[इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम् ।
ब्रूह्यशेषं पुनरिति राजा वचनमब्रवीत् ॥ २।५९।१ ॥
तस्य तद्वचनं श्रुत्वा सुमन्त्रो बाष्पविक्लवः ।
कथयामास भूयो ऽपि रामसन्देशविस्तरम् ॥ २।५९।२ ॥
जटाः कृत्वा महाराज चीरवल्कलधारिणौ ।
गङ्गामुत्तीर्य्य तौ वीरौ प्रयागाभिमुखौ गतौ ॥ २।५९।३ ॥
अग्रतो लक्ष्मणो यातः पालयन् रघुनन्दनम् ।
अनन्तरं च सीताथ राघवो रघुनन्दनः ।
तांस्तथा गच्छतो दृष्ट्वा निवृत्तोस्म्यवशस्तदा ॥ २।५९।४ ॥ ]
मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।
उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम् ॥ २।५९।१ ॥
ममेति । मम वर्त्मनि मत्सम्बन्धिनि मार्गे । न प्रावर्त्तन्त, नववियोगक्लेशादिति भावः ॥ २।५९।१ ॥
उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम् ।
प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् ॥ २।५९।२ ॥
उभाभ्यामिति । राजपुत्राभ्यामिति चतुर्थी । तद्दुःखं तादृशं दुःखम् ॥ २।५९।२ ॥
गुहेन सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् ।
आशया यदि मां रामः पुनःशब्दापयेदिति ॥ २।५९।३ ॥
मुहेन सार्धं तत्स्नेहितजनसन्दर्शनमपि क्लेशावहमिति भावः । तत्रैव नतु वर्त्मनि । दिवसानिति बहुवचनेन कपिञ्जलाधिकरणन्यायेन त्रित्वसिद्धिरित्येके । वस्तुवस्तु वनस्पतिमूले एकदिनं भरद्वाजाश्रमे द्वितीयं यमुनातीरे तृतीयं चतुर्थे चित्रकूटप्रवेशः पञ्चमे गुहचारैस्तत्सर्वं निवेदितं षष्ठे सूतनिर्गमः । यद्वा द्वितीयदिने भरद्वाजाश्रमे रामस्य चित्रकूटगमनव्यवसायात् । तृतीयदिने चारैर्निवेदनं चतुर्थे सूतनिर्गमः अतः त्रीन् दिवसान् गङ्गाकूले स्थितोस्मीत्यर्थः । बहूनिति विशेषणात् रामवियोगेन एकैकस्य दिवसस्य कल्पवत् प्रतिभानमिति दर्शितम् । पुनःशब्दापयेत् पुनराह्वयेत् । वनचरमुखेनेति हृदयम् । शब्दशब्दाण्णौ तत्कृतापुगन्तोप्ययमस्ति । अतो ऽङ्कापयतीत्यादिवत् सिद्धम् ॥ २।५९।३ ॥
विषये ते महाराज रामव्यसनकर्शिताः ।
अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ॥ २।५९।४ ॥
अथ रामस्य सर्वान्तर्यामितादात्म्यं सूचयितुं सर्वेषां रामविरहक्लेशं वर्णयति । यद्वा कैकेयीप्रियार्थमविचारेण सहसाकृतं कार्यं सर्वक्षोभनिमित्तमभूदित्याद–विषय इत्यादि । विषये देशे । “देशविषयौ तूपवर्तनम्” इत्यमरः । अपिशब्देन लतादयः समुच्चीयन्ते । व्याध्यादिना एकदेशग्लानिं व्यावर्तयितुं सपुष्पेत्यादि । सपुष्पाङ्कुरकोरकाः पुष्पाणि अभिनवविकसितानि, अङ्कुराः शाखासु नवपल्लवोद्भेदाः, कोरकाः कलिकाः “कलिका कोरकः पुमान्” इत्यमरः । तैः सहिता वृक्षा अपि परिम्लानाः, कठिनकोमलविभागमन्तरेणापि सर्वमेकदैव परिम्लानमभूदित्यर्थः ॥ २।५९।४ ॥
उपतप्तोदका नद्यः पल्वलानि सरांसि च ।
परिशुष्कपलाशानि वनान्युपवनानि च ॥ २।५९।५ ॥
