व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ २।८९।१ ॥
व्युष्येति । व्युष्य उषित्वा । रात्रिं रात्रौ । तत्रैव यत्र रामो ऽशयिष्ट तत्रैव । काल्यं प्रत्यूषः । “प्रत्यूषो ऽहर्मुखं काल्यम्” इत्यमरः । तस्मिन्नित्यर्थः ॥ २।८९।१ ॥
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ २।८९।२ ॥
शत्रुघ्नेति । शत्रुघ्नं भद्रं त इति सान्त्वोक्तिः । वाहिनीं गङ्गाम् । अस्मानित्यर्थसिद्धम् ॥ २।८९।२ ॥
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।
इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदितः ॥ २।८९।३ ॥
जागर्मीति । नाहं स्वपिमि जागर्मीति भ्रात्रा प्रचोदितः शत्रुघ्नोपि तमेवार्यं यस्त्वया चिन्त्यते तमेवार्यं विचिन्तयन् सन् अहमपि जागर्मि न स्वपिमि इत्येवमब्रवीत् । तथैवेति पाठे–यथा त्वं तथैवाहमार्यं विचिन्तयन्नित्यर्थः ।
चरमपर्वनिष्ठस्य प्रथमपर्वाभिनिवेशस्तत्प्रतीत्यर्थतयेति व्यञ्जितम् । ऽतदवस्थं तु भरतुं शत्रुघ्नो ऽनन्तरस्थितःऽ इति हि पूर्वमप्युक्तम् ॥ २।८९।३ ॥
इति संवदतोरेवमन्योन्यं नरसिंहयोः ।
आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥ २।८९।४ ॥
इतीति । संवदतोः सतोः काले गमनोचितकाले ॥ २।८९।४ ॥
कच्चित्सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम् ।
कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ॥ २।८९।५ ॥
कच्चिदिति । शर्वरीं तावत् शर्वर्यां साकल्येन । “यावत्तावच्च साकल्ये” इत्यमरः । सहसैन्यस्य ते सेनासहितस्य तव । सर्वमुपकरणम् अनामयं निरुपद्रवम् ॥ २।८९।५ ॥
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ॥ २।८९।६ ॥
गुहस्येति । रामस्यानुवशः रामायत्तः ॥ २।८९।६ ॥
सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥ २।८९।७ ॥
सुखेति । सुखा सुखावहा, जातेति शेषः । राजन्निति रामभक्ततया स्तौति । ते त्वया ॥ २।८९।७ ॥
ततो गुहः संत्वरितं श्रुत्वा भरतशासनम् ।
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ २।८९।८ ॥
तत इति । प्रतिप्रविश्य पुनः प्रविश्य ॥ २।८९।८ ॥
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः सदा ।
नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ २।८९।९ ॥
उत्तिष्ठतेति । प्रबुध्यध्वम् उत्तिष्ठतेति क्रमः । तारयिष्यामेत्यत्र विसर्गलोप आर्षः । तारयिष्यामीति च पाठः ॥ २।८९।९ ॥
ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥ २।८९।१० ॥
नावां पञ्चशतानीत्यन्वयः । समन्ततः सर्वावतारेभ्यः ॥ २।८९।१० ॥
अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः ।
शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः ॥ २।८९।११ ॥
अन्या इति । अन्याः क्षुद्राभ्यः पञ्चशतनौभ्यः अन्याः स्वस्तिकविज्ञेयाः ऽस्वस्तिकः सर्वतो भद्रःऽ इत्युक्तस्वस्तिकाख्यरचनाविशेषविशिष्टतया निर्मितत्वात् स्वस्तिका इति विज्ञेयाः । ताश्च नौद्वयसङ्घटनेन सम्पद्यन्ते । चतुर्षु कोणेषु महाघण्टाधराः । वराः राजार्हतया श्रेष्ठाः । शोभमानाः कनकरूषिततया शोभमानाः । युक्तवाताः फलककुड्यकरणेन मध्येमध्ये गवाक्षनिर्माणेन च महावातनिवारणादुचितवाताः । सुसंहताः राजारोहणस्थानत्वेनायसकीलादिभिर्दृढसन्धिबन्धाः । अत्रापि नाव आनित्युरित्यनुकृष्यते ॥ २।८९।११ ॥
ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।
तामारुरोह भरतः शत्रुघ्नश्च महाबलः ॥ २।८९।१२ ॥
तत इति । ततः तासु स्वस्तिकविज्ञेयादिषु मध्ये पाण्डुकम्बलेन संवताम् आच्छन्नतलप्रदेशाम् । सनन्दिघोषां हर्षजनककिङ्किण्यादिघोषयुक्ताम् । कल्याणीं शोभनाम् ॥ २।८९।१२ ॥
