०५२ गङ्गातरणम्-सुमन्त्रविसर्जनं च

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।

उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ २।५२।१ ॥

प्रभातायामिति । पृथुवक्षा इत्युत्साहातिरेकोक्तिः । महायशा इति धर्मव्यतिक्रमाभावः सूचितः । सौमित्रिमिति “रामं दशरथं विद्धि” इत्यादिनोक्तार्थानुष्ठायित्वं सूचितम् । शुभलक्षणमित्यनेन स्वभक्तिरुक्ता ॥ २।५२।१ ॥

भास्करोदयकालो ऽयं गता भगवती निशा ।

असौ सुकृष्णो विहगः कोकिलस्तात कूजति ॥ २।५२।२ ॥

भास्करोदयकाल इति । भास्करशब्दो ऽयं तत्सम्बन्ध्यरुणवाची । गता गतप्राया । भगवती कामवर्धिनी । “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमरः । सुकृष्णो विहगः भरद्वाजः । कोकिलः कोकिलश्चेत्यर्थः ॥ २।५२।२ ॥

बर्हिणानां च निर्घोषः श्रूयते नदतां वने ।

तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् ॥ २।५२।३ ॥

वने नदतामिति नगरस्थक्रीडामयूरव्यावृत्तगम्भीरध्वनिरुक्ता । शीघ्रगामिति नावं विना दुस्तरत्वोक्तिः । सागरङ्गमामिति महत्त्वोक्तिः ॥ २।५२।३ ॥

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ।

गुहमामन्त्र्य सूतं च सो ऽतिष्ठद्भ्रातुरग्रतः ॥ २।५२।४ ॥

वचो विज्ञाय नदीतरणसाधनं शीघ्रमानेतव्यमित्येवं रूपं वचनतात्पर्यं ज्ञात्वा गुहं सूतं चामन्त्र्य युवाभ्यामपि रामवचनतात्पर्यं ज्ञातं किमिति सम्बोध्य भ्रातुरग्रतो ऽतिष्ठत् ॥ २।५२।४ ॥

स तु रामस्य वचनं निशम्य प्रतिगृह्य च ।

स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥ २।५२।५ ॥

स त्विति । प्रतिगृह्य शिरोनतिपूर्वकं तथैव करिष्यामीत्यङ्गीकृत्य ॥ २।५२।५ ॥

अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम् ।

सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ २।५२।६ ॥

तं निशम्य गुहादेशं गुहामात्यगणो महान् ।

उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ २।५२।७ ॥

ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।

उपस्थितेयं नौर्देव भूयः किं करवाणि ते ॥ २।५२।८ ॥

अस्येति । अस्य रामस्य । वाहनसंयुक्तां वाह्यते नीयते ऽनेनेति वाहनमरित्रादि तेन संयुक्ताम् । कर्णग्राहवतीं कर्णमरित्रं गृह्णातीति कर्णग्राहः कर्णधारः तद्वतीम् । “कर्णं श्रोत्रमरित्रं च” इति निघण्टुः । सुप्रतारां सुष्ठु तारयितुं समर्थाम् । दृढां सुश्लिष्टसन्धिबन्धाम् । तीर्थे अवतारमार्गे । उपाहरेत्येकवचनं सचिवगणाभिप्रायेण ॥ २।५२।६८ ॥

तवामरसुतप्रख्य तर्तुं सागरगां नदीम् ।

नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ॥ २।५२।९ ॥

तवेति । नौरियमिति उपस्थितेति शेषः ॥ २।५२।९ ॥

अथोवाच महातेजा रामो गुहमिदं वचः ।

कृतकामो ऽस्मि भवता शीघ्रमारोप्यतामिति ॥ २।५२।१० ॥

अथेति । आरोप्यतामिति खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषः ॥ २।५२।१० ॥

ततः कलापान् सन्नह्य खड्गौ बद्ध्वा च धन्विनौ ।

जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ २।५२।११ ॥

तत इति । तौ राघवौ । सन्नह्य कवचौ धृत्वा, कलापान् तूणीरान् खड्गौ च बद्ध्वा धन्विनौ जनाः येन मार्गेण गङ्गां प्राप्नुवन्ति तेन मार्गेण जग्मतुः ॥ २।५२।११ ॥

राममेवं तु धर्मज्ञमुपगम्य विनीतवत् ।

किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥ २।५२।१२ ॥

राममिति । धर्मज्ञं भृत्यधर्मज्ञम् । विनीतवत् सविनयमिति क्रियाविशेषणम् ॥ २।५२।१२ ॥

