०५३ राम-लक्ष्मणसंवादः

स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम् ।

रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥ २।५३।१ ॥

स तमित्यादि । अत्र मृगमांसादनमस्तमयात् प्रागर्थसिद्धम् । अन्वास्य उपास्य ॥ २।५३।१ ॥

अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः ।

या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ २।५३।२ ॥

अद्येति । याता प्राप्ता । अद्येत्यस्य नोत्कण्ठितुमर्हसीत्यनेनान्वयः । उत्कण्ठा दुःखस्मरणं तां प्रतीति शेषः ॥ २।५३।२ ॥

जागर्त्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु ।

योगक्षेमं हि सीताया वर्तते लक्ष्मणावयोः ॥ २।५३।३ ॥

जागर्तव्यमिति । योगक्षेमं पालनमिति यावत् । आवयोर्वर्तते, अस्मदधीनमित्यर्थः ॥ २।५३।३ ॥

रात्रिं कथञ्चिदेवेमां सौमित्रे वर्तयामहे ।

उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः ॥ २।५३।४ ॥

रात्रिमिति । कथञ्चिदेवेमामिति । प्राथमिकत्वादिति भावः । इमां शय्यासम्पादनात् पूर्वमेव प्राप्तां स्वयमार्जितैः, तृणपर्णैरिति शेषः । उपावर्त्तामहे शयिष्यामहे । वर्त्तमानसामीप्ये वर्त्तमानवद्भावः ॥ २।५३।४ ॥

स तु संविश्य मेदिन्यां महार्हशयनोचितः ।

इमाः सौमित्रयो रामो व्याजहार कथाः शु