०५६ चित्रकूटदर्शनम्

अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् ।

प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः ॥ २।५६।१ ॥

अथेति । अनन्तरं स्वप्रबोधानन्तरम् । अवसुप्तम् ईषत्सुप्तमित्यर्थः ॥ २।५६।१ ॥

सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।

सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप ॥ २।५६।२ ॥

सौमित्र इति । वन्यानां शुकपिकशारिकादीनाम् । वल्गु सुन्दरम् । कालः प्राप्त इति शेषः ॥ २।५६।२ ॥

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।

जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ २।५६।३ ॥

स इति । समये प्रबोधनसमये । तन्द्रीं जाड्यम् । जहौ तदाप्रभृतीति शेषः । पथि श्रमं तत्कृतोपचारमित्यर्थः ॥ २।५६।३ ॥

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।

पन्थानमृषिणा ऽ ऽदिष्टं चित्रकूटस्य तं ययुः ॥ २।५६।४ ॥

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।

सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ॥ २।५६।५ ॥

तत उत्थायेति । नद्याः कालिन्द्याः । स्पृष्ट्वेत्युपलक्षणं प्रातःकालिकस्नानादिकृत्यानाम्, तं पन्थानं पलाशवनरूपम् ॥ २।५६।४५ ॥

आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् ।

स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ २।५६।६ ॥

आदीप्तानिति । आदीप्तानिव आ समन्ताज्ज्वलत इव । नगान् वृक्षान् । स्वैः पुष्पैः मालिनः मालावत इव स्थितान् । शिशिरात्यये वसन्तसमये ॥ २।५६।६ ॥

पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान् ।

फलत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् ॥ २।५६।७ ॥

पश्येति । भल्लातकान् वीरवृक्षान् । फुल्लान् फुल्लपुष्पान् । अनुपसेवितान् दुर्गमत्वादिति भावः । जीवितुं शक्ष्यामि एवमादिजीवनसाधनस्य विद्यमानत्वादिति भावः ॥ २।५६।७ ॥

पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण ।

मधूनि मधुकारीभिः सम्भृतानि नगेनगे ॥ २।५६।८ ॥

द्रोणप्रमाणानि द्रोणम् आढकद्वयम्, तत्प्रमाणानि तत्प्रमाणमधुपूरितानि । मधूनि कुर्वन्तीति मधुकार्य्यः । कर्म्मण्यण् ङीप् । ताभिः मधुमक्षिकाभिरिति यावत् । सम्भृतानि निर्मितानि । नगेनगे वृक्षेवृक्षे । लम्बमानानि मधूनि मधुपटलानि पश्य ॥ २।५६।८ ॥

एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति ।

रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ २।५६।९ ॥

एष इति । नत्यूहः दात्यूहः । नवोद्देशे वनप्रदेशे । पुष्पसंस्तरसङ्कटे पुष्पमयास्तरणेन निबिडे ॥ २।५६।९ ॥

मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम् ।

चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ २।५६।१० ॥

समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।

पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥ २।५६।११ ॥

ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।

रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ २।५६।१२ ॥

मातङ्गयूथानुसृतमिति । मातङ्गयूथानुसृतं गजकुलैर्व्याप्तम् । प्रवृद्धशिखरम् उन्नतशिखरम् ॥ २।५६।१०१२ ॥

तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।

बहुमूलफलं रम्यं सम्पन्नं सरसोदकम् ॥ २।५६।१३ ॥

मनोज्ञो ऽयं गिरिः सौम्य नानाद्रुमलतायुतः ।

बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ २।५६।१४ ॥

मुनयश्च महात्मानो वसन्त्यस्मिन् शिलोच्चये ।

अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ २।५६।१५ ॥

इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।

अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ २।५६।१६ ॥

तान् महर्षिः प्रमुदितः पूजयामास धर्मवित् ।

आस्यतामिति चोवाच स्वागतं तु निवेद्य च ॥ २।५६।१७ ॥

तं त्वित्यारभ्य अभिवादयन्नित्यन्तमेकं वाक्यम् । तं त्विति । सरसोदकं स्वादूदकम् । स्वाजीवः शोभनः आजीवो जीविका यस्मिन् स तथोक्तः । शिलोच्चये पर्वते । इति इतिनिश्चित्य । आश्रमं वाल्मीकीयम् । अभिवादयन् अभ्यवादयन् । तदानीं चित्रकूटे वाल्मीकेर्वासः, भरतागमनानन्तरमृषिनिर्गमनकथनात्तत्तःप्रभृति तमसातीर इति ज्ञेयम् । अतो न बालकाण्डकथाविरोधः ॥ २।५६।१३१७ ॥