ततो ऽब्रवीद्दाशरथिः सुमन्त्रं स्पृशन् करेणोत्तम दक्षिणेन ।

सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः ॥ २।५२।१३ ॥

तत इति । उत्तमेति सम्बोधनम् ॥ २।५२।१३ ॥

निवर्त्तस्वेत्युवाचैनमेतावद्धि कृतं मम ।

रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ २।५२।१४ ॥

याहीति सामान्येनोक्तं सोपपत्तिकमाह–निवर्तस्वेति । मम एतावत् कृतं हि गङ्गातीरपर्यन्तं रथेन प्रापणं कृतं हि । हीति राजाज्ञाद्योतनम् । अतःपरं यानं विहाय पद्भ्यामेव महावनं गमिष्यामः । अतस्त्वं निवर्तस्वेत्येवमुवाच ॥ २।५२।१४ ॥

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः ।

सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ॥ २।५२।१५ ॥

आत्मानमिति । अवेक्ष्य बुद्ध्वा । आर्त्तः अनुगमने ऽभ्यनुज्ञा न कृतेति दुःखितः ॥ २।५२।१५ ॥

नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् ।

तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ २।५२।१६ ॥

नातिक्रान्तमिति । तव सभ्रातृभार्यस्य वने प्राकृतवत् क्षुद्रस्येवयो ऽयं वासः तदिदं लोके केनचिदपि पुरुषेण नातिक्रान्तं नाङ्गीकृतम्, सर्वासम्मतो ऽयं तव वने वास इत्यर्थः । किंपुनर्ममेति भावः ॥ २।५२।१६ ॥

न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फलोदयः ।

मार्द्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ॥ २।५२।१७ ॥

न मन्य इति । त्वां ब्रह्मचर्यस्वाध्यायमार्दवार्जवयुक्तं त्वां व्यसनमागतं चेत् ब्रह्मचर्य्ये अधःशयनादिलक्षणे अध्ययनकालकृते । स्वधीते स्वाध्यायाध्ययने । मार्दवे दयालुत्व इति यावत् । आर्जवे अकौटिल्ये च । फलोदयः । फलसिद्धिर्नास्तीति मन्ये, यदि ब्रह्मचर्यादिकं फलदं स्यात् तत् त्वयि दृश्येत, न दृश्यते प्रत्युत वनवास एव दृष्टः । अतो न तत् फलदमिति मन्ये इति भावः । खेदातिशयादेवमुक्तम् ॥ २।५२।१७ ॥

सह राघववैदेह्या भ्रात्रा चैव वने वसन् ।

त्वं गतिं प्राप्स्यसे वीर त्रील्लोँकांस्तु जयन्निव ॥ २।५२।१८ ॥

सहेति । त्रीन् लोकान् जयन्निव विष्णुरिवेत्यर्थः । गम्यत इति गतिः । कीर्तिः तां प्राप्स्यसे, अतुलां कीर्तिं प्राप्स्यस इत्यर्थः । सुमन्त्रः पुरवासिष्वात्मानमन्तर्भाव्य वदति ॥ २।५२।१८ ॥

वयं खलु हता राम ये त्वयाप्युपवञ्चिताः ।

कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ २।५२।१९ ॥

इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा ।

दृष्ट्वा दूरगतं रामं दुःखार्त्तो रुरुदे चिरम् ॥ २।५२।२० ॥

वयमिति । वयं त्वामनुगता वयं त्वयाप्युपवञ्चिताः खलु रात्रौ निद्रासमये अविदितगमनेन उपवञ्चिता एव ।

अपिशब्दादभिषेकविघटनेन कैकेय्यापि वञ्चिता इति द्योत्यते । उपवञ्चिताः समीपे वञ्चिताः । वनं प्रापय्यमाना इव त्यक्ता इति वार्थः । अत एव पापायाः कैकेय्या वशं दुःखभागिनः सन्तः एष्यामः, अतो वयं हता इत्यन्वयः ॥ २।५२।१९२० ॥

ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् ।

रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ २।५२।२१ ॥

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।

यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ २।५२।२२ ॥

शोकोपहतचेताश्च वृद्धश्च जगतीपतिः ।

कामभारावसन्नश्च तस्मादेतद्ब्रवीमि ते ॥ २।५२।२३ ॥

तत इति । रोदनस्याशुचिताहेतुत्वात् स्पृष्टोदकम् आचान्तम्, अत एव शुचिम् ॥ २।५२।२१२३ ॥

यद्यदाज्ञापयेत्किञ्चित् स महात्मा महीपतिः ।

कैकेय्याः प्रियकामार्थं कार्यं तदविकांक्षया ॥ २।५२।२४ ॥

गुरवः स्वामिनश्च न नियम्याः अपि तु सर्वप्रकारेणानुवर्त्तनीया इत्याशयेनाह–यद्यदिति । विकाङ्क्षा अनादरः तदभावेन, आदरेणेत्यर्थः ॥ २।५२।२४ ॥

एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ।

यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ २।५२।२५ ॥

एतदिति । एतच्छब्दार्थमाह यदेशामिति । प्रशासतीति अभ्यस्तत्वाददादेशः । सर्वकृत्येषु कामात् क्रोधाद्वा प्रवृत्तेष्वित्यर्थः ॥ २।५२।२५ ॥

