एवं तु क्रुद्धया राजा राममात्रा सशोकया ।
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ २।६२।१ ॥
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।
अथ दीर्घेण कालेन संज्ञामाप परन्तपः ॥ २।६२।२ ॥
एवमिति । चिन्तयामास अनया सत्यमेव कथितम् मया चान्यैरकृतपूर्वं महदकृत्यं कृतं किमतः परं करोमीति चिन्तयामासेत्यर्थः ॥ २।६२।१२ ॥
स संज्ञामुपलभ्यैव दीर्घमुष्णञ्च निश्वसन् ।
कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ॥ २।६२।३ ॥
स संज्ञामिति । पुनश्चिन्तामुपागमत् “अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते” इति न्यायेन प्रियपुत्रविश्लेषजं
महदुःखमनुभवामि । एतद्धेतुभूतं किं कर्म कृतमिति पुनश्चिन्तां प्राप्तवानित्यर्थः ॥ २।६२।३ ॥
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।
यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ॥ २।६२।४ ॥
तस्येति । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म प्रत्यभात् प्रतीतमभूत् । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी, राजा बाणो वा ॥ २।६२।४ ॥
अमनास्तेन शोकेन रामशोकेन च प्रभुः ।
द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत ॥ २।६२।५ ॥
अमना इति । अमनाः अस्वस्थचित्तः, क्षुभितान्तःकरण इत्यर्थः । तेन मुनिकुमारवधजनितेन ॥ २।६२।५ ॥
दह्यमानः स शोकाभ्यां कौसल्यामाह भूपतिः ।
वेपमानो ऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ २।६२।६ ॥
दह्यमान इति । अवाङ्मुखः अवनतमुखः स्वकृतकौसल्याविषयाप्रियजन्यया लज्जया भीत्या चेति भावः ॥ २।६२।६ ॥
प्रसादये त्वां कौसल्ये रचितो ऽयं मयाञ्जलिः ।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ २।६२।७ ॥
भर्त्ता तु खलु नारीणां गुणवान्निर्गुणोपि वा ।
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥ २।६२।८ ॥
प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि । ॥ २।६२।७८ ॥
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा ।
नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् ॥ २।६२।९ ॥
सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने परावरौ उत्कर्षापकर्षौ यया सा तथोक्ता । सुदुःखितं मां प्रतीति शेषः ॥ २।६२।९ ॥
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ॥ २।६२।१० ॥
तद्वाक्यमिति । प्रणाली प्रासादादिषु दार्वादिनिर्मितजलनिर्गममार्गः । “द्वयोः प्रणाली पयसः पदव्याम्” इत्यमरः । नवोदकं वर्षजलम् ॥ २।६२।१० ॥
सा मूर्ध्नि बध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् ।
सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ २।६२।११ ॥
सेति । राज्ञः अञ्जलिं पद्ममिव मूर्ध्नि बध्वा पाणिभ्यां गृहीत्वा । मूर्ध्नि बद्ध्वेत्यर्थः । त्रस्ता धर्माद्भीता ॥ २।६२।११ ॥
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते ।
याचितास्मि हता देव हन्तव्याहं नहि त्वया ॥ २।६२।१२ ॥
प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मीत्यर्थः । कुतः ? यतः ते याचिता त्वया याचिताहं हतास्मि अतः त्वयाहं हन्तव्या नहि संहर्तव्या नहि । एतदपराधशान्तये मम प्रहार एव त्वया कर्तव्यो न संहारो दास्या इवेत्यर्थः ॥ २।६२।१२ ॥
