प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना ।
शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥ २।४७।१ ॥
अथ पौरवृत्तान्तं दर्शयति–प्रभातायामित्यादि । शोकोपहतनिश्चेष्टाः शोकोपहतत्वान्निश्चेष्टाः । हतचेतसः मूढाः ॥ २।४७।१ ॥
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः ।
आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥ २।४७।२ ॥
शोकजेति । शोकजाश्रुभिः परिद्यूनाः परिक्लान्ताः । आलोकमपि रामस्य रामसम्बन्ध्यालोकमपि । आलोक्यत इत्यालोकः तम् । आलोकसाधनं रथरेण्वादिकमपीत्यर्थः ॥ २।४७।२ ॥
ते विषादार्तवदना रहितास्तेन धीमता ।
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥ २।४७।३ ॥
धिगस्तु खलु निद्रां तां ययापहृतचेतसः ।
नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ २।४७।४ ॥
त इति । विषादार्तवदनाः दुःखेन म्लानमुखाः । कृपणाः दीनवेषाः । करुणा वाचः दीनवचांसि । वदन्ति स्म, अन्योन्यमिति शेषः ॥ २।४७।३४ ॥
कथं नाम महाबाहुः स तथा वितथक्रियः ।
भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥ २।४७।५ ॥
यो नः सदा पालयति पिता पुत्रानिवौरसान् ।
कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥ २।४७।६ ॥
कथमिति । अवितथक्रियः अमोघानुवृत्तिः ॥ २।४७।५६ ॥
इहैव निधनं यामो महाप्रस्थानमेव वा ।
रामेण रहितानां हि किमर्थं जीवितं हि नः ॥ २।४७।७ ॥
इहैवेति । इहैव निधनं प्रायोपवेशनेन मरणम् । महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखगमनम् । हिः प्रसिद्धौ ॥ २।४७।७ ॥
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।
तैः प्रज्वाल्य चितां सर्वे प्रविशामो ऽथ पावकम् ॥ २।४७।८ ॥
सन्तीति । प्रविशामोथेति अथवेत्यर्थः ॥ २।४७।८ ॥
किं वक्ष्यामौ महाबाहुरनसूयः प्रियंवदः ।
नीतः स राघवो ऽस्माभिरिति वक्तुं कथं क्षमम् ॥ २।४७।९ ॥
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना ।
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥ २।४७।१० ॥
निर्यातस्तेन वीरेण सह नित्यं जितात्मना ।
विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ २।४७।११ ॥
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।
विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः ॥ २।४७।१२ ॥
किं वक्ष्याम इति । किमपि वक्तुं शक्यमित्यर्थः । तदेव विवृणोति महाबाहुरित्यादिना । नीतः वनमिति शेषः ॥ २।४७।९१२ ॥
ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुनः ।
मार्गनाशाद् विषादेन महता समभिप्लुताः ॥ २।४७।१३ ॥
तत इति । मार्गानुसारेण किंचित् किंचिद्दूरम् । मार्गनाशात् रथमार्गादर्शनात् । तच्च वीरुत्तृणपटलपिहितप्रदेशे रथचारणादिति ज्ञेयम् । समभिप्लुताः व्याप्ता इत्यर्थः ॥ २।४७।१३ ॥
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः ।
किमिदं किं करिष्यामो दैवेनोपहता इति ॥ २।४७।१४ ॥
ततो यथागतेनैव मार्गेण क्लान्तचेतसः ।
अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥ २।४७।१५ ॥
रथस्येति । दैवेनोपहता इति प्रलपन्त इति शेषः ॥ २।४७।१४१५ ॥
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः ।
अवर्तयन्त ते ऽश्रूणि नयनैश्शोकपीडितैः ॥ २।४७।१६ ॥
एषा रामेण नगरी रहिता नातिशोभते ।
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥ २।४७।१७ ॥
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् ।
अपश्यन्निहतानन्दं नगरं ते विचेतसः ॥ २।४७।१८ ॥
आलोक्येत्यादिश्लोकद्वयमेकं वाक्यम् । अन्त इति करणं बोध्यम् । क्षयव्याकुलमानसाः सम्मार्जनलेपनादिक्षयेण व्यथितमनस्काः । अवर्त्तयन्त अमुञ्चन् ॥ २।४७।१६१८ ॥
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः ।
नैव प्रजज्ञुः स्वजनं जनं वा निरीक्षमाणाः प्रविनष्टहर्षाः ॥ २।४७।१९ ॥
ते तानीति । दुःखेन सहितं स्वजनं वा पौरजनं वा । न प्रजज्ञुः नाज्ञासिषुः ॥ २।४७।१९ ॥
इत्यार्षे श्रीमदयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