०९१ भरद्वाजकृतातिथ्यम्

कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।

भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २।९१।१ ॥

कृतेति । तत्रैवाश्रमे निवासाय कृतबुद्धिं निश्चितबुद्धिं भरतं स मुनिः आतिथ्येन भोजनपर्य्यन्तातिथिसत्काराय न्यमन्त्रयत् प्रार्थयामास ॥ २।९१।१ ॥

अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।

पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २।९१।२ ॥

अब्रवीदिति । वने यत्फलमूलादिकम् उपपद्यते लभ्यते तेन तापसाहारेणातिथ्यं कृतम्, ननु एतावन्मात्रेण तुष्टो ऽस्मीति भावः ॥ २।९१।२ ॥

अथोवाच भरद्वाजो भरतं प्रहसन्निव ।

जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २।९१।३ ॥

अथेति । प्रहसन्निव प्रहासावेदकानुभावयुक्तः । मुनिरितःपरं किं करिष्यतीति भरताशयज्ञानेन हासः, त्वां प्रीतिसंयुक्तं मद्विषये सन्तुष्टं जाने अत एव केनचिदुपचारेण तुष्येः तुष्टो भवेः ॥ २।९१।३ ॥

सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।

मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २।९१।४ ॥

सेनाया इति । भुज्यत इति भोजनमन्नम् । अत्रादौ तथापीत्युपस्कार्य्यम्, तथापि मम प्रीतिर्यथारूपा यादृशप्रकारा तथा त्वमर्हः, त्वं तथा प्रीतो भवितुमर्ह इत्यर्थः, तथानुमन्तुमर्हसीत्यर्थो वा ॥ २।९१।४ ॥

किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।

कस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ २।९१।५ ॥

किमर्थमिति । उक्तमेवार्थं व्यतिरेकमुखेनाप्याह–कस्मादित्यादिना ॥ २।९१।५ ॥

भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।

ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २।९१।६ ॥

भरत इति । भगवद्भयात् भवान् कुप्येदिति भयात् ॥ २।९१।६ ॥

राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।

यत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ २।९१।७ ॥

राज्ञेति । विषयेषु तपस्विनः स्वकीयदेशेषु वर्तमानाः ऋषयः यत्नतः परिहर्तव्याः, ससैन्येन तत्समीपं न गन्तव्यमित्यर्थः ॥ २।९१।७ ॥

वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।

प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २।९१।८ ॥

ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।

न हिंस्युरिति तेनाहमेक एव समागतः ॥ २।९१।९ ॥

कोपनिमित्तमाह–वाजिमुख्या इत्यादिना । उटजान् पर्णशालाः ॥ २।९१।८९ ॥

आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।

ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ २।९१।१० ॥

आनीयतामिति । ततः सेनानिवेशस्थलात् । इतः इह । समुपागमं समानयनम् ॥ २।९१।१० ॥

अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च ।

आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २।९१।११ ॥

अग्निशालामिति । अग्निशालाप्रवेशः पावनत्वार्थः, देवतासन्निधानस्थलत्वात् । अपः पीत्वा, त्रिरिति शेषः । “त्रिराचामेत्” इति श्रुतेः । परिमृज्य आस्यम्, द्विरिति शेषः । “द्विःपरिमृज्य” इति श्रुतेः । चकारेण सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमारभ्य इत्युक्तसंग्रहः । अनेन सर्वकर्म्माङ्गमाचमनमिति दर्शितम् । क्रियाहेतोः करणनिमित्तम् ॥ २।९१।११ ॥

आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।

आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २।९१।१२ ॥

आह्वानमन्त्रमाह–आह्वय इत्यादिना । आह्वय इत्यात्मनेपदमार्षम् । विश्वकर्मा सर्वशिल्पकर्ता । त्वष्टा तु तक्षणेन गृहादिनिर्माता । यद्वा त्वष्टारमेव चेत्यवधारणेनासुरविश्वकर्म्मा मयो व्यावर्त्यते । तत्रातिथ्यनिमित्तं संविधीयतां गृहादिसंविधानं क्रियताम् ॥ २।९१।१२ ॥

आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।

आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २।९१।१३ ॥

वक्ष्यमाणान्नपानादिरक्षणाय लोकपालानाह्वयति–आह्वय इति । शक्रमुखान् इन्द्रप्रधानात् । शक्रस्य पृथङ्निर्देशात् त्रीन् लोकपालान् यमवरुणकुबेरान् देवानित्यग्न्यादय उच्यन्ते । संविधीयतां पालनं क्रियताम् ॥ २।९१।१३ ॥

