०६६ राजशरीरस्य तैलकटाहे निक्षेपः

तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् ।

हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ २।६६।१ ॥

कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता ।

उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ २।६६।२ ॥

सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् ।

त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ॥ २।६६।३ ॥

तमित्यादि । राज्ञः शिर उपगृह्य अङ्केकृत्वेत्यर्थः ॥ २।६६।१३ ॥

विहाय मां गतो रामो भर्ता च स्वर्गतो मम ।

विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ २।६६।४ ॥

विहायेति । विपथे दुर्मार्गे । सार्थहीना सहायभूतपथिकसङ्घरहितेत्यर्थः ॥ २।६६।४ ॥

भर्तारं तं परित्यज्य का स्त्रीदैवतमात्मनः ।

इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ २।६६।५ ॥

भर्तारमिति । त्यक्तधर्मणः त्यक्तधर्मायाः “धर्मादनिच् केवलात्” इत्यनिच् ॥ २।६६।५ ॥

न लुब्धो बुद्ध्यते दोषान् किम्पाकमिव भक्षयन् ।

कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ २।६६।६ ॥

नेति । लुब्धः अर्थलिप्सुः । किम्पाकं कुत्सितपाकम्, विषमिश्रपाकमित्यर्थः । किम्पाको नाम–काकमर्दनामकविषफलविशेष इति केचित् । कुब्जानिमित्तं कुब्जाहेतोः । “निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्” इति हेतौ प्रथमा ॥ २।६६।६ ॥

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ।

सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा ॥ २।६६।७ ॥

अनियोग इति । अनियोगे वदप्रदानसमये वरस्य विशेषनिर्देशाभावे सति । नियुक्तेन इदानीं भरताभिषेकरूपे रामविवासनरूपे च कैकेय्या नियुक्तेन अनुचितनियोगे नियुक्तेनेति वार्थः । जनको वैदेहः ॥ २।६६।७ ॥

स मामनाथां विधवां नाद्य जानाति धार्मिकः ।

रामः कमलपत्राक्षो जीवनाशमितो गतः ॥ २।६६।८ ॥

स इति । इतः अत्र देशे राज्ञा जीवनाशं गतः प्राप्तः । स रामः अनाथां पुत्रविरहेण रक्षकान्तररहितां विधवां मां न जानाति ॥ २।६६।८ ॥

विदेहराजस्य सुता तथा सीता तपस्विनी ।

दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ २।६६।९ ॥

विदेहराजस्येति । तपस्विनीं शोचनीया । दुःखमितिक्रियाविशेषणम् । पर्युद्विजिष्यति भयं प्राप्स्यतीत्यर्थः ॥ २।६६।९ ॥

नदतां भीमघोषाणां निशासु मृगपक्षिणाम् ।

निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ॥ २।६६।१० ॥

नदतामिति । नदतां नदत्सु । निशम्य नादमित्यर्थसिद्धम् ॥ २।६६।१० ॥

वृद्धश्चैवाल्पपुत्रश्च वेदैहीमनुचिन्तयन् ।

सो ऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ॥ २।६६।११ ॥

वृद्ध इति । अल्पपुत्रः दुहितृमात्रपुत्रः । सोपि जनकोपि ॥ २।६६।११ ॥

साहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता ।

इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥ २।६६।१२ ॥

साहमिति । दिष्टान्तं मरणम् । पतिव्रता “आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ " इत्युक्तपातिव्रत्यविशिष्टा ॥ २।६६।१२ ॥

तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् ।

व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः ॥ २।६६।१३ ॥

तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् ।

राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ॥ २।६६।१४ ॥

तामिति । व्यावहारिकाः व्यवहारे बाह्याभ्यन्तरसकलराजकृत्ये नियुक्ताः । “तत्र नियुक्तः” इति ठक् । अमात्या इत्यर्थः । कौसल्यां भर्त्रालिङ्गनाद्व्यपनीय विमोच्य । अन्यतोपनीयेत्यर्थः । तैलद्रोण्यां तैलपूरितकटाहे । जगतीपतिं भूपतिं संनिवेश्य राज्ञो ऽनन्तरकर्तव्यानि सर्वाणि कर्माणि दुःखापनोदनादीनि चक्रुः । अपनिन्युरिति पाठे–व्यावहारिकाः व्यवहारविदो लौकिकाः । अपनिन्युरित्येकं वाक्यम् । तैलद्रोण्यामित्यारभ्य वाक्यान्तरम् । आदिष्टाः राजकृत्येष्वादिष्टाः अमात्याः कर्माणि प्रजाशासनादीनि चक्रुः ॥ २।६६।१३१४ ॥

