एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् ।
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्यर्थसंहितम् ॥ २।८५।१ ॥
एवमिति । हेत्वर्थसंहितम् उपपत्तिप्रयोजनाभ्यां युक्तम् ॥ २।८५।१ ॥
ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे ।
यो मे त्वमीदृशीं सेनामेकोभ्यर्चितुमिच्छसि ॥ २।८५।२ ॥
ऊर्जित इति । स्वस्य रामविषयभक्तिं द्योतयितुं मम गुरोः सखे इत्युक्तम् । यस्त्वमेक एव ईदृशीमपरिच्छिन्नां सेनामभ्यर्चितुमिच्छसि तस्य ते ऊर्जितः अभिवृद्धः कामः अर्चनामनोरथः कृतः खलु कृत एव, तवादरेणैव वयमर्चिता इति भावः ॥ २।८५।२ ॥
इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् ।
अब्रवीद्भरतः श्रीमान् निषादाधिपतिं पुनः ॥ २।८५।३ ॥
इतीति । महातेजा इति गाम्भीर्यद्योतनम् । उत्तममित्यनेनार्चनोद्योगमात्रेण तृप्तत्वकथनादवाप्तसमस्तकामत्वमुक्तम् । श्रीमानिति तात्कालिकहर्षः ॥ २।८५।३ ॥
कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ।
गहनो ऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥ २।८५।४ ॥
कतरेणेति । कतरेण केन मार्गेण । भृशं गहनः अत्यन्तदुष्प्रवेशः । अनूपो देशः जलप्रायो देशः । “जलप्रायमनूपं स्यात्” इत्यमरः ॥ २।८५।४ ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
अब्रवीत् प्राञ्जलिर्वाक्यं गुहो गहनगोचरः ॥ २।८५।५ ॥
तस्येति । गहनं काननं गोचरः सञ्चारप्रदेशो यस्य सः गहनगोचरः । “गहनं काननं वनम्” इत्यमरः ॥ २।८५।५ ॥
दाशास्त्वा ऽनुगमिष्यन्ति धन्विनः सुसमाहिताः ।
अहं त्वा ऽनुगमिष्यामि राजपुत्र महायशः ॥ २।८५।६ ॥
दाशा इति । अहमनुगमिष्यामि अतो न मार्गविषयविचारः कर्त्तव्य इति भावः ॥ २।८५।६ ॥
कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः ।
इयं ते महती सेना शङ्कां जनयतीव मे ॥ २।८५।७ ॥
कच्चिदिति । न दुष्टः अदुष्टः । सुप्सुपेति समासः । रामस्य रामविषये अदुष्टो व्रजसि कच्चित् दुष्टो न व्रजसि कच्चिदिति वा सम्बन्धः । अक्लिष्टकर्मण इत्यनेन निरपायत्वमुक्तम् । शङ्काप्रसक्तौ हेतुमाह इयमिति । अनुकूलो व्रजसि चेत् सेना व्यर्थेति भावः । इवशब्दः शङ्काया ईषत्त्वं द्योतयति ॥ २।८५।७ ॥
तमेवमभिभाषन्तमाकाश इव निर्मलः ।
भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ २।८५।८ ॥
तमिति । आकाश इव निर्मल इत्यनेन तच्छङ्कितदोषस्य तत्र प्रसक्तिरेव नास्तीत्युच्यते । आकाशे हि पङ्कानुलेपे स तत्र न प्रसज्जति किन्तु स्वहस्त एव मलिनो भवति । श्लक्ष्णया स्वस्मिन्दोषालेपेप्यक्रोधया ॥ २।८५।८ ॥
माभूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि ।
राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः ॥ २।८५।९ ॥
तं निवर्त्तयितुं यामि काकुत्स्थं वनवासिनम् ।
बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥ २।८५।१० ॥
माभूदिति । यत् यस्मिन् काले । कष्टं त्वया आशङ्कितं कष्टं जायते स कालो माभूत् । कलिकाले हि तादृशप्रसङ्गः, अतो मां शङ्कितुं नार्हसि । तत्र हेतुः राघव इत्यादि । न ते कार्या त्वया न कार्या ॥ २।८५।९१० ॥
स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् ।
पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ २।८५।११ ॥
धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले ।
अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ २।८५।१२ ॥
स त्विति । संहृष्टवदनः प्रसन्नवदन इत्यर्थः । हर्षितः सञ्जातहर्षः ॥ २।८५।१११२ ॥
शाश्वती खलु ते कीर्त्तिर्लोकाननुचरिष्यति ।
यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ २।८५।१३ ॥
शाश्वतीति । कृच्छ्रगतं व्यसनगतम् । प्रत्यानयितुं प्रत्यानेतुम् । इडार्षः ॥ २।८५।१३ ॥
एवं सम्भाषमाणस्य गुहस्य भरतं तदा ।
बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्त्तत ॥ २।८५।१४ ॥
एवमिति । सम्भाषमाणस्य सम्भाषमाणे सति । नष्टप्रभः अदृष्टप्रभः ॥ २।८५।१४ ॥
