०८६ गुहेन रामवृत्तान्तकथनम्

आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मनः ।

भरतायाप्रमेयाय गुहो गहनगोचरः ॥ २।८६।१ ॥

आचचक्ष इत्यादि । अथ आश्वासनानन्तरम् । सद्भावं ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् । आचचक्ष इत्यादि भगवद्विषयोपदेशे नूतनपुरातनविभागो नास्ति । देशिका वक्तारः सादराः श्रोतार इत्याह । आङीषदर्थे । स्ववागिन्द्रियविषयमेवावदत् नतु कार्त्स्न्येन । अथ भरतस्वभावज्ञानानन्तरम् । सद्भावं ऽबाल्यात्प्रभृति सुस्निग्धःऽ इति सत्ताव्याप्तं स्वभावम् । लक्ष्मणस्य महात्मनः । पयोधिं पाणिना परिच्छेत्तुमुद्युक्तः भरतायाप्रमेयाय एतादृशस्योपदेष्टेति नास्ति, गुहो गहनगोचरः वन्यवृक्षादितारतम्यमात्रज्ञः एतादृशस्वभावमविज्ञातवान् । यद्वा रामविरहेण कुत्रचित् कुञ्जे स्थितः तद्देशीयागमने समुत्थाय निर्गतः ॥ २।८६।१ ॥

तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् ।

भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रुवम् ॥ २।८६।२ ॥

इयं तात सुखा शय्यात्वदर्थमुपकल्पिता ।

प्रत्याश्वसि हि शेष्वास्यां सुखं राघवनन्दन ॥ २।८६।३ ॥

भरतस्य रामविषयस्नेहमभिवर्द्धयितुं लक्ष्मणस्य ज्येष्ठानुवर्तनरूपं पूर्ववृत्तान्तमाह–तं जाग्रतमित्यादिना । भ्रातृगुप्त्यर्थम् अत्यन्तं जाग्रतं शरचापासिधारिणम् एकहस्ते शरयुक्तचापम् अपरहस्ते असिं च दधानमित्यर्थः । गुणैर्भ्रातृभक्यादिगुणैर्युक्तम् ॥ २।८६।२३ ॥

उचितो ऽयं जनः सर्वो दुःखानां त्वं सुखोचितः ।

धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥ २।८६।४ ॥

उचित इति । तस्य रामस्य ॥ २।८६।४ ॥

नहि रामात् प्रियतरो ममास्ति भुवि कश्चन ।

मोत्सुकोभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ॥ २।८६।५ ॥

नहीति । मोत्सुकोभूः अस्यां रात्रौ रामरक्षणौत्सुक्यं मा कृथा इत्यर्थः । एतद्रक्षणं प्रति तवाग्रतः असत्यं ब्रवीम्यपि ब्रवीमि किम् ? न ब्रवीम्येवेत्यर्थः ॥ २।८६।५ ॥

अस्य प्रसादादाशंसे लोके ऽस्मिन् सुमहद्यशः ।

धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ २।८६।६ ॥

स्वस्यैहिकमामुष्मिकं च फलं रामायत्तमित्याह–अस्येत्यादिना । धर्मावाप्तिम् आमुष्मिकफलसाधनसिद्धिम् केवलां न्यायप्राप्तामिति यावत् ॥ २।८६।६ ॥

सो ऽहं प्रियसखं रामं शयानं सह सीतया ।

रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह ॥ २।८६।७ ॥

नहि मे ऽविदितं किञ्चिद्वने ऽस्मिंश्चरतः सदा ।

चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ॥ २।८६।८ ॥

एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना ।

अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ २।८६।९ ॥

कथं दाशरथौ भूमौ शयाने सह सीतया ।

शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ २।८६।१० ॥

यो न देवासूरैः सर्वैः शक्यः प्रसहितुं युधि ।

तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ २।८६।११ ॥

नेति । मेविदितमित्यत्र अविदितमिति पदच्छेदः ॥ २।८६।८११ ॥

महता तपसा लब्धो विविधैश्च परिश्रमैः ।

एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥ २।८६।१२ ॥

महतेति । तपसा अनशनेन । परिश्रमैः यज्ञादिभिरित्यर्थः । एकः मुख्यः “एके मुख्यान्यकेवलाः” इत्यमरः ॥ २।८६।१२ ॥