यद्यथा स महाराजो नालीकमधिगच्छति ।

न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥ २।५२।२६ ॥

यदिति । अलीकमप्रियम् । “अलीकं त्वप्रिये ऽनृते” इत्यमरः ॥ २।५२।२६ ॥

अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् ।

ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ २।५२।२७ ॥

अदृष्टदुःखमिति । मम हेतोः मदर्थं । मम प्रतिनिधित्वेनेत्यर्थः ॥ २।५२।२७ ॥

नैवाहमनुशोचामि लक्ष्मणो न च मैथिली ।

अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च ॥ २।५२।२८ ॥

स्वविश्लेषजनितदुःखेन राजा न निर्वहेदिति भिया तदाश्वासकानि वाक्यान्याह–नैवाहमिति । लक्ष्मणो न च मैथिलीत्यत्र शोचतीति विपरिणामः कर्त्तव्यः । वत्स्यामहेत्यत्र आर्षः सन्धिः ॥ २।५२।२८ ॥

चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः ।

लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ २।५२।२९ ॥

चतुर्दशस्विति । पुनःपुनर्द्रक्ष्यसि “नित्यवीप्सयोः” इति द्विवचनम् । आदरातिशयेन सदा द्रक्ष्यसीत्यर्थः ॥ २।५२।२९ ॥

एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे ।

अन्याश्च देवीः सहिताः कैकेयीं च पुनःपुनः ॥ २।५२।३० ॥

आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् ।

सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च ॥ २।५२।३१ ॥

एवमित्यादि । राजानं मे मातरम् अन्याः देवीः सहिताः कौसल्यया सह वर्तमानाः कैकेयीं च पुनःपुनरेवमुक्त्वा अथ कौसल्यामारोग्यं पादाभिवन्दनं च ब्रूहीत्यन्वयः । आर्यस्य शास्त्रोदितज्येष्ठानुवर्त्तनरूपपरमधर्मवेदित्वात् लक्ष्मणस्यार्यत्वोक्तिः । कौसल्यां प्रत्येव पादाभिवन्दनकथनम् अन्यत्र निषेधात् । “आचार्यवदाचार्यदारे वृत्तिः पादसंवाहनवर्जम्” इति निषेधस्य सपत्नीमातृष्वपि तुल्यत्वात् ॥ २।५२।३०३१ ॥

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय ।

आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ २।५२।३२ ॥

भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च ।

अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ॥ २।५२।३३ ॥

ब्रूया इति । नृपमते राज्ञामभिमते । पदे यौवराज्य इत्यर्थः । अभिषिच्य स्थितमिति शेषः । नाभिभविष्यतीत्यत्रेतिकरणं द्रष्टव्यम् । अस्य ब्रूया इत्यनेन सम्बन्धः ॥ २।५२।३२३३ ॥

भरतश्चापि वक्तव्यो यथा राजनि वर्त्तसे ।

तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ २।५२।३४ ॥

यथा च तव कैकेयी सुमित्रा च विशेषतः ।

तथैव देवी कौसल्या मम माता विशेषतः ॥ २।५२।३५ ॥

तातस्य प्रियकामेन यौवराज्यमवेक्षता ।

लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ॥ २।५२।३६ ॥

निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः ।

तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ॥ २।५२।३७ ॥

भरत इत्यादिश्लोकेनोक्तमर्थं विवृणोति–यथेति । सुमित्रोक्तिः शत्रुघ्नपक्षपातात् । अवेक्षता अङ्गीकुर्वता त्वयेति शेषः । नित्यदा सर्वदा । छान्दसो दाप्रत्ययः । इति भरतश्चापि वक्तव्य इति पूर्वेणान्वयः ॥ २।५२।३४३७ ॥

यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः ।

भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ॥ २।५२।३८ ॥

यदिति । अहमविक्लवः धृष्टस्सन् यद्वाक्यं ब्रूयां तन्नोपचारेण किंतु स्नेहात् । तद्वाक्यं त्वं तावत् साकल्येन क्षन्तुमर्हसीति सम्बन्धः । (पाठभेदः । तवस्नेहादविक्लवो निर्भयः यद्वचः उपचारेण न ब्रूयाम् । सेवाधर्मं विहाय

ब्रूयाम् । तद्वाक्यं भक्तिमानिति हेतोः क्षन्तुमर्हसि) ॥ २।५२।३८ ॥

कथं हि त्वद्विहीनो ऽहं प्रतियास्यामि तां पुरीम् ।

तव तावद्वियोगेन पुत्रशोकाकुलामिव ॥ २।५२।३९ ॥

कथमिति । तवतावद्वियोगेनेतिपाठः । तव तातेतिपाठे–तात स्वामिन्नित्यर्थः । वृद्धत्वाद्वत्सेति सम्बोधनंपव वा । पुत्रवियोगजः शोकः पुत्रशोकः तेनाकुलामिव स्थितां पुरीमित्यन्वयः ॥ २।५२।३९ ॥