ततो ऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः ।

संनिवेद्य यथान्यायमात्मानमृषये प्रभुः ॥ २।५६।१८ ॥

लक्ष्मणानय दारूणि दृढानि च वराणि च ।

कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मनः ॥ २।५६।१९ ॥

तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।

आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ २।५६।२० ॥

तत इत्यादिश्लोकद्वयमकं वाक्यम् । यथान्यायं यथाक्रमम् । आत्मानमृषये संनिवेद्य अमुकस्य पुत्रो ऽहम् अयं मद्भ्राता इयं मद्भार्या एतादृशकार्यार्थमागता वयमित्येवमुक्त्वा । वराणि जम्बूप्रभृतीनि गृहनिर्माणार्हाणि । तिन्त्रिणीमधूकादेस्त्याज्यत्वात् । आनय आवसथं कुरुष्वेति लक्ष्मणमब्रवीदिति सम्बन्धः ॥ २।५६।१८२० ॥

तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् ।

शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ॥ २।५६।२१ ॥

तामिति । निष्ठितां निश्चलां वातादिना चालयितुमशक्यां भित्तिसहितां परिनिष्पन्नाम् । बद्धकटां कुड्यार्थे कल्पितास्तरणां बद्धबाह्यावरणां वा । “कटे वर्षावरणयोः” इति धातुः । सुदर्शनां शोभनदर्शनाम् ।

शुश्रूषमाणं परिचर्यां कुर्वन्तम् । एकाग्रम् इतःपरं किंवा आज्ञापयिष्यतीति सावधानम् ॥ २।५६।२१ ॥

ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ।

कर्त्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥ २।५६।२२ ॥

ऐणेयमिति । ऐणेयम् एणसम्बन्धि । एणाढ्ढञ् आर्षः । शालां शालाधिष्ठात्रीस्तत्तद्दिग्वासिनीर्देवताः । तास्तु ऽशय्यादेशे कामलिङ्गेन देहल्यामन्तरिक्षलिङ्गेनऽ इत्यादिनगरखण्डप्रतिपाद्याः । तादृशयागार्थं पूर्वं वास्तुशमनं वास्तुशान्तिः गृहप्रवेशार्हं कर्म कर्तव्यम्, गृहदेशे वर्तमानभूतपिशाचादीनां शमनं कर्तव्यमित्यर्थः । कर्तव्यं चिरजीविभिरित्यनेन अकरणे आयुः क्षयो दर्शितः । तदुक्तं ब्रह्माण्डपुराणे “न च व्याधिभयं तस्य न च बन्धुजनक्षयः । जीवेद् वर्षशतं स्वर्गकल्पमेवं वसेन्नरः ॥ " इति ॥ २।५६।२२ ॥

मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण ।

कर्त्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥ २।५६।२३ ॥

भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा ।

चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥ २।५६।२४ ॥

कथं कर्त्तव्यमित्यपेक्षायामाह कर्त्तव्य इति । शास्त्रदृष्टः शास्त्रेषु निर्णीतः विधिः प्रकारः कर्त्तव्यः । धर्मं तदनुकूलधर्मशास्त्रम् । अनुस्मर अवधेहीत्यर्थः ॥ २।५६।२३२४ ॥

ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम् ।

त्वर सौम्य मुहूर्तो ऽयं ध्रुवश्च दिवसो ऽप्ययम् ॥ २।५६।२५ ॥

ऐणेयमिति । श्रपयस्व पच । अयं मुहूर्तः ध्रुवः स्थिरः । अयं शोभनतिथिनक्षत्रयुक्तो दिवसो वासरश्च ध्रुवः, स्थिर इत्यर्थः । (पाठभेदः । अयं सौम्यमुहूर्तः शुभमुहूर्तः । अयं दिवसश्च ध्रुव यजमानस्थैर्य्यकारी) ॥ २।५६।२५ ॥

स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।

अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ २।५६।२६ ॥

स इति । समिद्धे सम्यग्दिप्ते । जातवेदसि अग्नौ । चिक्षेप पपाचेत्यर्थः ॥ २।५६।२६ ॥

तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।

लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ २।५६।२७ ॥

तामिति । निष्ठप्तं सोष्णं छिन्नशोणितं क्षीणशोणितम् ॥ २।५६।२७ ॥

अयं कृष्णः समाप्ताङ्गः श्रृतः कृष्णमृगो यथा ।

देवतां देवसङ्काश यजस्व कुशलो ह्यसि ॥ २।५६।२८ ॥

अयमिति । कृष्णः कृष्णमृगः । समाप्ताङ्गः परिपूर्णावयवः । श्रृतः पक्वः । कृष्णमृगो यथा पूर्णावयवत्वात् पाकतः श्यामत्वाच्च पूर्वावस्थ इव दृश्यत इत्यर्थः । कुशलोसि यजने समर्थोसि ॥ २।५६।२८ ॥

रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः ।

सङ्हेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ॥ २।५६।२९ ॥

राम इति । गुणवान् प्रायत्यादिगुणवान् । जप्यकोविदः जप्यमन्त्रेषु समर्थः । सङ्ग्रहेण सङ्क्षेपेण । सत्रावसानिकान् सत्रं वास्तुयागः यैर्मन्त्रैरवसीयते परिसमाप्यते ते सत्रावसानाः, सत्रावसाना एव सत्रावसानिकाः । विनयादेराकृतिगणत्वात् स्वार्थे ठक् । छान्दसो वृद्ध्यभावः । अकरोत् यावता वास्तुशान्तिकर्म समाप्यते तावन्मन्त्रान् जजापेत्यर्थः । मन्त्रजपपूर्वकं कर्म्माण्यकरोदित्यर्थः ॥ २।५६।२९ ॥

इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः ।

बभूव च मनोह्लादो रामस्यामिततेजसः ॥ २।५६।३० ॥

इष्ट्वा देवगणानिति । देवगणान् वास्तु देवताः । ह्लादः तुष्टिः ॥ २।५६।३० ॥

वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च ।

वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ २।५६।३१ ॥

जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि ।

पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ २।५६।३२ ॥

वैश्वदेवबलिमिति । वैश्वदेवबलिं वैश्वदेवबलिहरणे । रौद्रं रुद्रदेवताकम् । वैष्णवं विष्णुदेवताकं च यागम् । वास्तुसंशमनीयानि गृहारिष्टशामकानि । मङ्गलानि मङ्गलकराणि पुण्याहवाचनशान्तिजपादीनि । स्नात्वेति पुनःस्नानकरणं “ततः सर्वौषधीस्नानं यजमानस्य कारयेत्” इति स्मरणादित्याहुः । वस्तुतस्तु रौद्रयागकरणात् पुनःस्नानम् । रौद्रकर्मकरणे अपउपस्पृश्येति विधानादिति ज्ञेयम् । पापसंशमनं पापशब्देन पापप्रधानानि दिवाचरनक्तंचराणि क्रूरभूतान्युच्यन्ते । तेषां संशमनम् । यद्वा पापसंशमनं “पञ्च सूना गृहस्थस्य” इत्याद्युक्तरीत्या सूनारूपपापशमनम् । वैश्वदेवबलिमित्यत्र भूतबलिमात्रोक्तिः । अत्र तद्व्यतिरिक्तः पित्रादिविषयः । यद्वा पूर्वं वैश्वदेवरूपबलिमित्यर्थः । अत्र सर्वभूतबलिः । यद्वा पूर्वोक्तस्य सर्वस्योपसंहारः ॥ २।५६।३१३२ ॥

वेदिस्थलविधानानि चैत्यान्यायतनानि च ।

आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ २।५६।३३ ॥

वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि ।

अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः ॥ २।५६।३४ ॥

तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।

तदा विविशतुः शालां सुशुभां शुभलक्षणौ ॥ २।५६।३५ ॥

वेदीति । वेदिस्थलविधानानि बलिहरणादिवेदिस्थलसंस्थानानि । “वेदिः परिष्कृता भूमिः” इत्यमरः । चैत्यानि गन्धर्वाद्यावासस्थानानि । आयतनानि विष्ण्वा़द्यावासस्थलानि । (पाठभेदः । चैत्यानि देवतास्थानानि । आयतनानि अग्न्यगाराणि । अनुरूपाणि आश्रमस्यानुरूपाणि सूक्ष्माणीत्यर्थः । स्थापयामास मन्त्रतस्तत्तद्देवतानां तत्रतत्रावस्थानं कल्पितवानित्यर्थः) ॥ २।५६।३३३५ ॥

तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् ।

वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम् ॥ २।५६।३६ ॥

तामिति । वृक्षपर्णच्छदनां वृक्षपर्णरूपाच्छादनपटलयुक्ताम् । यथाप्रदेशं शास्त्रोक्तप्रदेशमनतिक्रम्य । “आग्नेय्यां पाकशाला” इत्यादिशास्त्रम् । सुधर्मां देवसभाम् “स्यात्सुधर्मा देवसभा” इत्यमरः ॥ २।५६।३६ ॥

अनेकनानामृगपक्षिसङ्कुले विचित्रपुष्पस्तबकैर्द्रुमैर्युते ।

वनोत्तमे व्यालमृगानुनादिते तदा विजर्ह्रुः सुसुखं जितेन्द्रियाः ॥ २।५६।३७ ॥

अनेकेति । पुष्पस्तबकपदं कर्णावतंसादिपदवन्निर्वाह्यम् । व्यालाः सर्प्पाः राजा वा । जितेन्द्रिया इत्यनेन विहारो ग्राम्यभिन्नजलक्रीडापुष्पापचयादिरिति सूच्यते ॥ २।५६।३७ ॥

सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ।

ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥ २।५६।३८ ॥

सुरम्यमिति । तां प्रसिद्धाम् । सुतीर्थां शोभनजलावतरणप्रदेशाम् । हृष्टः पुलकितः । पुरविप्रवासात्

जनितमिति शेषः ॥ २।५६।३८ ॥

इत्यार्षे० श्रीमदयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