उपतप्तोदका इति । अकार्त्स्न्येनोपतप्तत्वव्युदासायोदकपदम्, तेनातपकार्योपतापव्यावृत्तिः । पल्वलानि सरांसि च । पल्वलानीति दृष्टान्तार्थम् । एवं वनानीत्यपि । अनेनाल्पाधिकविभागमन्तरेण परितप्तत्वं द्योत्यते । उपतप्तोदका इति पदं लिङ्गविपरिणामेन पल्वलादौ योजनीयम् । वनानि सन्ततजलसेकमन्तरेण प्रवृद्धानि कठिनाकाराणि । उपवनानि जलसेकेन प्रवृद्धान्यतिकोमलानि । परिशुष्कपलाशानि एकरूपेण शुष्कपत्राणि “पत्रं पलाशम्” इत्यमरः ॥ २।५९।५ ॥
न च सर्पन्ति सत्त्वानि व्याला न प्रचरन्ति च ।
रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ २।५९।६ ॥
नेति । न सर्पन्ति न गच्छन्ति किन्तु स्तब्धतया तिष्ठन्ति । सत्त्वानि जन्तवः । व्यालाः हिंस्रपशवः सर्वदा संचारस्वभावा गजा वा । न प्रचरन्ति आहारार्थमपि न सञ्चरन्तीत्यर्थः । गमनवच्छब्दोपि नास्तीत्याह निष्कूजमिति । निष्कूजं निश्शब्दम् ॥ २।५९।६ ॥
लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः ।
सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः ॥ २।५९।७ ॥
लीनपुष्करपत्राः ग्लान्यतिशयेन जलान्तर्विलीनपद्मपत्राः लीनाः सञ्चाररहिताः विहङ्गमाः जलकाकादयः ॥ २।५९।७ ॥
जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।
नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ २।५९।८ ॥
जलजानीति । माल्यानि पुष्पाणि । “माल्यं पुष्पे पुष्पदाम्नि” इति वैजयन्ती । यथापुरं यथा पूर्वम् । अल्पगन्धीनीति मत्वर्थीय इनिः । स्वभावस्य दुस्त्यजत्वादल्पत्वम् । फलानि रसालपनसादीनि ॥ २।५९।८ ॥
अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।
न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥ २।५९।९ ॥
प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।
नरा राममपश्यन्तो निश्वसन्ति मुहुर्मुहुः ॥ २।५९।१० ॥
अत्रेति । उद्यानानि आक्रीडाः “पुमानाक्रीड उद्यानम्” इत्यमरः । शून्यानि निर्जनानि । प्रलीनाः नीडेषु मूर्च्छिताः विहगाः शुकपिकशारिकादयः येषु तानि तथोक्तानि । आरामान् कृत्रिमवनानि “आरामः स्यादुपवनं कृत्रिमं वनमेव यत्” इत्यमरः । न चाभिरामान् किन्तु निःश्रीकान् पश्यामीत्यर्थः ॥ २।५९।९१० ॥
देव राजरथं दृष्ट्वा विना राममिहागतम् ।
दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥ २।५९।११ ॥
देवराजरथमिति । देवराजरथमित्यत्र देवेति सम्बोधनम् ॥ २।५९।११ ॥
हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम् ।
हाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥ २।५९।१२ ॥
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततराः स्त्रियः ॥ २।५९।१३ ॥
हर्म्यैरित्यादिश्लोकद्वयमेकान्वयम् । हाहाकारकृताः कृतहाहाकाराः । आयतैरित्यश्रुवेगातिशयोक्त्यर्थः । निरञ्जनत्वं द्योतयितुं विमलैरित्युक्तम् । अभिवीक्षन्तेव्यक्तमित्यत्र अव्यक्तमिति पदच्छेदः ॥ २।५९।१२१३ ॥
नामित्राणां न मित्राणामुदासीनजनस्य च ।
अहमार्ततया किञ्चिद्विशेषमुपलक्षये ॥ २।५९।१४ ॥
नामित्राणामिति । उदासीनेत्यत्रापि नञनुषच्यते । अमित्राणां तवेति शेषः । रामस्यामित्रप्रसङ्गाभावात् । यद्वा पौरजनस्यामित्राणां पौरजनस्य मित्राणाञ्च उदासीनजनस्य उदासीनजनापेक्षया आर्ततया हेतुना विशेषं नोपलक्षये ।
