गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।
ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ २।८७।१ ॥
गुहस्येति । यत्र तत्रैव यत्र क्षणे अप्रियं श्रुतं तत्रैवेत्यर्थः । यद्वा यत्र विषये अप्रियं श्रुतं तत्रैव ध्यानं जगाम स्वाभिलषितकार्य्यसङ्कटं जातमिति चिन्तापारवश्यं प्राप्त इत्यर्थः ॥ २।८७।१ ॥
सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।
पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ २।८७।२ ॥
प्रत्याश्वस्य मुहूर्त्तं तु कालं परमदुर्मनाः ।
पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः ॥ २।८७।३ ॥
सुकुमारइत्यादिश्लोकद्वयमेकान्वयम् । प्रत्याश्वस्य मुहूर्त्तं कालं परमदुर्मनाः सन् सहसा पपात । ससादेति वा पाठः । सुकुमार इत्यादिना तदवस्थानर्हत्वमुच्यते ॥ २।८७।२३ ॥
तदवस्थं तु भरतं शत्रुघ्नो ऽनन्तरस्थितः ।
परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः ॥ २।८७।४ ॥
ततः सर्वाः समापेतुर्मातरो भरतस्य ताः ।
उपवासकृशा दीना भर्त्तुर्व्यसनकर्शिताः ॥ २।८७।५ ॥
तदवस्थमिति । अनन्तरस्थितः निरन्तरं समीपे स्थितः ॥ २।८७।४५ ॥
ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।
कौसल्या त्वनुसूत्यैनं दुर्मनाः परिषस्वजे ॥ २।८७।६ ॥
ता इति । अनुसृत्य समीपं प्राप्य ॥ २।८७।६ ॥
वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।
परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ २।८७।७ ॥
वत्सलेति । उपगूह्य परिष्वज्य ॥ २।८७।७ ॥
पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते ।
अद्य राजकुलस्यास्य त्वदधीनं च जीवितम् ॥ २।८७।८ ॥
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।
वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ २।८७।९ ॥
पुत्रेति । नहि भरतस्य व्याधिश्चातुर्थिकः, अपितु रामविरह एव । रामविरहः ते शरीरं बाधते कच्चिदित्यर्थः । अद्येति रामो वनं गतः चक्रवर्त्ती तु संस्थितः । अतस्त्वमेवेदानीमस्माकं रक्षक इति नार्थः, किन्तु रामे भवतो मुखवैवर्ण्यं दृष्ट्वा न पुनरनागतो भवेत्, अवश्यमागमिष्यतीत्येतदवेक्ष्य वयं जीवामः । भवान्नास्तीति श्रुतं चेत् क इमां दिशमवलोकयेत् ॥ २।८७।८९ ॥
कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् ।
पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ २।८७।१० ॥
कच्चिदिति । लक्ष्मणे विषये ते त्वया एकपुत्रायाः, ममेति शेषः ॥ २।८७।१० ॥
स मुहूर्त्तं समाश्वस्य रुदन्नेव महायशाः ।
कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ २।८७।११ ॥
भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः ।
अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ २।८७।१२ ॥
स इति । परिसान्त्व्य त्वच्छङ्कितं किमपि न भवेदिति वदन्, परिसान्त्व्येत्यर्थः ॥ २।८७।१११२ ॥
सो ऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः ।
यद्विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ ॥ २।८७।१३ ॥
स इति । गुहः हृष्टः रामवृत्तान्तकीर्त्तनस्यावकाशो लब्ध इति सञ्जातहर्षः सन् । रामे यद्विधं यादृशम् उपचारादिकम् । प्रतिपेदे अकरोदिति यावत् । तदब्रवीत् । चकारेण रामकृतं समुच्चीयते ॥ २।८७।१३ ॥
अन्नमुच्चावचं भक्षाः फलानि विविधानि च ।
रामा याम्यवहारार्थं बहु चोपहृतं मया ॥ २।८७।१४ ॥
अन्नमिति । उच्चावचं नानाविधमित्यर्थः । भक्षाः भक्षणीयानि अपूपादीनि । अभ्यवहारार्थं भोजनार्थं बहु चेति अन्यच्च बहुचोष्यलेह्यादिकमुपाहृतम् ॥ २।८७।१४ ॥
तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः ।
न तु तत्प्रत्यगृह्णात् स क्षत्रधर्ममनुस्मरन् ॥ २।८७।१५ ॥
तत्सर्वमिति । रामः तन्न प्रत्यगृह्णात्, किन्तु तत्सर्वं प्रत्यनुज्ञासीत् प्रत्यन्वज्ञासीत्, पुनर्नीयतामित्यनुज्ञातवान् । क्षत्त्रधर्मं दानमेव क्षत्त्रधर्मः न त्वादानमिति । अत्र हीनजातिपरिग्रहत्वात्तत्प्रत्याख्यानम् ऋषिभ्यस्तु स्वीकरिष्यतीत्याहुः ॥ २।८७।१५ ॥
