ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।
निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितो ऽब्रवीत् ॥ २।८४।१ ॥
तत इत्यादि । गङ्गामन्वाश्रितां प्राप्ताम् अत एव निविष्टां कृतनिवेशां ध्वजिनीं सेनां दृष्ट्वा । सन्त्वरितः ससम्भ्रमः ॥ २।८४।१ ॥
महतीयमितः सेना सागराभा प्रदृश्यते ।
नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥ २।८४।२ ॥
महतीति । इतः इह श्रृङ्गिबेरपुरे । अस्य सेनारूपवस्तुनः । चिन्तयन्नहं मनसापि नास्यान्तमधिगच्छामीति सम्बन्धः ॥ २।८४।२ ॥
यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः ।
स एष हि महाकायः कोविदारध्वजो रथे ॥ २।८४।३ ॥
यथेति । स इक्ष्वाकुकुलक्रमागतः कोविदारध्वजः रथे दृश्यते । हि यस्मात् अतो भरतः स्वयमागतः यथा तु खलु ध्रुवमित्यर्थः । कोविदारध्वजः दुर्बुद्धिरित्यनेन भरतो रामद्रोहाकाङ्क्षया आगच्छतीति शङ्कितवानिति गम्यते ॥ २।८४।३ ॥
बन्धयिष्यति वा दाशानथवा ऽस्मान् वधिष्यति ।
अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ २।८४।४ ॥
सम्पन्नां श्रियमन्विच्छंस्तस्य राज्ञः सुदुर्ल्लभाम् ।
भरतः कैकयीपुत्रो हन्तुं समधिगच्छति ॥ २।८४।५ ॥
तदेव स्थापयिष्यतिबन्धयिष्यतीत्यादिना । दाशानस्मान् बन्धयिष्यति अथवा वधिष्यति हनिष्यति । हनो लृटि वधादेश आर्षः । अथ अथवा । दाशरथिं ज्ञातिभूतमिति भावः । विवासितं दुर्बलमित्यर्थः । सम्पन्नाम् अप्रच्युताम् । रामागमने हि श्रीः प्रच्युता स्यात् । कैकयीपुत्र इति दुष्प्रकृतित्वे हेतुः । तस्य राज्ञः राजत्वार्हस्य रामस्य सुदुर्लभाम् ॥ २।८४।४५ ॥
भर्त्ता चैव सखा चैव रामो दाशरथिर्मम ।
तस्यार्थकामाः सन्नद्धा गङ्गानूपे प्रतिष्ठत ॥ २।८४।६ ॥
किमतो ऽभवदित्यत्राह–भर्तेति । अर्थकामाः अर्थेच्छवः, यूयमिति शेषः । अनूपे तीरे ॥ २।८४।६ ॥
तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम् ।
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ २।८४।७ ॥
तिष्ठन्त्विति । सर्वे दाशाश्च गङ्गामन्वाश्रिताः सन्तः बलयुक्ताः सेनायुक्ताः । नदीरक्षाः नदीतरणमार्गं रक्षन्तः । मांसमूलफलाशनाः नावारोपितमांसाद्यशनाः तिष्ठन्तु ॥ २।८४।७ ॥
नावां शतानां पञ्चानां कैवर्त्तानां शतंशतम् ।
सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ २।८४।८ ॥
नावामित्यादि । पञ्चानां शतानां नावाम् एकैकस्या नावः कैवर्त्तानां शतं शतं तिष्ठन्तु, शतंशतं कैवर्त्ताः तिष्ठन्त्वित्यर्थः ॥ २।८४।८ ॥
यदा तुष्टस्तु भरतो रामस्येह भविष्यति ।
सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ २।८४।९ ॥
रामस्य तुष्टः रामविषये तुष्टः । यदादुष्ट इति पाठे–अदुष्ट इति पदछेदः । स्वस्तिमतीति अन्यथा हन्तव्येति भावः ॥ २।८४।९ ॥
इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।
अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ २।८४।१० ॥
तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् ।
भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत् ॥ २।८४।११ ॥
उपायनं कौशेयादि । मां सं मृगाणाम् ॥ २।८४।१०११ ॥
एष ज्ञातिसहस्रेण स्थपतिः परिवारितः ।
कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ २।८४।१२ ॥
तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः ।
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ २।८४।१३ ॥
एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् ।
उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ २।८४।१४ ॥
स्थपतिः प्रभुः । दण्डकारण्ये कुशलः तत्र सञ्चरणसमर्थ इत्यर्थः । विजानीते तं देशमित्यर्थः ॥ २।८४।१२१४ ॥
लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ।
आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥ २।८४।१५ ॥
प्रह्वः कृतप्रणामः ॥ २।८४।१५ ॥
निष्कुटश्चैव देशो ऽयं वञ्चिताश्चापि ते वयम् ।
निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ २।८४।१६ ॥
अयं देशः मदधिष्ठितवनप्रदेशः । ते निष्कुटः गृहारामभूतः । “गृहारामस्तु निष्कुटः” इत्यमरः । त्वद्भोगयोग्य इति यावत् । वयं च वञ्चिताः अत्र गमनानिवेदनेन वञ्चिता इत्यर्थः । निवेदने हि प्रत्युद्गमनादिकं कर्तुं शक्यमिति भावः । सर्वे वयं ते, त्वदीया इत्यर्थः । अतः स्वके दासकुले दासगृहे वसेति निवेदयामः विज्ञापयामः । पूर्वं गङ्गामासाद्येति गङ्गापर्यन्तमार्गकरणेपि अद्य मनुष्यप्रेरणाभावात्त्वदागमनं न ज्ञातवानस्मीति गुहेनोच्यते ॥ २।८४।१६ ॥
अस्ति मूलं फलं चैव निषादैः समुपाहृतम् ।
आर्द्रञ्च मांसं शुष्कञ्च वन्यं चोच्चावचं महत् ॥ २।८४।१७ ॥
वन्यं नीवारश्यामाकप्रियंग्वादिधान्यम् ॥ २।८४।१७ ॥
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।
अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥ २।८४।१८ ॥
आशंसे प्रार्थयामि । स्वाशिता सुष्ठु भोजिता ॥ २।८४।१८ ॥
इत्यार्षे श्रीरामयणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुरशीतितमः सर्गः ॥ ८४ ॥