कुत्रचित्पुरुषे मित्राणि च न स्वकार्य्याणि कुर्वन्ति नापि शत्रवोपीति भावः ॥ २।५९।१४ ॥
अप्रहृष्टमनुष्या च दीननागतुरङ्गमा ।
आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ॥ २।५९।१५ ॥
निरानन्दा महाराज राम प्रव्राजनातुरा ।
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ २।५९।१६ ॥
सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।
बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ २।५९।१७ ॥
अप्रहृष्टमनुष्येत्यादि श्लोकद्वयमेकान्वयम् । विनिश्वसितनिस्वना दीर्घनिश्वासस्वनयुक्ताः । यद्वा विनिश्वसितस्येव निस्वनो यस्याः सा । व्याधिविशेषोपरुद्धनिश्वासजनवदविरतहाहाकारयुक्तेत्यर्थः । सन्निहितत्वेन कौसल्यां दृष्टान्तीकरोति । पुत्रहीना पुत्रवियुक्ता । एतावता प्रबन्धेन रामस्य सर्वात्मकता ऋषिणा ऽनुसंहितेति प्रबन्धगतवस्तुध्वनिः ॥ २।५९।१५१७ ॥
कैकेय्या विनियुक्तेन पापाभिजनभावया ।
मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् ॥ २।५९।१८ ॥
सुमन्त्रे पृष्टस्योत्तरमभिधाय ततोधिकं राज्यपुरुषक्षोभादिकं कथयति सति तन्ममाकृत्यकरणद्योतनार्थमिति बुद्ध्वाङ्गीकारेणोत्तरमाह–कैकेय्येति । विनियुक्तेन “प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि । अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥ " इत्युक्तक्रमेण विशेषेण नियोगं प्रापितेनेत्यर्थः। पापाभिजनभावया पापविषयजन्मभूम्यभिप्राययुक्तया। यद्वा पापो योऽभिजनभावः कुलक्रमागतोऽभिप्रायः स यस्यास्तया “कुलेप्यभिजनो जन्मभूमौ” इत्यमरः। “शंस मे जीव वा मा वा न मामुपहसिष्यसि” इत्युक्तवत्या मात्रा तुल्यस्वभावयेत्यर्थः। न समर्थितं न विचारितम् ॥ २।५९।१८ ॥
न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा च नैगमैः ।
मयायमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः ॥ २।५९।१९ ॥
न सुहृद्भिरिति । निगमः पुरं “पुरं वणिक्पथो वेदो निगमः” इत्यमरः । तत्र भवा नैगमाः तैः । अत्रापि नेत्यनुषज्यते । अयमर्थः रामप्रवासनरूपार्थः । सुहृद्भिर्मन्त्रयित्वा न कृतः अमात्यैश्च मन्त्रयित्वा न कृतः नैगमैश्च मन्त्रयित्वा न कृतः किन्तु स्त्रीहेतोः सम्मोहात् सहसा कृतः ॥ २।५९।१९ ॥
भवितव्यतया नूनमिदं वा व्यसनं महत् ।
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ २।५९।२० ॥
भवितव्यतयेति । अथवा इदं व्यसनं यदृच्छया दृष्टहेतुं विना भवितव्यतया पापेन प्राप्तमिति सम्बन्धः ॥ २।५९।२० ॥
सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम् ।
त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् ॥ २।५९।२१ ॥
सूतेति । ते तुभ्यं सुकृतमुपकारः । संत्वरयन्ति निर्जिगमिषन्तीत्यर्थः ॥ २।५९।२१ ॥
यद्यद्यापि ममैवाज्ञा निवर्त्तयतु राघवम् ।
न शक्ष्यामि विना रामं मुहूर्त्तमपि जीवितुम् ॥ २।५९।२२ ॥
अथवापि महाबाहुर्गतो दूरं भविष्यति ।
मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥ २।५९।२३ ॥
