ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम् ।
विमले ऽभ्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे ॥ २।५४।१ ॥
ते त्विति । महावृक्षे महावृक्षमूले । सामीप्ये सप्तमी । विमले ऽभ्युदिते स्पष्टमुदित इत्यर्थः ॥ २।५४।१ ॥
यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्त्तते ।
जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ २।५४।२ ॥
ते भूमिभागान् विविधान् देशांश्चापि मनोरमान् ।
अदृष्टपूर्वान् पश्यन्तस्तत्रतत्र यशस्विनः ॥ २।५४।३ ॥
यत्रेत्यादिश्लोकद्वयमेकान्वयम् । भूमिभागान् वनप्रदेशान् । देशान् वत्सदेशावान्तरदेशान् । एतदेवनानात्वमाह तत्रतत्रेति । यशस्विन इत्यनेन तत्तद्देशीयैरर्चितत्वमुक्तम् ॥ २।५४।२३ ॥
यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान् ।
निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ २।५४।४ ॥
यथाक्षेमेणेति । यथाक्षेमेण क्षेमानतिक्रमेण । “यथा सादृश्य” इति पदार्थानतिवृत्तावव्ययीभावः । “तृतीयासप्तम्योर्बहुलम्” इत्यलुक् । क्षेमहेत्ववधानमनतिक्रम्येत्यर्थः । निवृत्तमात्रे अर्द्धमण्डलकाल इत्यर्थः ॥ २।५४।४ ॥
प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् ।
अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः ॥ २।५४।५ ॥
प्रयागमिति । प्रयागमभितः प्रयागस्याभितः । “अभितः परितः–” इत्यादिना द्वितीया । केतुं ध्वजीभूतं धूममिति सम्बन्धः । अतः सन्निहितो मुनिरिति मन्ये ॥ २।५४।५ ॥
नूनं प्राप्ताः स्म सम्भेदं मङ्गायमुनयोर्वयम् ।
तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः ॥ २।५४।६ ॥
नूनमिति । सम्भेदं सङ्गमम् “सम्भेदः सिन्धुसङ्गमः” इत्यमरः । वारिघट्टितो वारिणः शब्दः वारिजनितो वारिशब्दः । वारिणोरन्योन्यघट्टनजः शब्द इत्यर्थः ॥ २।५४।६ ॥
दारूणि परिभिन्नानि वनजैरुपजीविभिः ।
भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ २।५४।७ ॥
दारूणीति । वनजैरुपजीविभिः वनोत्पन्नैः फलमूलकाष्ठाद्युपजीविभिः दारूणि इत्यत्रापि दृश्यन्त इत्यनुषज्यते ॥ २।५४।७ ॥
धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे ।
गङ्गायमुनयोः सन्धौ प्रापतुर्निलयं मुनेः ॥ २।५४।८ ॥
धन्विनाविति । लम्बमाने अस्तगिरौ लम्बमान इव दृश्यमाने सन्धौ सङ्गमं वर्तमानं निलयम् आश्रमं तत्समीपप्रदेशं प्रापतुः ॥ २।५४।८ ॥
रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः ।
गत्वा मुहूर्त्तमध्वानं भरद्वाजमुपागमत् ॥ २।५४।९ ॥
राम इति । त्रासनयन् अपूर्वदर्शनेन त्रासं जनयन् । मूहूर्तं मुहूर्तगम्यम् । भरद्वाजं भरद्वाजसमीपम् ॥ २।५४।९ ॥
ततस्त्वाश्रममासाद्य मुनेर्दर्शनकांक्षिणौ ।
सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥ २।५४।१० ॥
तत इति । दूरादेवावतस्थतुः सायन्तनसमयत्वादग्निहोत्रावसानं प्रतीक्षमाणाववतस्थतुरित्यर्थः ॥ २।५४।१० ॥
स प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम् ।
संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ॥ २।५४।११ ॥
हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः ।
रामः सौमित्रिणा सार्द्धं सीतया चाम्यवादयत् ॥ २।५४।१२ ॥
स प्रविश्येत्यादिश्लोकद्वयम् । प्रविश्य दैवान्निर्गतशिष्यमुखेनेति शेषः । संशितव्रतं तीक्ष्णव्रतम् । एकाग्रम् एकप्रधानम्, ध्यानपरमिति यावत् । तपसा तपोवैभवेन । लब्धचक्षुषं लब्धज्ञानम् । अतीतानागतवर्तमानयावदर्थगोचरज्ञानयुक्तमित्यर्थः । दृष्ट्वैव दर्शनोत्तरकालमेवेत्यर्थः ॥ २।५४।१११२ ॥
न्यवेदयत चात्मानं तस्मै लक्ष्मण पूर्वजः ।
पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ ॥ २।५४।१३ ॥
भार्या ममेयं वैदेही कल्याणी जनकात्मजा ।
मां चानुयाता विजनं तपोवनमनिन्दिता ॥ २।५४।१४ ॥
पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः ।
अयमन्वगमद्भ्राता वनमेव दृढब्रतः ॥ २।५४।१५ ॥
न्यवेदयतेत्यादिश्लोकद्वयमेकान्वयम् । सीतालक्ष्मणयोः सर्वात्मना परतन्त्रत्वादात्मानमित्यनेन तयोरपि ग्रहणम् । कल्याणी पतिव्रतेत्यर्थः । अनुयातेति न्यवेदयतेतिसम्बन्धः ॥ २।५४।१३१५ ॥
पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम् ।
धर्ममेव चरिष्यामस्तत्र मूलफलाशनाः ॥ २।५४।१६ ॥
पित्रेति । धर्मं पितृवचनपरिपालरूपम् ॥ २।५४।१६ ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ॥ २।५४।१७ ॥
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।
तेभ्यो ददौ तप्ततपा वासं चैवाम्यकल्पयत् ॥ २।५४।१८ ॥
तस्येति । गां मधुपर्काङ्गभूतमहोक्षम् । तथा च स्मृतिः– “गोमधुपर्क्कार्हो वेदाध्यायी आचार्य ऋत्विक् स्नातको राजा वा धर्मयुक्तः” इति । अर्ध्यं पूजाविधेरङ्गम् । अन्नरसान् अदनीयरसान्, रसप्रधानान् पदार्थविशेषानित्यर्थः । वन्यमूलफलाश्रयान् वन्यमूलफलप्रकृतिकान् ॥ २।५४।१७१८ ॥
मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः ।
राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ॥ २।५४।१९ ॥
मृगपक्षिभिरिति । मृगपक्षिभिरासीनो मुनिभिश्चेत्यनेन मुनिवैभवात्तिर्यञ्चो ऽपि मुनिनिर्विशेषं सञ्जातविश्वासाः सेवन्त इति गम्यते । स्वागतेनाह स्वागतमाहेत्यर्थः । यद्वा मृगपक्षिभिः सहेति शेषः । स्वागतेनाभ्यर्च्येति सम्बन्धः ॥ २।५४।१९ ॥
प्रतिगृह्य च तामर्चामुपविष्टं स राघवम् ।
भरद्वाजो ऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ २।५४।२० ॥
मुनिराहेत्येतद्विवृणोति–प्रतिगृह्येति ॥ २।५४।२० ॥
चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् ।
श्रुतं तव मया चेदं विवासनमकारणम् ॥ २।५४।२१ ॥
अवकाशो विविक्तो ऽयं महानद्योः समागमे ।
पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥ २।५४।२२ ॥
एवमुक्तस्तु वचनं भरद्वाजेन राघवः ।
प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ २।५४।२३ ॥
चिरस्य चिरम् ॥ २।५४।२१२३ ॥
भगवन्नित आसन्नः पौरजानपदो जनः ।
सुदर्शमिह मां प्रेक्ष्य मन्ये ऽहमिममाश्रमम् ॥ २।५४।२४ ॥
आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ।
अनेन कारणेनाहमिह वासं न रोचये ॥ २।५४।२५ ॥
एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् ।
रमेत यत्र वैदेही सुखार्हा जनकात्मजा ॥ २।५४।२६ ॥
भगवन्नित्यादि । इतः एतदाश्रमापेक्षया । इह आश्रमे । सुदर्शं सुखेन द्रष्टुं शक्यम् । प्रेक्ष्य ज्ञात्वा वैदेहीं मां च प्रेक्षको जनः इममाश्रममागमिष्यतीत्यहं मन्ये । अनेनकारणेन इह वासं न रोचय इत्यन्वयः । मां प्रेक्षक इत्यत्र “अकेनोर्भविष्यदाधमर्ण्ययोः” इति षष्ठीप्रतिषेधः । एकान्ते पौरजनाविदिते । पश्य चिन्तय ॥ २।५४।२४२६ ॥
एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ।
राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत् ॥ २।५४।२७ ॥
एतदिति । अर्थग्राहकम् अर्थबोधकं यथा भवति तथा । यद्वा अर्थग्राहकं बह्वर्थवत् अब्रवीत् ॥ २।५४।२७ ॥
दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि ।
महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः ॥ २।५४।२८ ॥
गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः ।
चित्रकूट इति ख्यातो गन्धमादनसन्निभः ॥ २।५४।२९ ॥
दशक्रोश इत्यादि । यस्मिन् गिरौ निवत्स्यसि स गिरिरितो दशक्रोशः, दशक्रोशावस्थित इत्यर्थः । गन्धमादनसन्निभः गन्धमादनपर्वतसन्निभः । अतीतानागतवर्त्तमानज्ञो महर्षिः गोलाङ्गूलानुचरितो वानरर्क्षनिषेवित इति केवलत्रिवर्गाभिधानेन एतत्सजातीया एव रामस्य सहाया अपि भविष्यन्तीति सूचितवानिति गम्यते ॥ २।५४।२८२९ ॥