सराममपि तावन्मे रथं दृष्ट्वा तदा जनः ।

विना रामं रथं दृष्ट्वा विदीर्य्येतापि सा पुरी ॥ २।५२।४० ॥

स राममिति । पूर्वं सरामं रथं दृष्ट्वा इदानीं रामं विना स्थितं रथं दृष्ट्वा जनः सा पुर्यपि विदीर्येत दुःखेन भिद्येत । पुरीशब्दो ऽत्र जनव्यतिरिक्तपश्वादिपरः ॥ २।५२।४० ॥

दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् ।

सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ २।५२।४१ ॥

दैन्यमिति । आहवे हतवीरं हतं वीरं दृष्ट्वा स्वसैन्यमिव सूतावशेषं शून्यं रामरहितं रथं दृष्ट्वा नगरी दैन्यं गच्छेत् ॥ २।५२।४१ ॥

दूरेपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ।

चिन्तयन्त्यो ऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥ २।५२।४२ ॥

दूर इति । प्रजाः अयोध्यावासिन्यः । दूरे निवसन्तमपि त्वां मानसेनाग्रतः स्थितं त्वां चिन्तयन्त्यः भावनाप्रकर्षेण पुरतः स्थितमिव पश्यन्त्यः निराहाराः कृताः, आहारे ऽप्यादरं न कुर्वन्तीत्यर्थः ॥ २।५२।४२ ॥

दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने ।

प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम् ॥ २।५२।४३ ॥

अत्रार्थे पूर्वानुभवं प्रमाणयति–दृष्टमिति । त्वत्प्रवासने प्रजानां यादृशं सङ्कुलं वृत्तं संक्षोभो जातः तादृशं त्वया दृष्टं हि ॥ २।५२।४३ ॥

आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने ।

सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ २।५२।४४ ॥

आर्तनाद इति । ततः प्रवासकालिकनादादित्यर्थः ॥ २।५२।४४ ॥

अहं किं चापि वक्ष्यामि देवीं तव सुतो मया ।

नीतो ऽसौ मातुलकुलं सन्तापं मा कृथा इति ॥ २।५२।४५ ॥

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् ।

कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ २।५२।४६ ॥

यदि प्रियं ब्रूयां तदसत्यं भवति यदि च सत्यं ब्रूयां तदप्रियं भवति अतः कौसल्यां प्रति किमपि वक्तुं न शक्यमित्यभिप्रायेणाह–अहमित्यादिना । देवीमहं किं वा वक्ष्यामि च किमपि वक्तुं शक्नोमीत्यर्थः । तदेवोपपादयति तवेत्यादिना । तवासौ सुतो मया मातुलकुलं नीतः तस्मात् सन्तापं मा कृथा इतीदृशमसत्यंवचनमप्यहं नैव ब्रूयाम्, असत्यवचनप्रतिषेधादिति भावः । सत्यमेव वदेत्यत्राह कथमिति । अप्रियमिदं वनप्रापणरूपं सत्यं वचनं कथं ब्रूयाम् । देव्या हानिप्रसङ्गादिति भावः ॥ २।५२।४५४६ ॥

मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः ।

कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः ॥ २।५२।४७ ॥

तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृते ऽनघ ।

वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ २।५२।४८ ॥

ममेति । त्वद्बुन्धुजनाः त्वद्वंश्याः । यद्वा त्वं त्वद्बन्धुभूतसीतालक्ष्मणरूपजनौ च त्वद्बन्धुजनाः तद्वाहिनः प्रवक्ष्यन्ति वोढारो भविष्यन्ति । वहेर्लृटि रूपम् ॥ २।५२।४७४८ ॥

यदि मे याचमानस्य त्यागमेव करिष्यसि ।

सरथो ऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ॥ २।५२।४९ ॥

यदीति । त्यक्तमात्रः तत्क्षण एव त्यक्तः ॥ २।५२।४९ ॥

भविष्यन्ति वने यानि तपोविघ्नकराणि ते ।

रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥ २।५२।५० ॥

भविष्यन्तीति । रथेन साधनेन प्रतिबाधिष्ये अहमेव रथीभूत्वा निवर्त्तयिष्यामीत्यर्थः । तानि सत्त्वानीति पाठः । सर्वाणीति पाठे–सत्त्वानीति शेषः ॥ २।५२।५० ॥

त्वत्कृतेन मयावाप्तं रथचर्याकृतं सुखम् ।

आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ २।५२।५१ ॥

त्वदिति । त्वत्कृते त्वन्निमित्तम् । रथचर्याकृतं सुखं मया नावाप्तम् । राज्याभिषिक्तत्वद्रथचर्याकृतसुखं मया भाग्यहीनेन न लब्धम्, तथापि त्वत्कृतेन त्वत्साहाय्यकरणेन वनवासकृतमपि सुखम् आशंसे इच्छामि । राज्ये रथचर्याकृतसुखाभावेपि वने सारथित्वेन परिचर्याकरणकृतं वापि सुखं मम भवत्विति भावः । यद्वा त्वत्कृतेन त्वया कृतेनानुग्रहेणेत्यर्थः । रथचर्य्याकृतं रथप्रेरणकृतं सुखं मया अवाप्तम् । एवं त्वत्कृतेनानुग्रहेण वनवासकृतं सुखमप्यहमाशंस इति ॥ २।५२।५१ ॥

