०६० सुमन्त्रकृतकौसल्यासान्त्वनम्

ततो भूतोपसृष्टेव वेपमाना पुनःपुनः ।

धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ २।६०।१ ॥

नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।

तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ २।६०।२ ॥

तत इति । भूतोपसृष्टेव धरण्यां वेपमाना भूतगृहीतेव भूमौ पतित्वा विवर्तमानेत्यर्थः । गतसत्त्वेव गतप्राणेव । “द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु” इत्यमरः ॥ २।६०।१२ ॥

निवर्तय रथं शीघ्रं दण्डकान्नय मामपि ।

अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ २।६०।३ ॥

निवर्तयेति । अथ तान्नानुगच्छामि तान्नानुगच्छामि चेत् ॥ २।६०।३ ॥

बाष्पवेगोपहतया स वाचा सज्जमानया ।

इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ २।६०।४ ॥

बाष्पवेगेति । सज्जमानया विक्लवया ॥ २।६०।४ ॥

त्यज शोकञ्च मोहञ्च सम्भ्रमं दुःखजं तथा ।

व्यवधूय च सन्तापं वने वत्स्यति राघवः ॥ २।६०।५ ॥

त्यजेति । मोहं रामस्य किं भविष्यतीत्यज्ञानम् । सम्भ्रमं व्याकुलत्वम् । सन्तापं शोकजनितदेहसन्तापम्, रामो दुःखितो भविष्यतीति सन्तापमित्यर्थः । यस्माद्राघवः सन्तापं व्यवधूय वत्स्यति तस्माच्छोकादिकं त्यजेत्यन्वयः ॥ २।६०।५ ॥

लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने ।

आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ २।६०।६ ॥

लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति “राध साध संसिद्धौ” इति धातुः ॥ २।६०।६ ॥

विजने ऽपि वने सीता वासं प्राप्य गृहेष्विव ।

विस्रम्भं लभते ऽभीता रामे संन्यस्तमानसा ॥ २।६०।७ ॥

विजन इति । लभतेभीतेत्यत्र अभीतेति पदच्छेदः । विस्रम्भं प्रणयम् “विस्रम्भः प्रणयेपि च” इत्यमरः ॥ २।६०।७ ॥

नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते ।

उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ २।६०।८ ॥

नगरोपवनं गत्वा यथा स्म रमते पुरा ।

तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ २।६०।९ ॥

नास्या इति । कृतं वनवासकृतम् । किञ्चिदित्यस्य विवरणं सुसूक्ष्ममिति । प्रवासानामुचितेव प्रवासानां योग्येव । अभ्यस्तवनवासप्रयासेवेत्यर्थः ॥ २।६०।८९ ॥

बालेव रमते सीता ऽबालचन्द्रनिभानना ।

रामारामे ह्यधीनात्मा विजने ऽपि वेन सती ॥ २।६०।१० ॥

बालेति । क्रीडैकरसत्वाद्बालादृष्टान्तः, दुःखापरिज्ञाने वा बालाहृष्टान्तः । अबालचन्द्रनिभाननेति च्छेदः । रामे अधीनात्मा आसक्तचित्तेत्यर्थः । यद्वा रामारामे रामरूपा रामे ॥ २।६०।१० ॥

तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् ।

अयोध्यापि भवेत्तस्या रामहीना तथा वनम् ॥ २।६०।११ ॥

तद्गतमिति । यद्यस्मात्कारणात् । अस्याः सीतायाः हृदयम् । तद्गतं रामगतम् । जीवितं च तदधीनम् । तस्माद्वनं रामसहितम् अयोध्या भवेत् । रामहीना अयोध्यापि तथा वनं भवेदित्यर्थः ॥ २।६०।११ ॥

पथि पृच्छति वैदेही ग्रामांश्च नगराणि च ।

गतिं दृष्ट्वा नदीनाञ्च पादपान् विविधानपि ॥ २।६०।१२ ॥

रामं वा लक्ष्मणं वापि पृष्ट्वा जानाति जानकी ।

अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ॥ २।६०।१३ ॥

पथीत्यादिना सीताया उल्लास उच्यते । दृष्ट्वेति सर्वत्रान्वेति । रामं लक्ष्मणं वा पृच्छति पृष्ट्वा जानाति च । अयोध्यायाः क्रोशमात्रे विहारं क्रीडां संश्रितेव स्थिता । यद्वा विहरन्त्यस्मिन्निति विहारः तम् । अधिकरणे घञ् । उद्यानमित्यर्थः ॥ २।६०।१२१३ ॥