न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः ।

सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ॥ २।६६।१५ ॥

संस्कारं कुतो न चक्रुरित्यत्राह–न त्विति । सर्वज्ञाः सर्वधर्मज्ञाः अतो न धर्मलोप इति भावः । अनेन गम्यते तैलमिश्रत्वे शवस्य पर्युषितत्वदोषो नास्तीति । सङ्कलनं संस्कारम् ॥ २।६६।१५ ॥

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् ।

हा मृतो ऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥ २।६६।१६ ॥

तैलद्रोण्यामिति । तैलद्रोण्यां शायितं नृपं ज्ञात्वा । तत्र निवेशकाले राजदर्शनाभावात् हा मृतो ऽयमिति भूयो ऽपि पर्यवारयन्नित्यर्थः ॥ २।६६।१६ ॥

बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः ।

रुदन्त्यः शोकसन्तप्ताः कृपणं पर्यदेवयन् ॥ २।६६।१७ ॥

हा महाराज रामेण सततं प्रियवादिना ।

विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ॥ २।६६।१८ ॥

कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।

कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ २।६६।१९ ॥

स हि नाथः सदास्माकं तव च प्रभुरात्मवान् ।

वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥ २।६६।२० ॥

बाहूनिति । नेत्राणां प्रस्रवणं वारिप्रवाहो येषु तथा ॥ २।६६।१७२० ॥

त्वया तेन च वीरेण विना व्यसनमोहिताः ।

कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ॥ २।६६।२१ ॥

यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।

सीतया सह संत्यक्ताः स कमन्यं न हास्यति ॥ २।६६।२२ ॥

ता बाष्पेण च संवीताः शोकेन विपुलेन च ।

व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः ॥ २।६६।२३ ॥

निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता ।

पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥ २।६६।२४ ॥

त्वयेति । विदूषिताः राज्यगर्वात् तिरस्कृताः ॥ २।६६।२१२४ ॥

बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना ।

शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥ २।६६।२५ ॥

बाष्पपर्याकुलजनेति । शून्यचत्वरेति संमार्जनानुलेपनबल्यादिशून्यचत्वरादियुक्तेति यावत् । यथापुरं यथापूर्वम् ॥ २।६६।२५ ॥

गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च ।

निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता ॥ २।६६।२६ ॥

गते त्विति । शोकात् पुत्रशोकात् । निवृत्तचारः निवृत्तकिरणप्रचारः । मत इति अस्तमिति शेषः । प्रवृत्तचारा प्रवृत्ततमःप्रचारा ॥ २।६६।२६ ॥

ऋते तु पुत्राद्दहनं महीपतेर्न रोचयन्ते सुहृदः समागताः ।

इतीव तस्मिन् शयने न्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ २।६६।२७ ॥

ऋते त्विति । समागताः सुहृदः बान्धवाः पुत्रादृते महीपतेर्दहनं न रोचयन्ते । अनेनातिबलपराक्रमयुक्तसत्पुत्रसद्भावेप्यस्मिन् काले दैववशादेकोप्यसन्निहितः तूष्णीमवस्थानमयुक्तम् अतो येन केनापि प्रकारेण संस्कारः कर्तव्य इति कैश्चिद्यत्नः कृत इति गम्यते । तस्मिन् शयने पूर्वोक्ततैलद्रोण्याम् ॥ २।६६।२७ ॥

गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी ।

पुरी बभासे रहिता महात्मना न चास्रकण्ठाकुलमार्ग चत्वरा ॥ २।६६।२८ ॥

नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम् ।

तदा नगर्यां नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे ॥ २।६६।२९ ॥

गतप्रभेति । व्यपेतनक्षत्रगणा चन्द्रादिसकलतेजोहीना । रामादिसकलराजरहितस्योपमा । आस्रकण्ठैः कण्ठस्तम्भितबाष्पैः आकुलानि मार्गचत्वराणि यस्याः सा तथोक्ता ॥ २।६६।२८२९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्षष्टितमःसर्गः ॥ ६६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