प्रसीदेच्छामि ते ऽरण्ये भवितुं प्रत्यनन्तरः ।

प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः ॥ २।५२।५२ ॥

प्रसीदेति । प्रत्यनन्तरः समीपवर्ती । मे प्रत्यनन्तरो भवेति प्रीत्याभिहितमिच्छामि । त्वत्कर्तृकमभिधानमिच्छामीत्यर्थः । क्रियतामिति मां वदेतिवत् ॥ २।५२।५२ ॥

इमे चापि हया वीर यदि ते वनवासिनः ।

परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ २।५२।५३ ॥

इम इति । परमां गतिं स्वामिशुश्रूषणादिति भावः ॥ २।५२।५३ ॥

तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ।

अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् ॥ २।५२।५४ ॥

तवेति । मूर्ध्नेत्यस्य सोपचारमिति फलितार्थः । सर्वथा सर्वप्रकारेण ॥ २।५२।५४ ॥

न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना ।

राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥ २।५२।५५ ॥

नहीति । महेन्द्रस्य राजधानी स्वर्गः ॥ २।५२।५५ ॥

वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ।

यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ २।५२।५६ ॥

वनवास इति । वनवासे क्षयं प्राप्ते वनवासे समाप्ते सतीत्यर्थः । वहेयमिति यत् अयं मे मनोरथ इति सम्बन्धः ॥ २।५२।५६ ॥

चतुर्दश हि वर्षाणि सहितस्य त्वया वने ।

क्षणभूतानि यास्यन्ति शतसङ्ख्या ऽन्यतो ऽन्यथा ॥ २।५२।५७ ॥

चतुर्द्दशेति । त्वया सहितस्येति ममेति शेषः । क्षणभूतानि क्षणतुल्यानि, अतो ऽन्यथा त्वद्विरह इत्यर्थः । शतसङ्ख्यानि भवेयुरिति शेषः । शतगुणितानि भविष्यन्तीति भावः ॥ २।५२।५७ ॥

भृत्यवत्सल तिष्ठन्तं भर्त्तृपुत्रगते पथि ।

भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ २।५२।५८ ॥

एवं बहुविधं दीनं याचमानं पुनःपुनः ।

रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ २।५२।५९ ॥

जानामि परमां भक्तिं मयि ते भर्तृवत्सल ।

शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ २।५२।६० ॥

भृत्येति । हे भृत्यवत्सल भक्तं भृत्यम् । अत एव स्थित्यां मर्यादायां स्थितम् । अस्खलितमर्यादम् अत एव भर्तृपुत्रगते स्वामिपुत्रेण त्वया गते पथि वनगमने तिष्ठन्तं निश्चितत्वदनुगमनं मां त्वं हातुं नार्हसि ॥ २।५२।५८६० ॥

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी

कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ॥ २।५२।६१ ॥

परितुष्टा हि सा देवी वनवासं गते मयि ।

राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥ २।५२।६२ ॥

एष मे प्रथमः कल्पो यदम्बा मे यवीयसी ।

भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ॥ २।५२।६३ ॥

नगरीमित्यादिश्लोकत्रयमेकान्वयम् । रामो वनं गत इति कैकेयी प्रत्ययं विश्वासं गच्छेत् । धार्मिकं राजानं मिथ्यावादीति नातिशङ्केत । भरतारक्षितं भरतेन आ समन्तात् रक्षितं पुत्रराज्यम् अवाप्नुयादिति च यत्, एषः मे प्रथमः कल्पः कर्तव्येषु प्रयोजनेषु मुख्यः । “मुख्यः स्यात् प्रथमः कल्पः” इत्यमरः ॥ २।५२।६१६३ ॥

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ।

सन्दिष्टश्चासि यानर्थांस्तांस्तान् ब्रूयास्तथातथा ॥ २।५२।६४ ॥

ममेति । यानर्थान् सन्दिष्टोसि तानर्थान् दशरथादीनुदिश्य तथातथा ब्रूया इति सम्बन्धः ॥ २।५२।६४ ॥