प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च ।

पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ २।९१।१४ ॥

सर्वा नदीर्द्वेधा विभज्याह्वयति–प्राक्स्रोतस इति । सह युगपत् ॥ २।९१।१४ ॥

अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् ।

अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २।९१।१५ ॥

तासां कर्त्तव्यमाह–अन्या इति । अन्याः काश्चन मैरेयं मिरादेशे भवं खर्जूरादिहेतुकं मद्यविशेषम् । सुरां “गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा” इत्युक्तां त्रिविधां सुराम् । सुनिष्ठितां सुनिष्पादिताम् । इक्षुकाण्डरसोपमम् । काण्डो वर्गः ॥ २।९१।१५ ॥

आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।

तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ २।९१।१६ ॥

गानार्थमाह्वयति–आह्वय इति । देवगन्धर्वान् मनुष्यगन्धर्वभिन्नान् । हहाहुहूनितिच्छान्दसो ह्रस्वः । अप्सरसां द्वैविध्यमाह–देवीर्गन्धर्वीरिति । देवीः देवजातीः । गन्धर्वीः गन्धर्वजातीः । अत एव “एते वै गन्धर्वाप्सरसां गृहाः” इति श्रौतप्रयोगः ॥ २।९१।१६ ॥

घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।

नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २।९१।१७ ॥

आवश्यकत्वेन प्रधानाप्सरसो विशिष्याह्वयति–घृताचीमित्यादिना । घृतवदञ्च्यते पूज्यत इति घृताची । विश्वैः समस्तैः अञ्च्यत इति विश्वाची । मिश्रकेशीं निरन्तरकेशीं श्रेष्ठकेशीं वा । बुसेभ्योलमलम्बुसाम् । बुसा बुधाः देवाः वर्णविपर्ययः । नागानां दन्ता इव शुभ्राः दन्ताः यस्यास्तां नागदन्ताम् । हेमां हेमवर्णाम् । पुनश्च हेमामिति पाठे–पूर्वोक्तहेमापेक्षया अस्या व्यावृत्तिमाह अनिद्रकृतस्थलामिति । अद्रौ महेन्द्रे मयेन कृतनिवासां स्वयम्प्रभाबिलस्थामित्यर्थः । हिमामिति पाठे–हिमवच्छीतलाङ्गीम् । यद्वा हिममस्यास्तीति हिमा । अद्रिकृतस्थला चान्या एवमेतान्यन्वर्थनामानि ॥ २।९१।१७ ॥

शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः ।

सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥ २।९१।१८ ॥

शक्रमिति । शक्रं या उपतिष्ठन्ति रम्भोर्वशीमेनकादयः । ब्रह्माणं चतुर्मुखं तल्लोकेप्यप्सरसः सन्ति । “तं पञ्चशतान्यप्सरसां प्रतिधावन्ति” इति श्रुतेः । इदं च मत्तान्तरमनुसृत्योक्तम् । तुम्बुरुणा तासां गानशिक्षकेण सपरिच्छदाः । नृत्यगीताद्युपकरणसहिताः सालङ्कारा वा ॥ २।९१।१८ ॥

वनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् ।

दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २।९१।१९ ॥

भोगोपकरणान्याहूय भोगस्थानान्याह्वयति–वनमिति । वनं चैत्ररथाख्यम्, तच्चोत्तरकुरुदेशे वर्त्तते । दिव्यं देवार्हम् । वासोभूषणान्येव पत्राण्यस्मिन् सन्तीति वासोभूषणपत्रवत् । शश्वत् सर्वदा । दिव्यनार्य्य एव फलानि यस्मिन् तत् तथा । एवम्भूतं यत्कौबेरमस्ति तत् इह वने एतु आगच्छतु । उत्तरदिक्पालत्वेन कुबेराधिष्ठितत्वात् कौबेरमित्युक्तम् । इयं च कुबेरं प्रत्येवोक्तिः । नदीनामिव वनस्याह्वानं तदधिष्ठातृदेवताद्वारा ॥ २।९१।१९ ॥

इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।

भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २।९१।२० ॥

एवं कुबेरं प्रत्युक्त्वा अन्नपतिं चन्द्रं प्रत्याह–इहेति । मे मन्निमित्तम् । भगवान् माहात्म्यवान् । सोम ओषधीनामधिपतिश्चन्द्रः उत्तममन्नं विधत्तां सम्पादयतु । अन्नं चतुर्विधत्वेन विशेषयति–भक्ष्यमित्यादि । भक्ष्यं खाद्यमपूपादि । भोज्यम् ओदनादि । चोष्यं शुष्कादि । लेह्यं रसायनादि । विविधम् एकैकमनेकविधं । तदपि बहु अनल्पम् ॥ २।९१।२० ॥