यावता चित्रकूटस्य नरः श्रृङ्गाण्यवेक्षते ।
कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ २।५३।३० ॥
यावतेति । नरः यावता दूरेण चित्रकूटस्य शृङ्गाण्यवेक्षते तावता कल्याणानि पुण्यकर्माणि समाधत्ते प्राप्नोति । यद्वा समाधत्ते आचरति पापे मनो न कुरुते, तत्र वसन् किमुतेति भावः । यद्वा यावता कालेन ॥ २।५४।३० ॥
ऋषयस्तत्र बहवो विहृत्य शरदां शतम् ।
तपसा दिवमारूढाः कपालशिरसा सह ॥ २।५४।३१ ॥
ऋषय इति । तत्र चित्रकूटे । शरदां शतं तपसा विहृत्यक्रीडन्त इव महत्तपः परिसमाप्येत्यर्थः । कपालशिरसा सह दिवमारूढाः तपश्चरणेन निरन्तरकपालासनेन प्रक्षीणत्वक्शिरोरुहतया कपालावशिष्टशिरसा सह दिवमारूढा इत्यर्थः । कपालशिरसेत्येतच्छरीरोपलक्षणम् । सशरीराः स्वर्गं गता इत्यर्थः । यद्वा कपालशिरा इति कस्यचिदृषेः संज्ञा । कपालशिरसा कपालरूपशिरोयुक्तेनेत्यध्याहृतशरीरपदविशेषणमित्येके । कपालमात्रावशिष्टं शिरो यस्मिन्निति तपोविशेषणमित्येके ॥ २।५४।३१ ॥
प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् ।
इह वा वनवासाय वस राम मया सह ॥ २।५४।३२ ॥
प्रविविक्तमिति । प्रविविक्तं प्रकर्षेण विजनम् ॥ २।५४।३२ ॥
स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ।
सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ २।५४।३३ ॥
स राममिति । सर्वकामैः प्रतिजग्राह अतिथियोग्यसत्कारैर्वशीकृतवानित्यर्थः । (पाठभेदः । प्रतिजग्राह उपचचार) ॥ २।५४।३३ ॥
तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः ।
प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ २।५४।३४ ॥
सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः ।
भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ॥ २।५४।३५ ॥
प्रभातायां रजन्यां तु भरद्वाजमुपागमत् ।
उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् ॥ २।५४।३६ ॥
तस्येति । प्रपन्ना प्राप्ता ॥ २।५४।३४३६ ॥
शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे ।
उषिताः स्मेह वसतिमनुजानातु नो भवान् ॥ २।५४।३७ ॥
शर्वरीमिति । वसतिमनुजानातु पूर्वोक्तां वसतिं प्रतिगन्तुमनुज्ञां करोत्वित्यर्थः ॥ २।५४।३७ ॥
रात्र्यां तु तस्यां व्युष्टायां भरद्वाजो ऽब्रवीदिदम् ।
मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ॥ २।५४।३८ ॥
रात्र्यामिति । व्रजेत्यब्रवीदित्यन्वयः । हेति पादपूरणे हर्षे वा ॥ २।५४।३८ ॥
वासमौपयिकं मन्ये तव राम महाबल ।
नानानगगणोपेतः किन्नरोरगसेवितः ॥ २।५४।३९ ॥
मयूरनादाभिरुतो गजराजनिषेवितः ।
गम्यतां भवता शैलश्चित्रकूटः स विश्रुतः ।
पुण्यश्च रमणीयश्च बहुमूलफलायुतः ॥ २।५४।४० ॥
तत्र कुञ्जरयूथानि मृगयूथानि चाभितः ।
विचरन्ति वनान्ते ऽस्मिन् तानि द्रक्ष्यसि राघव ॥ २।५४।४१ ॥
वासमिति । तत्रेति शेषः । औपयिकं युक्तम् । “युक्तमौपयिकम्” इत्यमरः । नानानगगणोपेतः नानावृक्षनिचयोपेतः ॥ २।५४।३९४१ ॥
सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्द्दरान् ।
चरतः सीतया सार्द्धं नन्दिष्यति मनस्तव ॥ २।५४।४२ ॥
सरित्प्रस्रवणप्रस्थानिति । सरितो नद्यः प्रस्रवणानि तनुतरजलप्रवाहाः प्रस्थाः सानवः स्तान् । दरीकन्दरनिर्द्दरान् दर्यः पाषाणसंश्लेषस्थानानि कन्दराः गुहाः । निर्द्दराः विदीर्णपाषाणसन्धयः तान् ॥ २।५४।४२ ॥
प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् ।
मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम् ॥ २।५४।४३ ॥
प्रहृष्टेति । कोयष्टिकाः टिट्टिभकाः । “कोयष्टिकष्टिट्टिभकः” इत्यमरः ॥ २।५४।४३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥
इति श्रीगोविन्द० श्रीरा० पीता० भूष० अयोध्याकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥ ५४ ॥