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनःपुनः ।

गुहं वचनमक्लीबो रामो हेतुमदब्रवीत् ॥ २।५२।६५ ॥

नेदानीं गुह योग्यो ऽयं वासो मे सजने वने ।

अवश्यं ह्याश्रमे वासः कर्त्तव्यस्तद्गतो विधिः ॥ २।५२।६६ ॥

सो ऽहं गृहीत्वा नियमं तपस्विजनभूषणम् ।

हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ।

जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ॥ २।५२।६७ ॥

इतीति । हेतुमत् युक्तिमत् । नेदानीमित्यनेन इह वस्तव्यमिति गुहप्रार्थनं द्योतितम् । मे सजने सजनप्रदेशे अयं वासो न योग्यः । तद्गतो विधिः आश्रमवासगतः तद्विषय इत्यर्थः । विधिः पितृनियमनम् । सो ऽहं “सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः । अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ॥ " इति कैकेय्या नियुक्तोऽहम्। तपस्विजनभूषणं तपस्विजनातिशयावहम्। नियमम् अधःशयनादिकम्। गृहीत्वा अङ्गीकृत्य। पितुःसीताया लक्ष्मणस्य च भूयो हितकामः अति शयेन परलोकसाधनपुण्यकामः सन्। जटाः कृत्वा गमिष्यामि तदर्थं न्यग्रोधक्षीरमानय। जटाकरणस्य सीतालक्ष्मणयोः प्रियत्वाभावेपि हितत्वमस्त्येव तयोरपि तेन धर्मातिशयात्। रामजटाकरणे हि सहधर्मचारिण्याः सीताया अपि धर्मः सिद्धः। लक्ष्मणस्य च तदनुरोधेन जटाकरणाद्धर्मः। यद्वा हितकामः न तु प्रियकाम इत्यर्थः ॥ २।५२।६५६७ ॥

तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् ।

लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ॥ २।५२।६८ ॥

तत्क्षीरमिति । लक्ष्मणस्य चेति । तेनापि भ्रातृवदवस्थानस्य सङ्कल्पितत्वादिति भावः । अकरोदिति लक्ष्मणे प्रयोज्यकर्तृत्वं बोध्यम् ॥ २।५२।६८ ॥

दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् ॥ २।५२।६९ ॥

ऋषिः खिद्यति–दीर्घबाहुरिति । जटिलत्वं जटावत्त्वम् । तुन्दादित्वादि लच् ॥ २।५२।६९ ॥

तौ तदा चीरवसनौ जटामण्डलधारिणौ ।

अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ २।५२।७० ॥

तस्यामप्यवस्थायां दर्शनीयतमत्वमाह–तावित्यादिश्लोकेन ॥ २।५२।७० ॥

ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः ।

व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत् ॥ २।५२।७१ ॥

तत इति । विखना नाम ब्रह्मनखोत्पन्नः कश्चिन्मुनिः “ये नखाः ते वैखानसाः । ये वालास्ते वालखिल्याः” इत्युक्तेः । सिंहादिशब्दवद्वर्णविपर्ययः । तेन प्रोक्तं वैखानसम् । प्रोक्तार्थे अण् । मार्गं धर्ममित्यर्थः । वानप्रस्थधर्ममिति यावत् । आस्थितः आश्रितः । व्रतं ब्रह्मचर्यादिनियमम् । आदिष्टवान् अङ्गीकृतवान् । नन्वत्र सर्वो वानप्रस्थधर्मो ऽङ्गीकृतः उत यः कश्चित् ? नाद्यः–तस्य पुनर्गार्हस्थ्यग्रहणायोगात् “आरूढपतितो हि सः” इत्युत्तराश्रमप्राप्तस्य पुनः पूर्वाश्रमावरोहो हि निन्दितः । न द्वितीयः–गृहस्थस्य वनस्थासाधारणजटाधारणादिकरणे शाखारण्डवदाश्रमरण्डतापत्तेः । मैवम्, पितृनियोगकृतसाङ्कल्पिकनियमविशेषस्य युधिष्ठिरादिसंन्यासधर्मवदविरुद्धत्वात् । उक्तं हि मनुना–“सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्” इति । सहायं गङ्गावतरणसहायम् । सखायमिति च पाठः ॥ २।५२।७१ ॥

अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ।

भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥ २।५२।७२ ॥

अप्रमत्त इति । बले चतुरङ्गबले । कोशे अर्थौघे । “कोशो ऽस्त्री कुड्मले खड्गपिधाने ऽर्थौघदिव्ययोः” इत्यमरः । दुरारक्षं दुःखेन आ समन्तात् रक्षितुं शक्यम् (पाठभेदः । दुःखेन आरक्षा रक्षणं यस्य तद्दुरारक्षम् । अतिशयेन दुरारक्षं दुरारक्षतमम् । भवेथा इत्यार्षमात्मनेपदम् ) ॥ २।५२।७२ ॥

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ।

जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ २।५२।७३ ॥

स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ।

तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ २।५२।७४ ॥

तत इति । अव्यग्रः अव्यासक्तः “व्यग्रो व्यासक्त आकुलः” इत्यमरः ॥ २।५२।७३७४ ॥

आरोहं त्वं नरव्याघ्र स्थितां नावमिमां शनैः ।

सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ २।५२।७५ ॥

आरोहेति । स्थितामिमां नावं परिगृह्य सीतां शनैरारोपय । अन्वक्षम् अनुपदं त्वं चारोहेति सम्बन्धः । यद्वा त्वं प्रथममारोह अन्वक्षं मनस्विनीं सीतां परिगृह्य कराग्रयोर्गृहीत्वा आरोपयेत्युपचारोक्तिः । मनस्विनीमिति निन्दायां मतुप् । भीरुमिति यावत् । पूर्वारोहणे ऽसौ बिभीयादिति भावः ॥ २।५२।७५ ॥