न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।
इति तेन वयं राजन्ननुनीता महात्मना ॥ २।८७।१६ ॥
प्रत्यनुज्ञाने हेतुमाह–नेत्यादिना । इत्यनुनीता वयमित्यनेन स्वाङ्घ्रिभक्ताग्रेसरगुहसमर्पितफलादेर्भक्तिपूतत्वेन शबरीविदुरादिन्यायेन परमभागवततया स्वीकार्यत्वेपि स्वप्रियतमपितृमातृप्रमुखबहुजनविश्लेषदुःखप्राग्भारानुभवजनितवैमनस्येन पुण्यनदीतीरे उपवासचिकीर्षया च गुहसमर्पितं न प्रतिजग्राह राम इति च गुहेनापि विदितमिति गम्यते ॥ २।८७।१६ ॥
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।
औपवास्यं तदा ऽकार्षीद्राघवः सह सीतया ॥ २।८७।१७ ॥
लक्ष्मणेनेति । औपवास्यम् । उपवासम् । स्वार्थे ष्यञ् ॥ २।८७।१७ ॥
ततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा ।
वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ २।८७।१८ ॥
तत इति । जलशेषेण रामपीतजलशेषेण अकरोत्, पानमिति शेषः । वाग्यताः नियतवाचः । सीताया अपि सन्ध्यायां ध्यानजपादिकमस्त्येव । संहिताः समाहिताः । ननु पूर्वं पुरोवादे “ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् । जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ " इत्युक्तम्। कथमत्रानुवादे प्रथमं जलादानं पश्चात्सन्ध्योपासनं चोच्यते ? सत्यम् तथैव क्रमः। इह तु गुहानीतान्नानङ्गीकारे किं भुक्तवान् राम इत्याकाङ्क्षायां लक्ष्मणेन यद्वार्यानीतं तत्पीतमिति प्रसङ्गसङ्गत्या जलपानं प्रथममुक्त्वाऽथ सन्ध्योपासनमुक्तमिति न दोषः ॥ २।८७।१८ ॥
सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम् ।
स्वयमानीय बर्हीषि क्षिप्रं राघवकारणात् ॥ २।८७।१९ ॥
सौमित्रिरिति । ततः पश्चात् वारिपानानन्तरम् । स्वयं बर्हीषि कुशान् “बर्हिर्नाग्नौ न ना कुशे” इति वैजयन्ती । क्षिप्रमानीय राघवकारणात् राघवनिमित्तम् । शुभं पवित्रं स्वास्तरं सुष्ठु आस्तीर्णम्, शयनमिति यावत् । अकरोत् कृतवान् ॥ २।८७।१९ ॥
तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया ।
प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ २।८७।२० ॥
तस्मिन्निति । पादौ प्रक्षाल्य गङ्गातीरगमनकृतपङ्कशोधनं कृत्वेत्यर्थः । इदं च रामस्य स्वहस्ताभ्यां सीतायास्तूदकप्रदानेनेति बोध्यम् । अपचक्राम शयनकाले समीपवर्त्तनस्यानुचितत्वात् दूरे स्थितः ॥ २।८७।२० ॥
एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।
यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ २।८७।२१ ॥
एतदिति । शयितौ “गत्यर्थाकर्मकश्लिषशीङ् –” इत्यादिना कर्त्तरि निष्ठा ॥ २।८७।२१ ॥
नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैः सुपूर्णाविषुधी परन्तपः ।
महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितो ऽस्य केवलम् ॥ २।८७।२२ ॥
नियम्येति । पृष्ठे पश्चाद्भागे । इषुधी तूणीरद्वयं नियम्य बद्ध्वा, शूराणां सव्यापसव्यप्रयोगार्थमिषुधिद्वयधारणमस्ति । तलाङ्गुलित्रवान् “तलं ज्याघातवारणम्” इत्यमरः । उपोह्य धृत्वा अस्य परितो ऽतिष्ठत्, सर्वतोरक्षणार्थं प्रदक्षिणं चचारेत्यर्थः । निशां निशायाम् । अत्यन्तसंयोगे द्वितीया । केवलमित्यनेन शयननिद्राराहित्यं लक्ष्मणस्योच्यते ॥ २।८७।२२ ॥
ततस्त्वहं चोत्तमबाणचापधृत् स्थितो ऽभवं तत्र स यत्र लक्ष्मणः ।
अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ॥ २।८७।२३ ॥
तत इति । अहं चोत्तमबाणचापधृत् एको भ्राता नगरात् वनानि निरगमयत्, अयमपरः सुषुप्तिदशायां किमपि कुर्य्यादिति शङ्कया सज्जायुधः सन् यत्रयत्र स लक्ष्मणः स्थितः तत्रतत्र स्थितो ऽभवम्, प्रतिपदं तमनुसृतवानभवमित्यर्थः । अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैः मम परिकराश्च अयं वनचरो निषादजातीयः रामे किञ्चित्करिष्यति चेत् एनं च प्रहराम इति सावधाना मां प्रतिपदमन्वसरन्नित्यर्थः । एवमस्थाने भयशङ्किभिः कृतम्, वस्तुतः स न केनचित् परिभाव्य इत्याह महेन्द्रकल्पमिति ॥ २।८७।२३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्ताशीतितमः सर्गः ॥ ८७ ॥