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।

कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ २।६०।१४ ॥

अयोध्यानिर्गमकालिकं कैकेयीविषयकं सीतायाः परुषं वचनं कौसल्यायाः प्रियमिति वक्तुमुपक्रम्य तस्य वृद्धयोर्जीवननिराशाहेतुत्वं मत्वा नोचितमिदं वक्तुमित्यस्मरणव्याजेनोपारमतेत्याह–इदमेवेत्यादि । अस्याः सीतायाः सम्बन्धि इदमेव स्मरामि प्रस्तुतवृत्तान्तमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं सहसा उपजल्पितं हठात्सीतयोक्तं वाक्यम् । इदानीं मा मां प्रति न भातीति सूतः प्रमादात् इदं गोपनीयमित्यवधानाभावात् पर्युपस्थितं सीतावचनत्वेन वक्तुमुपक्रान्तं तद्वाक्यं ध्वंसयित्वा प्रच्याव्य देव्याः ह्लादनम् आह्लादनकरम् उपक्रान्तवाक्यवद्देव्यास्सन्तापाहेतुभूतं मधुरं वचनमब्रवीदिति पदयोजना । सहसा त्वरया । उपजल्पितम् अक्रमेणोक्तमित्यस्मरणहेतूपदर्शनम् । कैकेयीसंश्रितमित्युपक्रान्तांशः इदं स्मरामीति पुनः स्मरेति चोदनावकाशाप्रदानम्, इदानीं भवद्दुःखदर्शनसमये मा मां प्रति न भातीति ध्वंसनप्रकारः ॥ २।६०।१४ ॥

ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम् ।

ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ २।६०।१५ ॥

ध्वंसनहेतुं कविरनुवदति–ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितमिति । ह्लादनमित्यनेनोपस्थितवचनस्य तापहेतुत्वं द्योत्यते । ननु कैकेयीनिन्दारूपत्वे ऽपि देव्यास्तापकारणमवश्यं मोपनीयम् । कीदृशं तद्वाक्यं स्यात्किंचिदिदमित्युक्तौ तत्र किं प्रमाणं स्यात् ? उच्यते–अवधेहि, एवं विधं हि कार्यवशात् गुप्तं कुत्रचित्कविर्न विवृणोति चेत् सर्वज्ञोपि तत्कथमिदमित्यभिदध्यात् । अत्रेमं च प्रमादादुपस्थितं ध्वंसितं वृद्धयोः सन्तापकरं कैकेयीविषयकं वृत्तान्तं कविरुत्तरत्र व्यक्तीकरिष्यति । युद्धकाण्डे सीतामधिकृत्य “विजगर्हे ऽत्र कैकेयीं क्रोशन्ती कुररी यथा” इत्युक्त्वा कैकेयीविषयकं सीता वचनमेवाह “सकामा भव कैकेयि हतो ऽयं कुलनन्दनः” इति । इदं सीताहृदयम् । कैकेय्याः राज्यलाभेनैवाभीष्टसिद्धेः । रामविवासनाभ्यर्थनस्येदमाकूतम् । रामविवासने हि तद्वियोगं क्षणमपि सोढुमक्षमा सीताप्येनमनुगच्छेत् सा च लोकोत्तरसुन्दरी केनाप्यपह्रियेत तस्यां च हृतायां रामः स्वत एव नश्येत् ततो मे राज्यं सुप्रतिष्ठितं स्यात्, अन्यथा लब्धेनापि राज्येन न किञ्चित्प्रयोजनम्, यतो रामगुणपरवशः सर्वोपि जनः तद्विधेयः स्यात् तस्माद्रामोपि विनाशाय विवासनीय इति । इदमेव सीतोक्तं रामोप्यारण्यकाण्डे ऽसुप्तप्रमत्तकुपितानां वचनैर्भावज्ञानं दृष्टम्ऽ इति न्यायेन वक्ष्यति “कच्चित्सकामा कैकेयी सुखिता सा भविष्यति । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ " अन्यत्र च “यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्। कैकेय्यास्तत्सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ॥ " इति । इममेवार्थं पूर्वसर्गान्ते सूचितवान्– “जानकी तु महाराज निश्वसन्ती तपस्विनी । भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता । अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी । तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् । उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता । मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ " इति। अत्र रोदनमवचनं परिशुष्यता मुखेन भर्तृवीक्षणं पुनः सुमन्त्रवीक्षणं बाष्पमोचनं च कुर्वन्त्या पूर्वोक्तार्थस्मरणम्, तत एव स्तब्धता, भर्तृमुखवीक्षणेन वक्तुमनर्हत्वज्ञानं बाष्पमोचनेन सूतवीक्षणेन च श्वश्रूं प्रत्यकथनीयत्वद्योतनं चेति व्यज्यते। तत्र सीतयोक्तं प्रामादिकमिति जुगोप। अत्र तु स्वस्यैव प्रमादोत्थं व्याजेन परिहृतवान् ॥ २।६०।१५ ॥