अस्मिन् प्रव्राजिते राजा न चिरं वर्त्तयिष्यति ।

विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ २।८६।१३ ॥

प्रव्राजनकालिकदशरथदशां स्मरन्नाह–अस्मिन्निति । वर्त्तयिष्यति जीविष्यति ॥ २।८६।१३ ॥

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।

निर्घोषोपरतं नूनमद्य राजनिवेशनम् ॥ २।८६।१४ ॥

विनद्येति । सुमहानादं विनद्य, कृत्वेत्यर्थः । अद्य स्त्रियः उपरता इति मन्ये इत्युपस्कार्यम् । निवेशनं निवेशनं च ॥ २।८६।१४ ॥

कौसल्या चैव राजा च तथैव जननी मम ।

नाशंसे यदि जीवेयुः सर्वे ते शर्वरीमिमाम् ॥ २।८६।१५ ॥

कौसल्येति । सर्वे ते जीवेयुरिति नाशंसे यदि जीवेयुरिमां शर्वरीमेवेति सम्बन्धः ॥ २।८६।१५ ॥

जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया ।

दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ २।८६।१६ ॥

जीवेदिति । शत्रुघ्नस्यान्ववेक्षया शत्रुघ्नसम्बन्ध्यवेक्षणेच्छया । वीरसूः कौसल्या दुःखितेति यत् अतो विनशिष्यति । दुःखिता या त्विति पाठः समीचीनः । तत्पक्षे या दुःखिता वीरसूः कौसल्या सा तु विनशिष्यत्येवेत्यर्थः ॥ २।८६।१६ ॥

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।

राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ २।८६।१७ ॥

अतिक्रान्तमिति । अतिक्रान्तमतिक्रान्तं सर्वं प्रयोजनमतीत्येत्यर्थः ॥ २।८६।१७ ॥

सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते ।

प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ २।८६।१८ ॥

सिद्धार्था इति । वृत्तम् अतीतम्, मृतमिति यावत् ॥ २।८६।१८ ॥

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।

हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ॥ २।८६।१९ ॥

गजाश्वरथसम्बाधां तूर्यनादविनादिताम् ।

सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ २।८६।२० ॥

आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम् ।

सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २।८६।२१ ॥

रम्येत्यादि । हर्म्यप्रासादसम्पन्नां हर्म्याणि धनिनां गृहाणि, प्रासादा देवानां राज्ञां च गृहाणि तैः सम्पन्नां समृद्धाम् । सर्वरत्नविभूषितां सर्वैः श्रेष्ठवस्तुभिरलङ्कृताम् । तूर्यनादविनादितां तूर्यस्य नृत्यगीतादिकस्य नादेन विनादिताम्, हर्म्यादिषु कृतप्रतिध्वनिमित्यर्थः । सर्वकल्याणैः सर्वमङ्गलैः सम्पूर्णां सर्वोत्सवैः सम्पूर्णां वा । आरामोद्यानसम्पूर्णाम् आरामाः उपवनानि उद्यानानि राज्ञामसाधारणवनानि तैः समृद्धाम् । समाजोत्सवशालिनीम् उत्सवसमूहशालिनीम् ॥ २।८६।१९२१ ॥

अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम् ।

निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ २।८६।२२ ॥

अपीति । सत्यप्रतिज्ञेन तीर्णवनवासप्रतिज्ञेन रामेण । प्रविशेमहि, पुरीमिति शेषः ॥ २।८६।२२ ॥

परिदेवयमानस्य तस्यैवं सुमहात्मनः ।

तिष्ठतो राजपुत्रस्य शर्वरी सा ऽत्यवर्त्तत ॥ २।८६।२३ ॥

प्रभाते विमले सूर्ये कारयित्वा जटावुभौ ।

अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ॥ २।८६।२४ ॥

परिदेवयमानस्येति । तिष्ठतो राजपुत्रस्य राजपुत्रसम्बन्धिनी शर्वरी । अत्यवर्त्तत निरन्तरपरिदेवनेन रात्रिं यापितवानित्यर्थः ॥ २।८६।२३२४ ॥

जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ।

वरेषुचापासिधरौ परन्तपौ व्यवेक्षमाणौ सह सीतया गतौ ॥ २।८६।२५ ॥

जटाधराविति । व्यवेक्षमाणौ सर्वतो दत्तावधानौ ॥ २।८६।२५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता० अयोध्याकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ॥