स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् ।

आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ॥ २।५२।७६ ॥

लक्ष्मणस्तु निपुणतया प्रथमं सीतामारोप्य पश्चात्स्वयमारूढ इत्याह–स भ्रातुरिति । अप्रतिकूलयन् यथातथावाप्यारोहणशासनमनुतिष्ठन् । आत्मवान् रामाशयज्ञ इत्यर्थः । पूर्वं मनस्विनीमित्युक्तम्, इदानीमात्मवानित्युक्तम् । उभाभ्यामारोपणे दोषशङ्काराहित्यं चोक्तम् ॥ २।५२।७६ ॥

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ।

ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ २।५२।७७ ॥

अथेति । ज्ञातीन् बन्धून् अचोदयत् नौः पारं नीयतामित्यचोदयत् ॥ २।५२।७७ ॥

राघवो ऽपि महातेजा नावमारुह्य तां ततः ।

ब्रह्मवत् क्षत्त्रवच्चैव जजाप हितमात्मनः ॥ २।५२।७८ ॥

राघव इति । ब्रह्मवत्क्षत्र्रवदित्यर्हार्थे वतिप्रत्ययः । ब्राह्मणार्हं क्षत्ित्रयार्हम् । आत्मनो हितं जजाप “दैवीं नावम्” इत्यादिब्रह्मक्षत्त्रसाधारणमन्त्रं जजापेत्यर्थः । यद्वा ब्रह्मक्षत्शत्रब्दयुक्तं मन्त्रं जजापेत्यर्थः । स च मन्त्रः सुत्रामाणमित्यादिः । तत्र ह्यरिष्टनेमिः पृतनाजिदिति ब्रह्मक्षत्त्रशब्दौ श्रुतौ ॥ २।५२।७८ ॥

आचम्य च यथाशास्त्रं नदीं तां सह सीतया ।

प्राणमत् प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः ॥ २।५२।७९ ॥

अनुज्ञाय सुमन्त्रं च सबलं चैवं तं गुहम् ।

आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ २।५२।८० ॥

पूर्वोक्तं नावारोहणं विवृण्वन्नाह–आचम्येत्यादिना ॥ २।५२।७९८० ॥

ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता ।

शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ २।५२।८१ ॥

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ।

वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ २।५२।८२ ॥

तत इति । कर्णधारसमाहिता समाहितकर्णधारा । शुभस्फ्यवेगाभिहता शुभानां स्फ्यानामरित्राणां वेगेनाभिहता प्रणुन्ना ॥ २।५२।८१८२ ॥

पुत्रो दशरथस्यायं महाराजस्य धीमतः ।

निदेशं पारयित्वेमं गङ्ग त्वदभिरक्षितः ॥ २।५२।८३ ॥

चतुर्दश हि वर्षाणि समग्राण्युष्यकानने ।

भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ २।५२।८४ ॥

पुत्र इति । निदेशं चतुर्दशवर्षावधिकवनवासविषयनियोगम् । पारयित्वा निर्विघ्नं परिसमाप्य । उष्य उषित्वा । प्रत्यागमिष्यति, यदेति शेषः ॥ २।५२।८३८४ ॥

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता ।

यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी ॥ २।५२।८५ ॥

तत इति । ततः तदा । सुभगे सुर्कीर्ते “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमरः । क्षेमेण कुशलेन सह । यक्ष्ये पूजयिष्यामि । सर्वकामसमृद्धिनीति व्रीह्यादित्वादिनिः ॥ २।५२।८५ ॥

त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे ।

भार्या चोदधिराजस्य लोके ऽस्मिन् संप्रदृश्यसे ॥ २।५२।८६ ॥

त्वमिति । ब्रह्मलोकं समीक्षसे ब्रह्मकमण्डल्वां द्रवीभूतधर्मरूपतया स्थित्वा ब्रह्मप्रक्षालितविष्णुपादोद्भवत्वादिति भावः । अत एव विष्णुपादोद्भवामिति पूर्वमुक्तम् ॥ २।५२।८६ ॥

सा त्वां देवि नमस्यामि प्रशंसामि च शोभने ।

प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ २।५२।८७ ॥

गवां शतशहस्रं च वस्त्राण्यन्नं च पेशलम् ।

ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ २।५२।८८ ॥

सेति । प्रशंसामि स्तौमि । शिवेन क्षेमेण । पेशलं रम्यम् । तव प्रियचिकीर्षया ब्राह्मणमुखेन हि देवतानां ग्रहणमिति भावः ॥ २।५२।८७८८ ॥

