति भावः । ॥ २।९५।१६ ॥
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः ।
नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २।९५।१७ ॥
उपस्पृशन्निनि । हे वैदेहि त्वया सह त्रिषवणं त्रिसन्ध्यम् । उपस्पृशन् स्नानं कुर्वन् । मधुमूलफलाशनोहमयोध्यायै न स्पृहये राज्याय च न स्पृहये । “स्पृहेरीप्सितः” इति सम्प्रदानसंज्ञा ॥ २।९५।१७ ॥
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः ।
सुपुष्पितैः पुष्पधरैरलङ्कृतां न सो ऽस्ति यः स्यादगतक्लमः सुखी ॥ २।९५।१८ ॥
इमामिति । इमां मन्दाकिनीम् । मृगयूथशालिनीम्, मृगयूथलोलितामिति च पाठः । गजसिंहवानरैः, आश्रममहिम्ना शान्तवैरैरित्यर्थः । निपीततोयामिति पापहरत्वमुक्तम् । पुष्पधरैः वृक्षैः अनेनोद्दीपनत्वमुक्तम् । उपस्पृशन्नित्यनुषज्यते । यः अगतक्लमः सुखी न स्यात् स नास्ति सर्वोप्यत्र स्नात्वा गतक्लमो भवतीत्यर्थः ॥ २।९५।१८ ॥
इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन् ।
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धनः ॥ २।९५।१९ ॥
इत्यार्षे श्रीरामायणे वाक्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥
इतीति । प्रियासहायो रामः सरितं प्रति सरिद्विषये सङ्गतं प्रसक्तानुप्रसक्तं बहुवचो ब्रुवन् सन् । नयनाञ्जनप्रभं नयनयोग्याञ्जनकान्तिम्, तद्वन्नित्यर्थः । चित्रकूटं चचार, चित्रकूटप्रान्ते चचारेत्यर्थः । एतेन पुनः पुरवासनिस्पृहत्वद्योतनाया रामस्य वनवासनिर्भरत्वमुक्तम् ॥ २।१५।१९ ॥
इति श्रीगो० श्रीरा० पीता० अयोध्याकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ ९५ ॥