ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः ।
कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ २।९२।१ ॥
तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २।९२।२ ॥
तत इत्यादि । व्युष्य विशेषेणोषित्वा । सपरिच्छदः सपरिवारः । “परिवारः परिकरः परिष्कन्दः परिग्रहः । तथोपकरणं प्रोक्तं परिबर्हः परिच्छदः ॥ " इति हलायुधः कामात् रामप्राप्तीच्छया ॥ २।९२।१२ ॥
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।
समग्रस्ते जनः कच्चिदातिथ्ये शंस मे ऽनघ ॥ २।९२।३ ॥
कच्चिदिति । अस्मद्विषये अस्मदाश्रमे । रात्रिः सुखा गता कच्चिदित्यन्वयः । आतिथ्ये विषये । समग्रः संपूर्णः, तृप्त इति यावत् । अनघेत्यनेन पूर्वं भरताशयपरीक्षणार्थमेवातिथ्यकरणमिति द्योतितम्, रामविषयभक्त्यभावे भोगप्रवणः स्यादिति हृदयम् ॥ २।९२।३ ॥
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।
आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २।९२।४ ॥
तमिति । अभिनिष्क्रान्तमित्यनेन कौसल्यादिसर्वजनदर्शनार्थं भरतागमनकाल एव बहिर्निर्गतवानृषिरिति व्यञ्जितम् ॥ २।९२।४ ॥
सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः ।
तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २।९२।५ ॥
सुखेति । बलवत्तर्पितः अतीव तर्पितः “किमुतातीवबलवत् स्वति सुष्ठु च निर्भरे” इति वैजयन्ती ॥ २।९२।५ ॥
अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः ।
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ॥ २।९२।६ ॥
अपेतेति । क्लमो ग्लानिः । सन्तापो देहौष्ण्यम् । अपिप्रेष्यानुपादाय प्रेष्यानप्यारभ्य । सुभिक्षाः समृद्धान्नपानाः । सुप्रतिश्रयाः शोभनस्थानाः, शोभनगृहा इति यावत् । “स्थाने गोष्ठ्यां सत्रयागे प्रत्याहारे प्रतिश्रयः” इति वैजयन्ती ॥ २।९२।६ ॥
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।
समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २।९२।७ ॥
कामं यथेष्टम् । “कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ।” इत्यमरः । हे भगवन् त्वामामन्त्रये आपृच्छे । भ्रातुः समीपं कामं प्रस्थितं मां त्वं मैत्रेण मित्रसम्बन्धिना चक्षुषा ईक्षस्व ॥ २।९२।७ ॥
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ।
आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥ २।९२।८ ॥
आश्रममिति । धर्मेण योगजधर्मेण जानातीति धर्मज्ञ योगप्रभावविदितसर्ववृत्तान्तेत्यर्थः । धार्मिकस्य पितृवचनपरिपालनरूपं धर्ममाचरतः महात्मनः महाधैर्यस्य तस्य रामस्याश्रममाचक्ष्व । स चाश्रमः कियान् कियद्दूरतः तस्य मार्गः क्रतमः इति पृच्छते मे मह्यं शंसेति योजना ॥ २।९२।८ ॥
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।
प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥ २।९२।९ ॥
इतीति । महातपाः अतएव महातेजाः, सर्वज्ञानसमर्थ इत्यर्थः । रामाश्रमप्रदेशाभिज्ञेषु गुहज्ञातिषु विद्यमानेषु मुनिं प्रति प्रश्नस्तस्य पूजार्थम् ॥ २।९२।९ ॥
भरतार्द्धतृतीयेषु योजनेष्वजने वने ।
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ २।९२।१० ॥
भरतेति । अर्द्धतृतीयेष्विति अर्द्धं तृतीयं येषां तेष्वर्द्धतृतीयेषु, सार्द्धयोजनद्वितय इत्यर्थः । अतीतेष्विति शेषः । अजने मुनिव्यतिरिक्तग्राम्यजनरहिते वने । तत्र प्रसिद्धो गिरिः, वर्तत इति शेषः ॥ २।९२।१० ॥
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।
पुष्िपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २।९२।११ ॥
उत्तरमिति । तस्य गिरेरुत्तरं पार्श्वमासाद्यस्थिता मन्दाकिनी नाम काचिन्नदी अस्तीति शेषः । द्रुमाः काननभिन्नाः ॥ २।९२।११ ॥
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः ।
तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २।९२।१२ ॥
अनन्तरमिति । तत्सरितो मन्दाकिन्याः अनन्तरं समीपे चित्रकूटस्थिष्ठति नतु व्यवहितपार्श्वे । तयोः सरिद्गिर्योर्मध्ये पर्णकुटी पर्णशाला कृता तत्र वसतः ध्रुवम्, योगप्रभावेन जानामीत्यर्थः ॥ २।९२।१२ ॥