अध्वना वातवेगेन सम्भ्रमेणातपेन च ।

न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ॥ २।६०।१६ ॥

अध्वनेति । अध्वना अध्वगमनेन । सम्भ्रमेण व्याघ्रादिदर्शनजन्यव्याकुलत्वेन । न विगच्छति न विकरोति ॥ २।६०।१६ ॥

सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् ।

वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥ २।६०।१७ ॥

सदृशमिति । शतपत्रस्य पद्मस्य । पूर्णचन्द्रोपमप्रभं पूर्णचन्द्रसदृशप्रभम् । वदान्यायाः वल्गुवाचः । “वदान्यो वल्गुवागपि” इत्यमरः । न विकम्पते न विचलति । स्वाभाविकप्रभां न जहातीत्यर्थः ॥ २।६०।१७ ॥

अलक्तरसरक्ताभावलक्तरसवर्जितौ ।

अद्यापि चरणौ तस्याः पद्मकोशसमप्रमौ ॥ २।६०।१८ ॥

अलक्तेति । अद्यापि वनगमनेपि ॥ २।६०।१८ ॥

नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी ।

इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा ॥ २।६०।१९ ॥

नूपुरेति । तद्रागात् भूषणविषयस्नेहात् । न्यस्यभूषणा चरणाद्यवयवेष्वर्पितभूषणा । वैदेही नूपुरोद्घुष्टहेलेव नूपुरोत्पन्नस्वनानुकारिलीलायुक्तेव । खेलं सलीलं गच्छति । सीतायाः सर्वदा साभरणत्वं ऽमन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमेऽ इत्युत्तरत्र भरतवचनादवगम्यते । यद्वा तद्रागात् रामेण सह गमनकौतुकात् । न्यस्तभूषणा उत्सृष्टनूपुरापि नूपुरोत्कृष्टहेलेव नूपुरसञ्चितविलासेव (नूपुरोत्कृष्टहेलेवेति पाठः) ॥ २।६०।१९ ॥

गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता ।

नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ॥ २।६०।२० ॥

गजमिति । गजं दर्शनमात्रेण भीषणमहाकायं वीक्ष्य न तु श्रुत्वा, सिंहं तमपि तृणाय मत्वा । व्याघ्रं वा जन्तुमात्रहिंसकतया सिंहादप्यतिक्रूरं सिंहदर्शनादपि व्याघ्रदर्शनमतिक्रूरमिति न तत्प्रकर्षः । वनमाश्रिता विनापि सिंहादीन् स्वत एव भयङ्करं प्रदेशमवगाहमानापि । नाहारयति नारोपयति । आहारयतेरारोपार्थकत्वात् भयभावनामात्रमपि न करोतीत्यर्थः । नाहारयति सन्त्रासं स्त्रीत्वप्रयुक्तस्वाभाविकभीतिरपि निर्गता । तत्र हेतुमाह बाहू रामस्य संश्रिता । परिघान्तर्गताः किं बिभ्यतीति भावः ॥ २।६०।२० ॥

न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः ।

इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ २।६०।२१ ॥

न शोच्या इति । ते रामादयः । आत्मानः वयम् । इदं चरितं पितृवचनपरिपालनरूपं चरित्रम् शाश्वतम् आचन्द्रार्कम् ॥ २।६०।२१ ॥

विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः ।

वनेरता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते ॥ २।६०।२२ ॥

विधूयेति । महर्षियाते महर्षिभिः प्राप्ते ॥ २।६०।२२ ॥

तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता ।

न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ॥ २।६०।२३ ॥

तथापीत्युक्तं विवृणोति–सूतेनेत्यादिना । सुयुक्तवादिना सूतेन तथा निवार्यमाणापि सुतशोककर्शितत्वात् देवी प्रियेत्यादिकूजितान्न विरराम ॥ २।६०।२३ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदि० श्रीमदयोध्याकायण्डे षष्टितमः सर्गः ॥ ६० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामा० भूषणे० पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