सुराघटसहस्रेण मांसभूतौदनेन च ।

यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ॥ २।५२।८९ ॥

सुराघटसहस्रेणेति । मांसभूतौदनेन मांसरूपान्नेनेति यावत् ॥ २।५२।८९ ॥

यानि त्वत्तीरवासीनि दैवतानि वसन्ति च ।

तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ २।५२।९० ॥

पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः ।

अयोध्यां वनवासात्तु प्रविशत्वनघो ऽनघे ॥ २।५२।९१ ॥

तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता ।

दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ २।५२।९२ ॥

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।

प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः ॥ २।५२।९३ ॥

यानीति । तीर्थानि मणिकर्णिकादीनि । आयतनानि काश्यादीनि ॥ २।५२।९०९३ ॥

अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्द्धनम् ।

भव संरक्षणार्थाय सजने विजने ऽपि वा ॥ २।५२।९४ ॥

अवश्यं रक्षणं कार्यमदृष्टे विजने वने ।

अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु ॥ २।५२।९५ ॥

पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन् ।

अन्योन्यस्येह नो रक्षा कर्त्तव्या पुरुषर्षभ ॥ २।५२।९६ ॥

भवेति सावधान इति शेषः । अदृष्टे अदृष्टपूर्वे । नः आवयोः “अस्मदो द्वयोश्च” इति बहुवचनम् । तावच्छब्दः साकल्यार्थकः । अन्योन्यस्य साकल्येन रक्षा कर्त्तव्येति सम्बन्धः ॥ २।५२।९४९६ ॥

न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।

अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ २।५२।९७ ॥

प्रनष्ट जनसम्बाधं क्षेत्रारामविवर्जितम् ।

विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ॥ २।५२।९८ ॥

श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणो ऽग्रतः ।

अनन्तरं च सीताया राघवो रघुनन्दनः ॥ २।५२।९९ ॥

यत्नस्यावश्यकर्त्तव्यत्वे युक्तिमाह–नहीति । अतिक्रान्ता अतिक्रान्तकाला । काचन क्रिया न सुकरा हि पुनः सन्धातुं न शक्या हीत्यर्थः । तस्मात्काले सावधानतयास्माभिः स्थातव्यमिति भावः । सम्बाधः सम्मर्दः । क्षेत्रं शाल्यादिवृद्धिस्थलम् । विषमं निम्नोन्नतप्रदेशयुक्तम् । प्रपतन्त्यस्मिन्निति प्रपातः गर्तः । हि यस्मादद्य प्रवेक्ष्यति तस्माद्दुःखं वेत्स्यतीति सम्बन्धः । इति सुमित्रानन्दवर्द्धनमब्रवीदित्यन्वयः ॥ २।५२।९७९९ ॥

गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य ।

अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी ॥ २।५२।१०० ॥

गतमिति । गङ्गापरपारं गङ्गायाः अपरं पारम् । प्रततं नीरीक्ष्य अविच्छिन्नं निरीक्ष्येत्यर्थः । तपस्वी सन्तापयुक्तः । “तपसन्तापे” इति धातुः । प्रतपन्निति पाठे–तापवानित्यर्थः । तपस्वी शोचनीयः । अध्वप्रकर्षात् मार्गविप्रकर्षात् । विनिवृत्तदृष्टिः विनिवृत्तदृष्टिव्यापारः ॥ २।५२।१०० ॥

स लोकपालप्रतिमप्रभाववांस्तीर्त्वा महात्मा वरदो महानदीम् ।

ततः समृद्धाञ्छुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत् ॥ २।५२।१०१ ॥

स इति । वत्सान् वत्सदेशान् । मत्स्यानिति पाठो लेखकप्रमादकृतः । इत्थं हि देशव्यवस्था दृश्यते–गङ्गायमुनयोर्मध्ये प्रयागप्रदेशो वत्सदेशः । ततः पश्चिमभागे पाञ्चालः । यमुनादक्षिणतीरे शूरसेनदेशः । तस्मात्पश्चिमतो मत्स्यदेश इति । सलोकपालप्रतिमप्रभाववानिति पाठः । अन्यथा वृत्तभङ्गः स्यात् ॥ २।५२।१०१ ॥

तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम् ।

आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम् ॥ २।५२।१०२ ॥

ताविति । चातुर्विध्यमेवाह–वराहमित्यादि । ऋश्यादयो हरिणभेदाः । ऋश्यं पृषतं महारुरुं च आदाय, स्वीकृत्येत्यर्थः । मेध्यमिति ऋश्यादि सर्वविशेषणम् । काले सायंकाले । त्वरितत्वोक्तिः सायंकालत्वात् बुभुक्षितत्वाच्च । द्विवचनेन सीतां कुत्रचिद्वनस्पतिमूले निक्षिप्य मृगग्रहणार्थं गत्वा पुनरागताविति गम्यते ॥ २।५२।१०२ ॥

इत्यार्षे० श्रीरामायणे श्रीमदयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥

इति श्रीगोविन्दराज० श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