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २।९२।१३ ॥
दक्षिणेनेति । अस्मादाश्रमात् दक्षिणेन मार्गेण किञ्चिद्दूरं गत्वा ततः सव्यदक्षिणं नैऋतदिग्भागो यथा भवति तथा वाहिनीं वाहयस्व, किञ्चिद्दूरं दक्षिण एको मार्गः, ततः शाखामार्गेण नैऋतदिग्भागगामिना गन्तव्यमिति भावः । कान्तारमार्गस्य सूक्ष्मत्वाद्यथायोग्यं मार्गस्य वामतो दक्षिणतश्च विरलप्रदेशे वाहिनीं प्रापयस्वेत्यर्थ इत्यप्याहुः ॥ २।९२।१३ ॥
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः ।
हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २।९२।१४ ॥
प्रयाणमिति । इति उक्तप्रकारेण । तत्प्रयाणं प्रस्थानं श्रुत्वा राजराजस्य महाराजस्य दशरथस्य योषितः कौसल्याद्याः यानार्हाः यानत्यागानर्हा अपि यानानि त्यक्त्वा ब्राह्मणं ब्रह्मविदं भरद्वाजं पर्यवारयन्, वन्दनायेति शेषः ॥ २।९२।१४ ॥
वेपमाना कृशा दीना सह देव्या सुमित्रया ।
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥ २।९२।१५ ॥
वेपमानेति । वेपमाना वार्द्धकादृषिदर्शनाच्च । कृशा दीना, रामविरहादिति शेषः ॥ २।९२।१५ ॥
असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २।९२।१६ ॥
असमृद्धेन अपूर्णेन, फलापर्य्यवसायिनेति यावत् । कामेन मनोरथेन उपलक्षितेति शेषः । लोकस्य गर्हिता लोकेन गर्हिता । सव्यपत्रपा सलज्जा । रामविवासनहेतुत्वात् ॥ २।९२।१६ ॥
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २।९२।१७ ॥
लज्जावशादेव कौसल्यादिभिः सह मुनेः पुरतः स्थातुमशक्ता प्रदक्षिणव्याजेन भरतं गतेत्याह–तमित्यादिना । दीनमनाः कैकेयी ॥ २।९२।१७ ॥
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।
विशेषं ज्ञातुमिच्छामि मातृ़णां तव राघव ॥ २।९२।१८ ॥
तत इति । दृढव्रत इत्यनेन सर्वज्ञत्वं लक्ष्यते, सर्वज्ञोपि कैकेयीशिक्षार्थं पप्रच्छेत्यर्थः । विशेषं संज्ञासंज्ञिसम्बन्धादिविशेषम् । इतिकरणमध्याहृत्य इति पप्रच्छेत्यन्वयः ॥ २।९२।१८ ॥
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ।
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ २।९२।१९ ॥
एवमिति । धार्मिकः सत्यवादीत्यर्थः । वचनकोविदः वचने पण्डितः, भरद्वाजवचनतात्पर्य्यज्ञ इत्यर्थः । भरतमुखेन मातृ़णां स्वभावविशेषप्रतिपादनं हि मुनेराशयः ॥ २।९२।१९ ॥
यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।
पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २।९२।२० ॥
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।
कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २।९२।२१ ॥
यामिति । शोकानशनकर्शितां शोकानशनाभ्यां कर्शिताम् । देवतामिव धर्मदेवतामिव । सिंहविक्रान्तगामिनं सिंहवद्विक्रान्तं विक्रमयुक्तं यथा भवति तथा गामिनं गमनशीलम् । धातारं विष्णुम् । “एष धाता विधाता च” इति वक्ष्यमाणत्वात् । सर्वगुणसम्पन्ना राममाता एषा कौसल्येत्यर्थः ॥ २।९२।२०२१ ॥
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।
[इयं सुमित्रा दुःखार्ता देवी राज्ञश्च मध्यमा ।]
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २।९२।२२ ॥
अस्या इति । वामभुजं श्लिष्टा कौसल्याया वेपमानाङ्गत्वात्तद्धारणार्थं तद्वामभुजमवधृत्य स्थितेत्यर्थः । दुर्मनाः दुःखितमनाः । दुर्मनस्त्वे दृष्टान्तः कर्णिकारस्येति । शीर्णपुष्पाम्लानपुष्पा ॥ २।९२।२२ ॥
एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ।
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २।९२।२३ ॥
एतस्या इत्यत्र उक्तगुणसम्पन्नयोर्लक्ष्मणशत्रुघ्नयोर्मातेयमिति बोध्यम् । देववर्णिनौ अश्विनीदेवतुल्यौ ॥ २।९२।२३ ॥
यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।
राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ॥ २।९२।२४ ॥
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।
ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २।९२।२५ ॥