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।
पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।
अनन्तरं राजदारास्तथैव शकटापणाः ॥ २।८९।१३ ॥
भरतशत्रुघ्नव्यतिरिक्तानामन्यासु नौष्वारोहणक्रममाह–कौसल्येत्यादिना । राजयोषितः आगता इति शेषः । तत्पूर्वं तासां पूर्वं पुरोहितो गुरवो ब्राह्मणाश्च ये आगतास्ते आरुरुहुः । अनन्तरं राजदाराः कौसल्यादयः आरुरुहुः ।
तथैव शकटापणाः शकटाश्चापणस्थपदार्थाश्चारुरुहुः । एतदारोहणं कर्त्तृद्वारा ॥ २।८९।१३ ॥
आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ २।८९।१४ ॥
आवासं सेनानिवेशम् । आदीपयताम् अग्निना ज्वलयताम् । राजभटा हि निर्गमनकाले श्रीसमागमार्थमावासं दहन्तीति प्रसिद्धिः । तीर्थम् अवतरणप्रदेशम् । अवगाहतां नावारोहणार्थमहमहमिकया आगच्छतामित्यर्थः । स्नानं कुर्वतामिति वा । भाण्डानि उपकरणानि । आददानानां मदीयमिदं मदीयमिदमिति त्वरया स्वीकुर्वतां जनानाम् । घोषस्त्रिदिवमस्पृशत् महान् घोषो जात इत्यर्थः ॥ २।८९।१४ ॥
पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः ।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥ २।८९।१५ ॥
पताकिन्य इति । पताकिन्यः वाय्वाकर्षणाय कृतपताकाः स्वयं संपेतुः आशुगत्वेन दाशाधिष्ठानमात्रेणानायासेन जग्मुरित्यर्थः ॥ २।८९।१५ ॥
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।
काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ २।८९।१६ ॥
सम्प्रति ता नावः कीदृग्विधा इत्यपेक्षायामाह–नारीणामित्यादि । नारीणामभिपूर्णाः नारीभिरभिपूर्णाः । वाजिनामभिपूर्णाः आरोहणार्हवाजिभिरभिपूर्णाः । दघ्नः पूर्ण इति महाभाष्यकारवचनप्रामाण्यात् पूर्ण शब्दयोगे “पूरणगुण–” इत्यादिना षष्ठी तृतीयार्थे षष्ठी वा । यानयुग्यं यानानि रथशकटादीनि युग्यानि अश्वतरबलीवर्दादीनि । “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इत्येकवद्भावः । महाधनं बहुमूल्यम् । “बहुमूल्यं महाधनम्” इत्यमरः ॥ २।८९।१६ ॥
ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ २।८९।१७ ॥
ता इति । काण्डचित्राणि काण्डे वारिणि चित्राणि चित्र गमनानि क्रियन्ते अक्रियन्त । “काण्डो ऽस्त्री दण्डबाणार्ववर्गावसरवारिषु” इत्यमरः । दाशबन्धुभिः दाशाभासैः दाशस्य गुहस्य बन्धुभिरिति वा । भाराभावकृतलाघवातिशयेन निवर्तनकालिकदाशलीलोच्यते ॥ २।८९।१७ ॥
सवैजयन्तास्तु गजा गजारोहप्रचोदिताः ।
तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ २।८९।१८ ॥
सवैजयन्ता इति । सवैजयन्ताः सपताकाः सगृहा वा । राजानो हि गजोपरि गृहाणि निर्माय गच्छन्ति । तरन्तः प्लवन्तः “तृ़ प्लवनतरणयोः” । सध्वजाः सगमनाः “ध्वज गतौ” जङ्गमपर्वता इव प्रकाशन्ते इत्यर्थः ॥ २।८९।१८ ॥
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥ २।८९।१९ ॥
नाव इति । नावः क्षुद्रनावः प्लवैः तृणकाष्ठनिर्मितैः कुम्भघटैः कुम्भरूपघटैः सूक्ष्मवदना घटाः कुम्भाः ते हि तरणसाधनानि न घटमात्रम् । बाहुभिः केवल बाहुभिः ॥ २।८९।१९ ॥
सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम् ।
मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ॥ २।८९।२० ॥
