भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः ।
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ २।९०।१ ॥
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २।९०।२ ॥
भरद्वाजाश्रममित्यादिश्लोकद्वयमेकान्वयम् । क्रोशादेव क्रोशात् पूर्वमेव, क्रोशमात्रव्यवहितदेश इत्यर्थः । न्यस्तशस्त्रपरिच्छदः परिच्छदः आभरणादिकं भृङ्गाराद्युपकरणजातं च । वसानो वाससी क्षौमे भरद्वाजसेवार्थमुष्णीषकञ्चुकादिकमपहाय परिधानमुत्तरीयं च धृत्वा गत इत्यर्थः । ननु पूर्वं जटाचीराणि धारयन्नित्युक्तं जटिलं चीरवसनमिति च वक्ष्यति, कथमत्र क्षौमवासस्त्वमुच्यते ? नैष दोषः, पूर्वं प्रतिज्ञामात्रं कृतम्, भरद्वाजाश्रमात्परं जटाधारणमिति । पुरोधाय पुरस्कृत्य ॥ २।९०।१२ ॥
ततः सन्दर्शने तस्य भरद्वाजस्य राघवः ।
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २।९०।३ ॥
तत इति । सन्दर्शने दूराद्दर्शने । राघवः रघुवंशवृत्ताभिज्ञः । अनुपुरोहितं पुरोहितस्य पश्चात् । अनोः पश्चादर्थे ऽव्ययीभावः ॥ २।९०।३ ॥
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः ।
सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥ २।९०।४ ॥
वसिष्ठमिति । सञ्चचाल उदतिष्ठत् । अर्ध्यम्, आनयतेति शेषः ॥ २।९०।४ ॥
समागम्य वसिष्ठेन भरतेनाभिवादितः ।
अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥ २।९०।५ ॥
समागम्येति । सवयस्कत्वान्नमस्काराभावः । अबुध्यतेति वसिष्ठसाहचर्य्यादिति भावः ॥ २।९०।५ ॥
ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।
आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ २।९०।६ ॥
ताभ्यामिति । आनुपूर्व्यात् प्रधानक्रमात् धर्मज्ञः पूजाक्रमधर्म्मज्ञः । कुले गृहे ॥ २।९०।६ ॥
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।
जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २।९०।७ ॥
अयोध्यायामिति । वृत्तम् अतीतम्, मृतमिति यावत् । नोदाहरत् तत्प्रसङ्गमेव न कृतवान् ॥ २।९०।७ ॥
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।
शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २।९०।८ ॥
तपोधनानां शरीराग्न्यादेः तपस्साधनत्वात् मृगपक्ष्यादीनामाश्रमवासित्वेन शिष्यवत् प्रीतिविषयत्वाच्च तद्विषयः प्रश्नः कृत इत्याह–वसिष्ठ इत्यादिना ॥ २।९०।८ ॥
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः ।
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २।९०।९ ॥
तथेति तत्प्रतिज्ञाय सर्वत्र तत्पृष्टमनामयमङ्गीकृत्य । राघवस्नेहबन्धनात् राधवविषये स्नेहानुबन्धनात् । नतु भरते दोषदर्शनात् ॥ २।९०।९ ॥
किमिहागमने कार्य्यं तव राज्यं प्रशासतः ।
एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मनः ॥ २।९०।१० ॥
किमिति । न शुद्ध्यते शुद्धिं न प्राप्नोति, न विश्वसितीति यावत् ॥ २।९०।१० ॥
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २।९०।११ ॥
नियुक्तः स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशाः ।
वनवासी भवेतीह समाः किल चतुर्दश ॥ २।९०।१२ ॥
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २।९०।१३ ॥
सुषुव इत्यादिश्लोकत्रयमेकान्वयम् । नन्दवर्द्धनम् आनन्दवर्द्धनम् । चिरं प्रव्राजितः चिरकालमुद्दिश्य प्रव्राजितः । यः एतादृशः तस्य रामस्य राज्यमकण्टकं भोक्तुमनाः अपापस्य तस्यानुजस्य च पापं कर्त्तुं नेच्छसि कच्चिदिति सम्बन्धः ॥ २।९०।१११३ ॥
एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह ।
पर्य्यश्रुनयनो दुःखाद्वाचा संसज्जमानया ॥ २।९०।१४ ॥
एवमिति । पर्य्यश्रुनयनः परिस्रुताश्रुनयनः । संसज्जमानया स्खलन्त्या ॥ २।९०।१४ ॥
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।
मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २।९०।१५ ॥
हत इति । हतो ऽस्मि व्यर्थजन्मास्मि । भगवानपि भूतभविष्यद्वर्तमानज्ञो ऽपीत्यर्थः । मत्तः मत्सकाशात् । मयि दोषं नाशङ्के नोत्प्रेक्षे मत्कृतो दोषो नास्तीति सन्देहोपि मे नास्तीत्यर्थः । अभावादिति भावः । अतो मामेवं नानुशाधि एवं कर्णारुन्तुदं वक्तुं नार्हसि ॥ २।९०।१५ ॥
न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २।९०।१६ ॥
मातृकृतं त्वत्कृतमेवेत्याशङ्क्याह–नेति । मदन्तरे मदसन्निधौ । नाददे नाङ्गीकृतवानस्मि ॥ २।९०।१६ ॥
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः ।
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २।९०।१७ ॥
अहमिति । प्रसादकः प्रसादयितुम् । “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति ण्वुल् ॥ २।९०।१७ ॥
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।
शंस मे भगवन् रामः क्व सम्प्रति महीपतिः ॥ २।९०।१८ ॥
त्वमिति । एवंगतं एवं बुद्ध्वा प्राप्तं महीपतिः, वर्त्तत इति शेषः ॥ २।९०।१८ ॥
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्ततः ।
उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ॥ २।९०।१९ ॥
वसिष्ठादिभिरिति । याचितः भरताय प्रसन्नो भवेति प्रार्थितः । प्रसादादुवाच प्रसादं प्राप्योवाच । ल्यब्लोपे पञ्चमी ॥ २।९०।१९ ॥
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २।९०।२० ॥
त्वयीति । गुरुवृत्तिः ज्येष्ठानुवर्त्तनम् । दम इन्द्रियनिग्रहः, राज्यालोलत्वमिति यावत् । साधूनां चानुयायिता सच्चित्तानुवर्त्तनम् । इत्येतत्त्रयं त्वयि युक्तमित्यन्वयः ॥ २।९०।२० ॥
जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति ।
अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २।९०।२१ ॥
जान इति । जाने योगप्रभावेनेति शेषः । दृढीकरणमस्त्वित्यपृच्छं स्थूणानिखननन्यायेन दृढीकर्तुमपृच्छमित्यर्थः । कीर्तिं रामविषयसौभ्रात्रजनितां समभिवर्द्धयन् । “लक्षणहेत्वाः क्रियायाः” इति हेत्वर्थे शतृप्रत्ययः ॥ २।९०।२१ ॥
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।
असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २।९०।२२ ॥
जान इति । रामं जाने देशविशेषे स्थितं रामं जान इत्यर्थः ॥ २।९०।२२ ॥
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ।
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २।९०।२३ ॥
श्व इति । काममभीष्टं कामार्थकोविद काङ्क्षितार्थप्रदानदक्षेत्यर्थः ॥ २।९०।२३ ॥
ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतो ऽब्रवीद्वचः ।
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मजः ॥ २।९०।२४ ॥
तत इति । प्रतीतरूपः प्रसिद्धकीर्तिः । “रूपं यशस्याभिरूप्ये वर्णे चैव निरूपणे” इति निघण्टुः । यद्वा प्रतीतरूपः प्रकर्षेण हृष्टः । प्रशंसायां रूपप् । चकार बुद्धिं चेति नह्युक्तिरन्या बुद्धिरन्येति भावः ॥ २।९०।२४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितमः सर्गः ॥ ९० ॥
इति श्रीगोविन्दराज० श्रीरामायणभूषणे पीता० अयोध्याकाण्डव्याख्याने नवतितमस्सर्गः ॥ ९० ॥