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोर्लोकयोर्वीर पत्या या सम्प्रसाद्यते ॥ २।६२।१३ ॥
नैषेति । श्लाघनीयेन स्वयंप्रसाद्येन पत्या लोके या संप्रसाद्यते सा स्त्री उभयोर्लोकयोर्न भवति । ऐहिकामुष्मिकसुखभागिनी न भवतीत्यर्थः ॥ २।६२।१३ ॥
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ २।६२।१४ ॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥ २।६२।१५ ॥
जानामीति । किमपि अविचारितम् अनुचितं च तत् क्षन्तव्यमिति शेषः ॥ २।६२।१४१५ ॥
शक्य आपतितः सोढुं प्रहारो रिपुहस्ततः ।
सोढुमापतितः शोकः सुसूक्ष्मोपि न शक्यते ॥ २।६२।१६ ॥
शक्य इति । आपतितः हठात्प्राप्तः ॥ २।६२।१६ ॥
वनवासाय रामस्य पञ्चरात्रो ऽद्य गण्यते ।
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम ॥ २।६२।१७ ॥
शोकस्य नूतनत्वादशक्यत्वमाह–वनवासायेति । वनवासाय वने वासं कर्तुम् । प्रस्थितस्य रामस्य पञ्चरात्रोद्य गण्यते वने पञ्चरात्रो वासो गण्यते । अत्र केचित् प्रथमायां रात्रौ तमसातीरे, द्वितीयरात्रौ जाह्नवीतीरे, तृतीयरात्रौ गङ्गादक्षिणकूलस्थे वनस्पतौ, चतुर्थरात्रौ प्रयागे, पञ्चमरात्रौ यमुनातीरे । ततः सुमन्त्रः षष्ठदिवसे रामश्चित्रकूटं गमिष्यतीति वृत्तान्तं ज्ञात्वा तदहस्सायाह्नसमये अयोध्यां प्राप्तवान् ततो ऽत्र पञ्चरात्रगणनमुपपद्यत इत्यूचिरे । अन्ये त्वाहुः–गङ्गातरणपर्यन्तं वनवासत्वाभावात् ततःपरं वनस्पतिभरद्वाजाश्रमयमुनातीरचित्रकूटेषु चतस्त्रो रात्रयः चतुर्थ्यां सुमन्त्रस्य निर्गभः पञ्चम्यामिदं वचनमिति, एवंसत्यद्यपदस्वारस्यमिति । ननु सप्तपञ्चाशे सर्गे “भरद्वाजाभिगमनं प्रयागे च सहासनम् । आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् । अनुज्ञातः सुमन्त्रोथ योजयित्वा हयोत्तमान् ॥ " इत्याद्यनन्तरं “ततः सायाह्नसमये तृतीयेऽहनि सारथिः। अयोध्यां समनुप्राप्य निरानन्दां ददर्शह ॥ " इत्युक्त्या अयोध्यानिर्गमदिवसमारभ्य षष्ठे ऽहनि किल रामस्य चित्रकूटप्रवेशः अथ चारेभ्यः सप्तमे अष्टमे वा सूतस्य तद्वृत्तान्तश्रवणं ततस्तृतीये ऽहनि सूतस्यायोध्याप्रवेशः तत्कथं पञ्चरात्रय इति परिगण्यते ? उच्यते–तृतीये ऽहनीत्यत्र अह्नस्तृतीयभाग इत्यर्थः । आगिरेर्गमनमित्यत्र गमनोद्योगमित्यर्थः । तथाच “गुहेन सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् । आशया यदि मां रामः पुनःशब्दापयेदिति” इत्यत्र बहूनित्युक्त्या दिनत्रयं श्रृङ्गिबेरपुरे सूतस्य वासः । चतुर्थे दिने ऋजुमार्गेण दिवारात्रमागतचारमुखात् रामस्य चित्रकूटप्रवेशोद्योगं निशम्य तद्दिवससायंकाले वेगेनायोध्याप्रवेशः, तस्मिन् दिने कौसल्याह पञ्चरात्रोद्यगण्यत इति, अतो न किंचिदनुपपन्नम् ॥ २।६२।१७ ॥
तं हि चिन्तयमानायाः शोको ऽयं हृदि वर्द्धते ।
नदीनामिव वेगेन समुद्रसलिलं महत् ॥ २।६२।१८ ॥
तमिति । नदीवेगेन समुद्रवृद्धिरिति लोकवादः ॥ २।६२।१८ ॥
एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः ।
मन्दरश्मिरभूत् सूर्यो रजनी चाभ्यवर्तत ॥ २।६२।१९ ॥
तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः ।
शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ॥ २।६२।२० ॥
एवमिति । कथयन्त्याः कथयन्त्यामित्यर्थः । शुभं वचः अतिदुःखितावस्थायामपि पत्यनुनयपरत्वात् वचसः शुभत्वम् ॥ २।६२।१९२० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