विचित्राणि च माल्यानि पादपप्रच्युतानि च ।

सुरादीनि च पेयानि मांसानि विविधानि च ॥ २।९१।२१ ॥

विचित्राणीति । पादपप्रच्युतानि, नवानीति भावः ॥ २।९१।२१ ॥

एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।

शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ २।९१।२२ ॥

एवमाह्वाने शक्तिविशेषं दर्शयति–एवमित्यादिना । समाधिना योगेन । तपसा ज्ञानेन । यद्वा अनशनादिकायक्लेशरूपेण अत एव तेजसा अनागमे दण्डनसामर्थ्येन च युक्तः मुनिः । शीक्षास्वरसमायुक्तं शीक्ष्यन्ते उपदिश्यन्ते वर्णस्वरादयो ऽनयेति शीक्षा । छान्दसो दीर्घः । शीक्षाप्रतिपाद्यस्वरयुक्तमिति क्रियाविशेषणम् । “दृष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतो ऽपराधात्” इति स्वरापराधस्य प्रत्यवायहेतुत्वश्रवणात् । एवम् आह्वये विश्वकर्माणमित्यारभ्योक्तरीत्या । अब्रवीत् आह्वानमन्त्रानजपदित्यर्थः ॥ २।९१।२२ ॥

मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।

आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २।९१।२३ ॥

मनसेति । मनसा अनन्यपरेणेत्यर्थः । ध्यायतः निरन्तरं चिन्तयतः । प्राङ्मुखस्येत्यदृष्टविशेषार्थं कृताञ्जलेरिति आह्वानमुद्रोक्ता । तानि पूर्वोक्तानि । दैवतानि विश्वकर्मादीनि । मुनिदृष्टिविषयत्वाय पृथक्पृथक् आजग्मुः ॥ २।९१।२३ ॥

मलयं दर्दुरं चैव ततः स्वेदनुदो़ ऽनिलः ।

उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २।९१।२४ ॥

मलयश्चन्दनालयः । दर्दुरस्तत्समीपस्थश्चन्दनोत्पत्तिस्थानभूतो गिरिः । तदुभयं चोपस्पृश्य सुप्रियात्मा सुप्रियस्वभावः, सुगन्ध इत्यर्थः । अत एव सुखः सुखकरः । शिवः शीतलः । युक्त्या अङ्गस्पर्शेन । स्वेदनुदः स्वेदनिवर्त्तकः । “इगुपध–” इत्यादिना कप्रत्ययः । अनिलः वायुः । ततः गिरिद्वयाद्ववौ । इन्द्रा़द्याह्वानेन वाय्वाद्याह्वानमर्थसिद्धम् ॥ २।९१।२४ ॥

ततोभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः ।

दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २।९१।२५ ॥

तत इति । घनाः निरन्तराः “घनं निरन्तरं सान्द्रम्” इत्यमरः । पुष्पवृष्टयो ऽभ्यवर्त्तन्त, आसन्नित्यर्थः ॥ २।९१।२५ ॥

प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः ।

प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ २।९१।२६ ॥

प्रववुरिति । प्रववुश्चोत्तमा वाता इति पूर्वोक्तस्यैवाविच्छेद उच्यते । वीणाः प्रमुमुचुः स्वरान्, वीणाशब्देन वीणावन्तो लक्ष्यन्ते । तदेकपरत्वव्यञ्जनाय स्वरान्मुमुचुः उत्पादयामासुः । असिश्छिनत्तीतिवत् करणे कर्तृत्वोपचारो वा ॥ २।९१।२६ ॥

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।

विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ २।९१।२७ ॥

स शब्द इति । स शब्दः द्यां च भूमिं चाधिवसतामिति शेषः । प्राणिनां श्रवणानि श्रोत्राणि विवेश । स शब्दः कीदृशः उच्चारितः वीणादिभिरुत्पादितः । श्लक्ष्णः कोमलः । समः निषादादिषु कुत्रचित् औत्कट्यरहितः । मन्द्रमध्यमतारश्रुतिसाम्ययुक्तो वा । लयगुणान्वितः लयो नाम नृत्तगीतवाद्यानामेककालविरामः, स एव गुणस्तेनान्वितः ॥ २।९१।२७ ॥

तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।

ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २।९१।२८ ॥

तस्मिन्निति । अनेन गन्धर्वाप्सरसामागमनमात्रं सूचितम् । विधानं निर्माणम् । तच्च प्रपञ्चयिष्यति चतुःशालानीत्यादिना ॥ २।९१।२८ ॥

बभूव हि समा भूमिः समन्तात्पञ्चयोजना ।

शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥ २।९१।२९ ॥

देवताकृत्यमाह–बभूवेति । शाद्वलैर्बालतृणवत्प्रदेशैः । छन्ना व्याप्ता । नीलवैडूर्य्यसन्निभैः इन्द्रनीलवैडूर्य्याभ्यां तुल्यैः ॥ २।९१।२९ ॥

तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।

आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ २।९१।३० ॥

तस्मिन्निति । तस्मिन् भूप्रदेशे । बीजपूरकाः मातुलुङ्गकाः । फलान्येव भूषणानि येषां ते फलभूषणा इति सर्ववृक्षविशेषणम् । आमलक्यो बभूवुरिति पाठः ॥ २।९१।३० ॥

उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।

आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २।९१।३१ ॥

उत्तरेभ्य इति । वनमाहूतं कौबेरवनं दिव्योपभोगवत् दिव्योपभोगार्हम् । नदीति जात्येकवचनम् । तीरजैः वृक्षैरिति शेषः ॥ २।९१।३१ ॥

चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् ।

हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २।९१।३२ ॥

चतुःशालानीति । चतुःशालानि सञ्जवनानि “चतुःशालं सञ्जवनम्” इति हलायुधः । आजग्मुरिति विपरिणामः । तोरणानि बन्धनमालाः “बन्धी बन्धनमाला तु तोरणं परिकीर्तितम्” इति हलायुधः । वन्दनमालेति पाठान्तरम् ॥ २।९१।३२ ॥

सितमेघनिभं चापि राजवेश्मसु तोरणम् ।

दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २।९१।३३ ॥

चतुरश्रमसम्बाधं शयनासनयानवत् ।

दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।

उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २।९१।३४ ॥

सितमेघेत्यारभ्य धौतनिर्मलभाजनमित्यन्तमेकं वाक्यम् । आजगामेति । क्रिया द्रष्टव्या । सितमेघनिभं सुधालेपनधवलत्वात् । दिव्यमाल्यकृताकारं दिव्यमालाभिः कृतालङ्कारम् । दिव्यगन्धैर्दिव्यचन्दनैः । समुक्षितं सिक्तम् । चतुरश्रं चतुष्कोणम् । असम्बाधं विशालम् । शयनासनयानवत् यानं शिबिकादि । रसैः शर्कदादिभिः । दिव्यभोजनवस्त्रवत् दिव्यभोजनानि सूक्ष्मशाल्यन्नादीनि दिव्यवस्त्राणि सूक्ष्मवस्त्राणि उपकल्पितानि सर्वान्नानि नानाविधापूपादीनि यस्मिन् तत् । धौतनिर्मलभाजनं धौतत्वेन निर्मलानि भाजनानि यस्मिन् तत्तथा ॥ २।९१।३३३४ ॥

क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।

प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।

वेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ २।९१।३५ ॥

क्लृप्तसर्वासनमित्यत्र स्नानभोजना़द्यासनान्युच्यन्ते । शयनासनेत्यत्र राजासनं तत्साहचर्याच्छयनं च महाशयनम्, स्वास्तीर्णशयनोत्तममित्यत्र निद्रार्थशयनम् । तत्र भरतस्य प्रवेशमाह प्रविवेशेति । महाबाहुरित्यनेन तदर्हत्वमुच्यते । केकयीसुत इत्यनेन केकयीदत्तराज्येप्यनादरः किमत्र आदरं करिष्यतीति द्योत्यते । महर्षिणा भरद्वाजेन ॥ २।९१।३५ ॥

अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः ।

बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २।९१।३६ ॥

अनुजग्मुरिति । वेश्मसंविधिं वेश्मसंविधानम् ॥ २।९१।३६ ॥

तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।

भरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥ २।९१।३७ ॥

तत्रेति । राजासनं राजार्हासनम् । अभ्यवर्त्तत अभितो वर्त्तिष्ट, प्रदक्षिणं कृतवानिति यावत् । राजवत् राजतुल्यं राममिवेत्यर्थः ॥ २।९१।३७ ॥

आसनं पूजयामास रामायाभिप्रणम्य च ।

वालव्यजनमादाय न्यषीदत् सचिवासने ॥ २।९१।३८ ॥

आसनमिति । आसनं पूजयामासेत्यत्र राजवदित्यनुकर्षः । रामाय आसनोपरि स्थितत्वेन भाविताय । वालव्यजनमादाय स्वशेषत्वानुगुणतयेति भावः । सचिवासने सचिवार्थं क्लृप्ते आसने, सिंहासनाधःप्रदेशस्थ इत्यर्थः ॥ २।९१।३८ ॥

आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः ।

ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ २।९१।३९ ॥

आनुपूर्व्यादिति । सेनापतिः दण्डनायकः । प्रशास्ता शिबिरनियन्ता ॥ २।९१।३९ ॥

ततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः ।

उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २।९१।४० ॥

तत इति । मुहूर्त्तेन अल्पकालेन ॥ २।९१।४० ॥

तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः ।

रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ २।९१।४१ ॥

तासामिति । उभयतःकूलम् उभयोः कूलयोरित्यर्थः । पाण्डुमृत्तिकलेपनाः सुधानुलिप्ता इत्यर्थः । “ङ्यापोः–” इति ह्रस्वः । ब्रह्मणः भरद्वाजस्य उपातिष्ठन्तेत्येतदनुषज्यते ॥ २।९१।४१ ॥

तेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः ।

आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ २।९१।४२ ॥

तेनेति । आगुराजग्मुः । सहस्रमेव साहस्रम् । ब्रह्मणाचतुर्मुखेन । स्त्रियः अप्सरसः ॥ २।९१।४२ ॥

सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।

आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ २।९१।४३ ॥

सुवर्णेति । सुवर्णमणिमुक्तेन सुवर्णानि सुवर्णमयाभरणानि मणयो रत्नानि मुक्ताश्च सुवर्णमणिमुक्तं तेन । “जातिरप्राणिनाम्” इति एकवद्भावः ॥ २।९१।४३ ॥

याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते ।

आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ २।९१।४४ ॥

याभिरिति । गृहीत आलिङ्गितः याभिः यैरित्यर्थः । एतदर्थस्य पूर्वेण वान्वयः । कुबेरप्रहिताः गन्धर्वाप्सरसः । तथा हि श्रुतिः “गन्धार्वाप्सरसो वा एतमुन्मादयन्ति । य उन्माद्यति” इति । याभिर्गृहीताः पुरुषाः सोन्मादा इति होच्यते । इति च पाठः । तदा उच्यते श्रुत्येति शेषः । हेति प्रसिद्धौ ॥ २।९१।४४ ॥

नारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः ।

एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ २।९१।४५ ॥

नारद इति । नारदो ब्रह्मपुत्रादन्यः तुम्बुरुसाहचर्य्यात् । स हि पर्वतसहचरः । आह्वानसमये तुम्बुरुणेत्यस्योपलक्षणार्थत्वात् । गन्धर्वराजान इति टजभाव आर्षः ॥ २।९१।४५ ॥

अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।

उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २।९१।४६ ॥

अलम्बुसेति । भरतमुपानृत्यन् भरतमुद्दिश्याधिकमनृत्यन् । “उपो ऽधिके च” इति कर्म्मप्रवचनीयसंज्ञा । अत्र भरद्वाजस्य शासनादुपानृत्यन्नित्यनेन भरतस्य रामे वृत्तिविशेषमातिथ्यव्याजेन परीक्षितवानृषिरिति गम्यते ॥ २।९१।४६ ॥

यानि माल्यानि देवेषु यानि चैत्ररथे वने ।

प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २।९१।४७ ॥

एवं भरतस्य रामशेषतयैवावस्थानम् न तु भोगलौल्येनेत्युक्त्वा सेनाभोगं प्रपञ्चयति–यानीत्यादिना । देवेषु देवोद्यानेषु, नन्दनादिष्वित्यर्थः । चैत्ररथस्य पूर्वं कुरुदेशस्थत्वेनोक्तेरिदं चैत्ररथं तद्बोध्यम् । प्रयागे प्रयागस्थितभरद्वाजाश्रमवनवृक्षेष्वित्यर्थः । तेजसा प्रभावेन ॥ २।९१।४७ ॥

बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः ।

अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २।९१।४८ ॥

आहूतानां भरतशेषत्वेन विनियोगात् सैनिकानां नर्त्तकादीनि दर्शयति–बिल्वा इति । बिल्वाः बिल्ववृक्षाः । मार्दङ्गिकाः मृदङ्गवादकाः । “तदस्य शिल्पम्” इति ठक् । आसन् तद्रूपास्तत्कार्यकारिणो भवन्नित्यर्थः । विभीतकाः कलिवृक्षाः । शम्याग्राहास्तालग्राहका आसन् । “शम्या यज्ञायुधे ताले मशके च क्रियान्तरे” इति वैजयन्ती । भरते चोक्तं “वह्नितालशम्यातालक्रिया” इति ॥ २।९१।४८ ॥

ततः सरलतालाश्च तिलका नक्तमालकाः ।

प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ २।९१।४९ ॥

तत इति । सरलाः देवदारुविशेषाः । तालाः प्रसिद्धाः । तिलकाः क्षुरकनामका वृक्षाः । नक्तमालकाः करञ्जनाख्या वृक्षा । कुब्जाः स्थगुमन्तः । वामना ह्रस्वाः । सम्पेतुः सम्पन्नाः ॥ २।९१।४९ ॥

शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः ।

मालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ २।९१।५० ॥

प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।

सुराः सुरापाः पिबत पायसं च बुभुक्षिताः ।

मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २।९१।५१ ॥

अथ स्त्रीलिङ्गवृक्षाणां स्त्रीभावपरिग्रहमाह–शिंशिपेत्यादिसार्धश्लोकद्वयमेकान्वयम् । शिंशुपादयः प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः । सुरापाः हे सुरापानप्रवृत्ताः । इमाः सुराः पिबत । हे बुभुक्षिताः पायसपानेच्छवः । इदं पायसं भक्ष्यतामिति वचनविपरिणामेनानुषज्यते । सुमेध्यानि परिशुद्धानि ॥ २।९१।५०५१ ॥

उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।

अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ २।९१।५२ ॥

संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ।

परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ २।९१।५३ ॥

उच्छाद्येति । उच्छाद्य उद्वर्त्तनं कृत्वा । “उद्वर्त्तनोच्छादने द्वे” इत्यमरः । तैलादिना शशीरमर्दनं कृत्वेत्यर्थः । वल्गुषु रम्येषु । एकमेकमिति “एकम्बहुव्रीहिवत्” इति बहुव्रीहिवद्भावाभाव आर्षः । संवाहन्त्यः संवाहयन्त्यः पादसंवाहनं कुर्वन्त्यः । परिमृज्य जलार्द्रमङ्गं वस्त्रादिना परिमृज्य अलङ्कृत्येति वार्थः । अन्योन्यं रहसि पाययन्ति, सुरा इति शेषः ॥ २।९१।५२५३ ॥

हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् ।

अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २।९१।५४ ॥

हयानिति । वाहनपाः ऋषिप्रभावसिद्धा वाहनपाः वाहनरक्षकाः तेषां हयादीनां यथाविधि यथायोग्यं भोज्यम् तत्तद्वाहनानुगुणं भोज्यमित्यर्थः । हयादीन् अभोजयन् । ण्यन्तत्वाद्द्विकर्मकत्वम् । सुरभेः सुतान् वृषभान् ॥ २।९१।५४ ॥

इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।

इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ २।९१।५५ ॥

महाबलाः ऋषिप्रभावसिद्धवाहनपाः । इक्ष्वाकुवरयोधानां वाहनान् वाहनानि । इक्षून् मधुलाजान् मधुमिश्रलाजान् । “भक्ष्येण मिश्रीकरणम्” इति समासः । चोदयन्तः भक्षणार्थं प्रेरयन्तः सन्तः भोजयन्ति स्म ॥ २।९१।५५ ॥

नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रहः ।

मत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥ २।९१।५६ ॥

अश्वं बघ्नातीत्यश्वबन्धः अश्वग्राहकः । नाजानात् न ज्ञातवान् । तत्र हेमतुमाह मत्तेति । मदकरद्रव्यसेवया मत्ताः प्रमत्ताः मधुपानादिना कार्य्याकार्य्यविवेकशून्याः । मुदिताः स्रक्चन्दनादिभोगातिशयेन हृष्टाः । तत्र तदा ॥ २।९१।५६ ॥

तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः ।

अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ २।९१।५७ ॥

तर्पिता इति । अप्सरोगणाः वनलताभूताः न त्वाहूताः, तासां भरतवेश्मप्रवेशकथनात् । सैन्याः सेनायां समवेताः । उदैरयन् उक्तवन्तः ॥ २।९१।५७ ॥

नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।

कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २।९१।५८ ॥

इति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः ।

अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २।९१।५९ ॥

उदीरणप्रकारमाह–नेत्यादिना । न गमिष्याम इत्यत्र विसर्गलोपश्छान्दसः । भरतस्य कुशलमस्तु भरतो यथातथावा तिष्ठत्वित्यर्थः । एव रामस्येत्यत्रापि । पादाभ्यामतन्तीति पादात्ताः । “अत सातत्यगमने” इति धातुः । ते च ते योधाश्च पादातयोधाः । चकाराद्रथिकसमुच्चयः । हस्त्यश्वानामारोहाः सादिनः हस्त्यादिबन्धकाः तद्भृत्याः तं विधिं सत्कारं लब्ध्वा अनाथाः स्वामिरहिताः, स्वतन्त्रा इति यावत् । नैवायोध्यामित्येतां वाचमुदैरयन्निति सम्बन्धः ॥ २।९१।५८५९ ॥

सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।

भरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥ २।९१।६० ॥

नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ।

समन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ २।९१।६१ ॥

सम्प्रहृष्टा इति । विनेदुः जगर्जुः ॥ २।९१।६०६१ ॥

ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।

दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ २।९१।६२ ॥

तत इति । तदन्नं पूर्वोक्तभक्ष्यादिचतुर्विधान्नम् । भक्षणे पुनर्भक्षणे । मतिरभवत्, भक्ष्यसौष्ठवादिति भावः ॥ २।९१।६२ ॥