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।
यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥ २।९२।२६ ॥
यस्या इति । जीवनाशं राक्षसभूयिष्ठं दण्डकारण्यं प्रति विवासनात् जीवस्य जीवनस्य नाशम् हतः । इह वने । क्रुध्यतीति क्रोधना । कर्त्तरिल्युट् । अकृतप्रज्ञाम् अशिक्षितबुद्धिम् । सुभगमानिनीं सुभगां सुन्दरीमात्मानं मन्यत इति सुभगमानिनी ताम् । वस्तुतो ऽनार्याम् आर्यरूपिणीमार्यवद्भासमानाम् । यतोमूलं यत्कारणकम् । आत्मनो मम ॥ २।९२।२४२६ ॥
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।
स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ॥ २।९२।२७ ॥
इतीति । बाष्पगद्गदया रामविवासनस्मरणजबाष्पेण गद्गदया स्खलन्त्या गिरा इत्युक्त्वा । नागः सर्पः ॥ २।९२।२७ ॥
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २।९२।२८ ॥
भरद्वाज इति । तथा ब्रुवन्तमित्यन्वयः । महाबुद्धिः भाविज्ञः । अर्थवत् प्रयोजनवत् ॥ २।९२।२८ ॥
न दोषेणावगन्तव्या कैकेयी भरत त्वया ।
रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २।९२।२९ ॥
देवानां दानवानां च ऋषीणां भावितात्मनाम् ।
हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २।९२।३० ॥
नेति । दोषेण दोषवत्तया नावगन्तव्या, तस्याः देवप्रेरितत्वादित्यभिप्रायः । तत्र हेतुमाह रामेति । सुखोदर्कं सुखोत्तरम् । अतीतानागतवर्त्तमानज्ञो महर्षिर्भाविरावणवधादिकं हृदि निधाय देवादीनां सुखोदर्कं भविष्यतीत्युक्तवान् ॥ २।९२।२९३० ॥
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।
आमन्त्र्य भरतः सेन्यं युज्यतामित्यचोदयत् ॥ २।९२।३१ ॥
अभिवाद्येति । संसिद्धः लब्धाशीर्वादः । आमन्त्र्य आपृच्छय । युज्यतां गमनाय सन्नह्यतामिति स्वसैन्यमचोदयत् ॥ २।९२।३१ ॥
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥ २।९२।३२ ॥
तत इति । वाजिरथान् वाजिनो रथांश्च । युक्त्वा संनह्य । युक्तानिति पाठे सज्जीकृतान् । प्रयाणार्थी प्रयाणकाङ्क्षी ॥ २।९२।३२ ॥
गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः ।
जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे ॥ २।९२।३३ ॥
गजकन्याः करेणवः । हेमकक्ष्याः हेममयबन्धनरज्जवः । सघोषाः घण्टाघोषयुक्ताः । पताकिन इत्यत्र “पुमान् स्त्रिया” इत्येकशेषः ॥ २।९२।३३ ॥
विविधान्यपि यानानि महान्ति च लघूनि च ।
प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ २।९२।३४ ॥
विविधानीति । प्रययुरित्यत्र सादिन आरुह्येति शेषः । यद्वा यानातीति तत्स्था लक्ष्यन्ते । पदातयः पादैरेव ययुः यानैः समं ययुरिति भावः ॥ २।९२।३४ ॥
अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः ।
रामदर्शनकांक्षिण्यः प्रययुर्मुदितास्तदा ॥ २।९२।३५ ॥
अथेति । यानप्रवेकैर्यानोत्तमैः । “प्रवेकानुत्तमोत्तमाः” इत्यमरः ॥ २।९२।३५ ॥
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।
आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥ २।९२।३६ ॥
चन्द्रार्केति । चन्द्रार्कतरुणाभासां तरुणचन्द्रार्ककान्तिम् । नियुक्तां वसिष्ठादिभिराज्ञप्ताम् । सपरिच्छदः सपरिवारः ॥ २।९२।३६ ॥
सा प्रयाता महासेना गजवाजिरथाकुला ।
दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥ २।९२।३७ ॥
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ।
गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥ २।९२।३८ ॥
सेत्यादिश्लोकद्वयमेकं वाक्यम् । गङ्गायाः दक्षिणवाहिन्याः । परवेलायां पश्चिमभागे स्थितेति शेषः । महासेना वनानि व्यतिक्रम्य गिरिषु नदीषु च विश्रम्येति शेषः । उत्थितो मेघ इव दक्षिणां दिशमावृत्य प्रयातेति सम्बन्धः । यद्वा महासेना गिरिषु नदीषु च वनानि व्यतिक्रम्येति वा अन्वयः ॥ २।९२।३७३८ ॥
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २।९२।३९ ॥
सेति । तत्र तदेत्यर्थः ॥ २।९२।३९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विनवतितमः सर्गः ॥ ९२ ॥