संनिवेश्य स तां सेनां गुहेन परितोषितः ।
शत्रुघ्नेन सह श्रीमान् शयनं पुनरागमत् ॥ २।८५।१५ ॥
संनिवेश्येति । शयनं पुनरागमदिति अत्र पुनःशब्देन गुहागमनात् पूर्वं शान्तः शयने स्थित इति गम्यते । समुपागमदिति वा पाठः । पुनः परितोषित इति वा सम्बन्धः । वाक्यालङ्कारो वा ॥ २।८५।१५ ॥
रामचिन्तामयः शोको भरतस्य महात्मनः ।
उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ २।८५।१६ ॥
रामेति । अनर्हस्य गर्भैश्वर्येण शोकानर्हस्य । महात्मनः महाधीरस्यापि धर्मप्रेक्षस्य शोकमूलपापशून्यस्य । तादृशः अवाङ्मनसगोचरः । भ्रातृभक्तस्येति भरतविशेषणं वा ॥ २।८५।१६ ॥
अन्तर्दाहेन दहनः सन्तापयति राघवम् ।
वनदाहाभिसन्तप्तं गूढोग्निरिव पादपम् ॥ २।८५।१७ ॥
अन्तर्दाहेनेति । दहनः शोकाग्निः । अन्तर्दाहेन चिन्ताग्निना तप्तं राघवं भरतं सन्तापयति सम्यक् ग्लापयति स्म । वनदाहाभिसन्तप्तं वनदाहेन पर्यन्तवनाग्नेरूष्मणा सन्तप्तं शुष्कं पादपं गूढोग्निरिव कोटराग्निरिव अन्तरारभ्य बहिरदहत् अन्तःस्थोप्यात्मा दह्यते, अदाह्यत्वं केवलाग्नेर्हि ॥ २।८५।१७ ॥
प्रसृतस्सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम् ।
यथा सूर्यांशुसन्तप्तो हिमवान् प्रसृतो हिमम् ॥ २।८५।१८ ॥
प्रसृत इति । शोकाग्निसम्भवं स्वेदं प्रसृतः, भरत इति शेषः । स्वेदः शोकाग्निसम्भव इति पाठस्तु न दृष्टान्तानुरूपः । स्वेदं प्रसृतः हिमं प्रसृतः इत्यत्र गत्यर्थत्वात् कर्त्तरि क्तः ॥ २।८५।१८ ॥
ध्याननिर्दरशैलेन विनिश्वसितधातुना ।
दैन्यपादपसङ्घेन शोकायासाधिश्रृङ्गिणा ॥ २।८५।१९ ॥
प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना
आक्रान्तो दुःखशैलेन महता कैकयीसुतः ॥ २।८५।२० ॥
भरतस्य दुःखं शैलत्वेन रूपयति–ध्यानेत्यादिना । ध्याननिर्दरशैलेन दरो गर्त्तः तस्मान्निर्गतं निर्दरं शिलानां समूहः शैलं रामविषयध्यानमेव निर्दरशैलं यस्मिन् तेन । ध्यानस्य निरन्तरत्वेन दरीविदीर्णशिलापङ्क्तिसाम्यम् । विविधं निश्वसितं विनिश्वसितं तदेव धातुर्यस्मिन् । विविधत्वसाम्यात् । दैन्यं करणानां स्वस्वविषयप्रवृत्तिवैमुख्यं तस्य पादपसाम्यमबोधरूपतया । शोकायासाधिश्रृङ्गिणा शोकादय एव श्रृङ्गिणः कृष्णसारादयो यस्मिन् तेन । यद्वा शोकायासाधिभिः श्रृङ्गिणा श्रृङ्गवता दृढत्वसाम्यात् । प्रमोहानन्तसत्त्वेन प्रमोहा एव अनन्तानि सत्त्वानि जन्तवो यस्मिन् तेन । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । प्राणभयशङ्काकरत्वात् । सन्तापौषधिवेणुना सन्तापा एव ओषधयो वेणवश्च यस्मिन् तेन । ओषधिवेणुसाम्यं दुष्प्रवेशत्वात् । आक्रान्तः अभूदिति शेषः । महता अतिगुरुणा । मज्जतेति पाठे–मज्जता अवयवेषु प्रविशता ॥ २।८५।१९२० ॥
विनिःश्वसन् वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः ।
शमं न लेभे हृदयज्वरार्दितो नरर्षभो यूथगतो यथर्षभः ॥ २।८५।२१ ॥
विनिःश्वसन्निति । विनिःश्वसन् चिन्तातिरेकेण श्वासं कुर्वन् । भृशदुर्मनाः अत्यन्तकलुषहृदयः । प्रमूढा तष्टा संज्ञा यस्य सः प्रमूढसंज्ञः । अत एव परमापदं मरणायार्थसम्पत्तिरूपां मूर्च्छां गतः । शमं ज्वरशान्तिम् । अयूथगतः यूथाद्भ्रष्ट इत्यर्थः । यूथहत इति पाठे–हतयूथ इत्यर्थः ॥ २।८५।२१ ॥
गुहेन सार्द्धं भरतः समागतो महानुभावः सजनः समाहितः ।
सुदुर्मनास्तं भरतं तदा पुनर्गुहः समाश्वासयदग्रजं प्रति ॥ २।८५।२२ ॥
अथ गुहः समागत इत्याह–गुहेनेति । सजनः सपरिवारः । समाहितः एकाग्रचित्तः । भरतः गुहेन सार्द्धं सह समागतः सङ्गतः । अथ गुहः सुदुर्मनाः भरतक्लेशदर्शनेन भरतादपि भृशं दुर्मनाः सन् । भरतम् अग्रजं प्रति अग्रजं लक्षीकृत्य समाश्वासयत् ॥ २।८५।२२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये० श्रीमदयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
इति श्रीगो० श्रीरामायणभूषणे पीता० अयोध्याकाण्डव्याख्याने पञ्चाशीतितमः सर्गः ॥ ८५ ॥