प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः ।

बभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः ॥ २।९१।६३ ॥

प्रेष्याः परिचारकाः । चेट्यः दास्यः । वध्वः योधाङ्गनाः । बले सेनायां तिष्ठन्तीति बलस्थाः । सर्वविशेषणमेतत् । अहतवाससः नूतनवस्त्राः । यद्वा आहतवाससः निर्णिक्तवाससः ॥ २।९१।६३ ॥

कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः ।

बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २।९१।६४ ॥

नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।

रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ २।९१।६५ ॥

कुञ्जरा इति । खरसहितोष्ट्राः खरोष्ट्राः । मृगपक्षिणः क्रीडार्थं सैनिकैरानीताः । सुभृताः सुतृप्ताः सुपुष्टा वा । तत्र सेनायाम् । अन्यः अन्यं नाकल्पयत् ऋषिकृतव्यतिरिक्तम् अन्नादिकं नाकरोदित्यर्थः ॥ २।९१।६४६५ ॥

आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ।

फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ २।९१।६६ ॥

पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ।

ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ २।९१।६७ ॥

आजैरित्यादिश्लोकद्वयमेकान्वयम् । आजैः अजमांसैः । वाराहैः वराहमांसैः । निष्ठानवरसञ्चयैः व्यञ्जनश्रेष्ठसमूहैः । “निष्ठानं व्यञ्जनं स्मृतम्” इति हलायुधः । फलनिर्यूहसंसिद्धैः सम्यङ्निष्पन्नफलयुक्तशर्करादिक्वाथरसैः । “द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके” इति वैजयन्ती । सूपैः मुद्गाढकीचणकादिसूपैः । गन्धरसान्वितैः पाकभेदोत्थगन्थरसयुक्तैः । पुष्पध्वजवतीः अलङ्कारार्थपरिकल्पितपुष्पशिल्पवतीः । शुक्लस्यान्नस्य पूर्णाः शुक्लेनान्नेन च पूर्णाः । लौही लोहमयपात्रीः । सर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देनोच्यते ॥ २।९१।६६६७ ॥

बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।

ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥ २।९१।६८ ॥

बभूवुरिति । पायसान्येव कर्दमानि येषु ते तथोक्ताः ताः । गावः पूर्वमेव वनचर्य्यः कामदुघाः यावदभीष्टक्षीरपुरकाः आसन् । “दुहः कब्घश्च” मधुस्रुतः मधुस्राविणः । (मधुश्च्युतः मधुस्राविणः) ॥ २।९१।६८ ॥

वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।

प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ २।९१।६९ ॥

वाप्य इति । अत्रासन्नित्यनुषज्यते । प्रतप्तपिठरैः प्रतप्तपिठरसंस्कृतैः “संस्कृतं भक्षाः” इत्यण् । तस्य लुक् । पिठराः कुण्डानि । “उखा स्थाली चरुः कुम्भी पिठरः कुण्डमुच्यते” इति हलायुधः । मार्गमायूरकौक्कुटैः मृगमयूरकुक्कुटमांसैः ॥ २।९१।६९ ॥

पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।

न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २।९१।७० ॥

स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ।

यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ २।९१।७१ ॥

ह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे ।

बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ २।९१।७२ ॥

पात्रीणामित्यारभ्य सञ्चया इत्यन्तमेकं वाक्यम् । पात्रीणाम् अन्नधानकुम्भीनाम् । स्थालीनां व्यञ्जनपात्राणाम् । नियुतानि लक्षाणि । न्यर्बुदानि दशकोट्यः । पात्राणि भोजनपात्राणि, अमत्राणीति यावत् । दधिपूर्णा इति स्थाल्यादित्रयविशेषणम् । स्थाल्यः पिठराः । कुम्भ्यः क्षुद्रकुम्भाः । करम्भ्यः विशालास्यगुरुस्थाल्यः । करम्भ्यः कर्कर्य इत्याहुः । सुसंस्कृताः दधिसंस्कारकशुण्ठ्यादियुक्ताः । यौवनस्थस्य नातिनूतनस्य नातिपुराणस्येत्यर्थः । मथनानन्तरं यामान्तरितस्येत्यर्थः । कपित्थस्य कपित्थपरिमलयुक्ततक्रस्येत्यर्थः । “तक्रं कपित्थं मथित्तम्” इति वैजयन्तीः । गौरस्य शुभ्रस्य । रसालस्य तक्रविशेषस्य । “अपक्वतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । सजीरकं रसालं स्यान्मज्जिका शिखरिण्यपि ॥ " इति वैजयन्ती। सव्योषं शुण्ठीपिप्पलीमरिचियुक्तम्। चतुर्जातगुडार्द्रकं चतुर्जातैः एलालवङ्गकक्कोलनागपुष्पैः गुडेन शर्करया आर्द्रकेन च युक्तम्। कपित्थेन पूर्णाः अपरे ह्रदा बभूवुः। रसालेन पूर्णा अपरे ह्रदा बभूवुः। दध्ना पूर्णाश्चापरे ह्रदाः। अन्ये पायसेन पूर्णाः। पायसस्यान्य इति पाठः। सर्वत्र तृतीयार्थे षष्ठी। तद्व्यञ्जनार्थं शर्करायाः सञ्चयाः राशयश्च बभूवुरित्यर्थः। शर्करायावसञ्चया इति च पाठः। शर्करामिश्रयवविकारापूपसञ्चया इत्यर्थः ॥ २।९१।७०७२ ॥

कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।

ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ २।९१।७३ ॥

कल्कानिति । कल्कान् आमलक्यादिकल्कान् । चूर्णकषायान् चूर्णानि माषादिचूर्णानि कषायाः क्वथितानि । स्नान्त्येभिरिति स्नानानि । तैलोष्णोदकादीनि । भाजनस्थानि कटाहादिमहापात्रस्थानि । तीर्थेषु अवतारेषु ॥ २।९१।७३ ॥

शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।

शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ २।९१।७४ ॥

दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।

पादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ २।९१।७५ ॥

आञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।

मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २।९१।७६ ॥

प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।

अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २।९१।७७ ॥

आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।

नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २।९१।७८ ॥

निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ २।९१।७९ ॥

शुक्लानिति । शुक्लान् निर्मलान् । अंशुमतः कूर्चवतः । दन्तधावनसञ्चयान् दन्तकाष्ठसमूहान् । स्नानानन्तरमलङ्कारोपकरणानि दर्शयति–शुक्लानिति । चन्दनकल्कान् चन्दनपङ्कान् । समुद्गेषु सम्पुटकेषु । “समुद्गकः सम्पुटकः” इत्यमरः । अवतिष्ठतः वर्त्तमानान् । परिमृष्टान् निर्मलीकृतान् । पादुकाः दारुनिर्म्मिताः उपानहश्चर्म्मनिर्म्मिताः । युग्मानि द्वन्द्वानि । आञ्जनीः अञ्जनयुक्ताः करण्डिकाः । कङ्कतान् केशमार्जनान् । “कङ्कत केशमार्जनम् ।” इति निघण्टुः । कूर्चान् स्नानाद्युपयुक्तासनानि श्मश्रुप्रसाधकान् वा । शस्त्राणि योधैरलङ्कारार्थं धार्य्याणि । मर्मत्राणानि कवचादीनि । प्रतिपानह्रदान् ग्रासग्रहणानन्तरं भुक्तजीर्णार्थं पानार्हह्रदान् । अवगाह्यसुतीर्थान् अवगाहनयोग्यावतारप्रदेशयुक्तान् । सोत्पलपुष्करान् उत्पलमिन्दीवरम्, पुष्करं पद्मम् । आकाशवर्णप्रतिमान् आकाशवन्निर्म्मलानित्यर्थः । सुखप्लवान् सुखेन प्लवः स्नानं येषु तथोक्तान् । यवससञ्चयान् तृणसमूहान् । “यवसंतृणमर्ज्जुनम्” इत्यमरः । पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान् ॥ २।९१।७४७९ ॥

व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।

दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २।९१।८० ॥

इत्येवं रममाणानां देवानामिव नन्दने ।

भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २।९१।८१ ॥

व्यस्मयन्तेति । स्वप्नकल्पत्वोक्तिरयत्नसिद्धत्वात् अपूर्वत्वात् आश्चर्य्यकरत्वाच्च तादृक् वाचामभूमिम् । भरतस्य भरताय ॥ २।९१।८०८१ ॥

प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।

भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ २।९१।८२ ॥

प्रतिजग्मुरिति । अनुज्ञाप्य अनुज्ञां कारयित्वा ॥ २।९२।८२ ॥

तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ।

तथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥ २।९१।८३ ॥

इदं चातिथ्यकरणमैन्द्रजालिकवन्न मिथ्येत्याह–तथैवेति । मत्ताः दृप्ताः भोगैस्तृप्ताः मदिरोत्कटाश्च मद्येन मत्ताश्च । “मत्ते शौण्डोत्कटक्षीबाः” इत्यमरः । तथैव अनुभवकाल इवावर्त्तिषतेत्यर्थः । प्रमर्दिताः प्रकीर्णाश्च भोगवशादिति भावः । पृथक् पूर्वस्रग्भ्यो विलक्षणाः ॥ २।९१।८३ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकनवतितमः सर्गः ॥ ९१ ॥