यदीति । अद्यापि अस्यां विपद्यपि, ममैवाज्ञा यदि प्रवर्तते तदा राघवं निवर्तय । तुशब्दो ऽवधारणे ॥ २।५९।२२२३ ॥
वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः ।
यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ २।५९।२४ ॥
वृत्तदंष्ट्रः इति । वृत्तदंष्ट्रः कुन्दकुड्मलाकारदंष्ट्रः । यदि पश्येयं जीवामीति सम्बन्धः ॥ २।५९।२४ ॥
लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् ।
रामं यदि न पश्येयं गमिष्यामि यमक्षयम् ॥ २।५९।२५ ॥
लोहिताक्षमिति । आमुक्तमणिकुण्डलं धृतरत्नकुण्डलम् ॥ २।५९।२५ ॥
अतो नु किं दुःखतरं योहमिक्ष्वाकुनन्दनम् ।
इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ २।५९।२६ ॥
हा राम रामानुज हा हा वैदेहि तपस्विनि ।
न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥ २।५९।२७ ॥
अतो न्विति । न पश्यामीति यत् अतः अदर्शनात् दुःखतरं किं तु किमपि दुःखतरं नास्तीत्यर्थः ॥ २।५९।२६२७ ॥
स तेन राजा दुःखेन भृशमर्पितचेतनः ।
आवगाढः सुदुष्पारं शोकसागरमब्रवीत् ॥ २।५९।२८ ॥
स तेनेति । दुःखेन तप्तायः पिण्डस्थानीयेन अर्पितचेतनः व्याप्तचित्तः । अवगाढः प्रविष्टः ॥ २।५९।२८ ॥
रामशोकमहाभोगः सीताविरहपारगः ।
श्वसितोर्मिमहावर्त्तो बाष्पफेनजलाविलः ॥ २।५९।२९ ॥
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।
प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ॥ २।५९।३० ॥
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
वरवेलो नृशंसाया रामप्रव्राजनायतः ॥ २।५९।३१ ॥
अनुभूयमानस्वशोकस्यापरिमेयत्वात्तं सागरत्वेन रूपयति–रामशोकमहाभोग इत्यादिना । रामशोक एव महान् आभोगो वैपुल्यं यस्य स तथा । सीता विरहरूपं पारं गच्छतीति तथा । अश्रुवेगस्य प्रभवो मूलहेतुः । सागरो हि वर्षस्य निदानं महाग्रहः महाग्राहः । अनेन कुब्जावाक्यमेव रामप्रवासनमूलमिति राज्ञा ज्ञातमित्यवगम्यते । नृशंसायाः कैकेय्याः वर एव वेला जलवृद्धिर्यस्य । रामप्रव्राजनमेवायतमायामो दैर्ध्यं यस्य स तथा ॥ २।५९।२९३१ ॥
यस्मिन् बत निमग्नो ऽहं कौसल्ये राघवं विना ।
दुस्तरो जीवता देवि मयायं शोकसागरः ॥ २।५९।३२ ॥
सागरत्वरूपणप्रयोजनमाह–यस्मिन्नित्यादिश्लोकेन ॥ २।५९।३२ ॥
अशोभनं यो ऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् ।
इतीव राजा विलपन् महायशाः पपात तूर्णं शयने स मूर्च्छितः ॥ २।५९।३३ ॥
अशोभनमिति । न लभ इति यत् इदमशोभनमित्यन्वयः । कविनापि वक्तुमशक्यत्वादिवेत्युक्तम् ॥ २।५९।३३ ॥
इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः ।
वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता ॥ २।५९।३४ ॥
इतीति । इति उक्तप्रकारेण । रामहेतोः करुणतरं यथातथा द्विगुणं विलपति पार्थिवे प्रणष्टे मूर्च्छिते सति । देवी पुनरेव भयमगमत् पूर्वं रामस्य किं भविष्यतीति इदानीं भर्तुरपि किं भविष्यतीति भयमगमदित्यर्थः ॥ २।५९।३४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
इति श्रीगोविन्द० श्रीरामा० पीता० अयोध्या० एकोनषष्टितमः सर्गः ॥ ५९ ॥