सेति । पुण्या गङ्गास्रानादिना पूता । ध्वजिनी सेना स्वयं नतु परप्रेरणेन । मैत्रे मुहूर्ते दिवसस्य पञ्चदशभागेषु घटिकाद्वयात्मके तृतीये मुहूर्ते “द्वे तु नाड्यो मुहूर्तो ऽस्त्री” इति वैजयन्ती । मुहूर्तसंख्योक्ता बृहस्पतिना–ऽरौद्रः सार्पस्तथा मैत्रः पैत्रो वासव एव च । आप्यो वैश्वस्तथा ब्राह्मप्राजेशैन्द्रास्तथैव च । ऐन्द्राग्नो नैऋतश्चैव वारुणार्यमणौ भगी । एते ऽह्नि क्रमशो ज्ञेया मुहूर्ता दशपञ्च चऽ इति । (पाठभेदः । तस्य मैत्रनामत्वं विन्ध्यमाधवीये प्रोक्तं यथा–“आर्द्रोरगमित्रमघावसुजलविश्वाभिजिद्विरिञ्चेन्द्राः । ऐन्द्राग्नमूलवरुणार्यमभगयुक्ता दिवामुहूर्ताः स्युः ॥ " इति । मैत्रे मुहूर्त्ते तारिता सती प्रयागवनं ययावित्यन्वयः । घटिकाषट्क एव गङ्गातरणमिति भावः । यद्वा मैत्रे प्रयागवनं ययावित्यन्वयः । तत्रातिथ्येन निरवधिकभोगलाभात् मुहूर्त्तविशेषोक्तिः ) ॥ २।८९।२० ॥
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृतः सन् भरतः प्रतस्थे ॥ २।८९।२१ ॥
आश्वासयित्वेति । आश्वासयित्वा सान्त्वयित्वा । यथोपजोषं यथासुखम् । “तूष्णीमर्थे सुखे जोषम्” इति वैजयन्ती । ऋषिप्रवर्यम् ऋषिश्रेष्ठम् (पाठभेदः । आश्वासयित्वेति । महात्मा महामतिः । स्वयं खिन्नोपि अखिन्न इव पराश्वासनपरः भरतः राज्यभरणदक्षः ऽभरत इति राज्यस्य भरणात्ऽ इति सहस्रानीकवचनात् । चमूं महाजनम् । अविशेषेण आश्वासयित्वा महानायासो वो जात इति प्रियोक्तिभिः सान्त्वयित्वा यथोपजोषं यथासुखं निवेशयित्वा यत्र प्रदेशे तेषां सुखं भवति तत्र प्रदेशे तान्निवेशयित्वा । प्रवर्षं प्रकृष्टवर्षम् । बहुवयस्कमिति यावत् । “भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास तं ह जीर्णिं स्थविरं शयानम्” इति श्रुतेः । एतेन वयोवृद्धत्वमुक्तम् । ज्ञानवृद्धत्वमाह ऋषिमिति । “ऋष दर्शने” इति धातुः । भरद्वाजं “बृहतो भरद्वाजः” इति श्रुतिप्रसिद्धम्) द्रष्टुं दर्शनपूर्वकमभिवन्दिन्तुम् । तादृशस्य ऋषेर्विनीतवेषदर्शनीयत्वेन ऋत्विग्भिर्वसिष्ठादिभिः वृतः सन् प्रतस्थे पद्भ्यामेव जगाम ॥ २।८९।२१ ॥
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ॥ २।८९।२२ ॥
स ब्राह्मणस्येति । ब्राह्मणस्य ब्रह्म वेदः तदधीते ब्राह्मणः । “तदधीते तद्वेद” इत्यण्प्रत्ययः । अधीतबहुवेदस्येत्यर्थः । “भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास” इत्यादिना काठके तथाभिधानात् । महात्मनो महाज्ञानस्य । देवपुरोहितस्य बृहस्पतिपुत्रत्वेन देवपुरोहितत्वम् । “आत्मा वै पुत्त्रनामासि” इति न्यायात् । भरद्वाजो ममताख्यायामुचथ्यभार्यायां बृहस्पतेर्ज्जात इति भागवते प्रसिद्धम् । आश्रममभ्युपेत्य आश्रममुद्दिश्य गत्वा । प्रथम तस्य महद्वनं ददर्श । (पाठभेदः । स इति । ब्राह्मणस्य ब्रह्म परमात्मानं वेत्तीति ब्राह्मणः । “तदधीते तद्वेद” इत्यण्प्रत्ययः । उत्तरसर्गरीत्या समाधिबलेन समस्तवस्त्वाह्वानक्षमस्येत्यर्थः । यद्वा “ब्रह्मबृहस्पतिः” इति श्रुत्या ब्रह्मणो बृहस्पतेरपत्यं ब्राह्मणः तस्य महात्मनः महास्वभावस्य, अचिन्त्यशक्तेरित्यर्थः । देवपुरोहितस्य देवपुरोहितपुत्रत्वात् ऽआत्मा वै पुत्रनामासिऽ इतिश्रुतेः) विप्रवरस्य निरवधिकवेदाध्ययनसम्पन्नस्य । “जन्मना जायते शूद्रः कर्मणा जायते द्विजः । वेदाभ्यासेन विप्रत्वं ब्रह्म जानाति ब्राह्मणः ।” इत्यादि स्मृतेः । श्रुतिश्चास्य निरवधिकवेदाध्ययनसम्पत्तिं दर्शयति “भरद्वाज यत्ते चतुर्थमायुर्दद्यां किमनेन कुर्या इति ब्रह्मचर्यमेवैनेन चरेयमिति होवाच” इत्यादिना । आश्रममभ्युपेत्य प्राप्य रम्योटजवृक्षषण्डं रमणीयपर्णशालाप्रान्तवर्तिवृक्षसमूहयुक्तम् । रम्यं स्वत एव मनोज्ञप्रदेशम् । महत् स्वसेनानिवेशक्षमं वनं ददर्श ॥ २।८९।२२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोननवतितमः सर्गः ॥ ८९ ॥