अनुरक्ता महात्मानं रामं सत्यपराक्रमम् ।
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥ २।४५।१ ॥
एवं सुमित्रया कौसल्याश्वासनपर्यन्तं कथासङ्घट्टनं परिसमाप्य सम्प्रति रामगमनवृत्तान्तं प्रस्तौति–अनुरक्ता इत्यादि ॥ २।४५।१ ॥
निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजनि ।
नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥ २।४५।२ ॥
अयोध्यानिलयानां हि पुरुषाणां महा यशाः ।
बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥ २।४५।३ ॥
निवर्तित इति । सुहृद्वर्गे राजसुहृद्भूतावरोधवर्गे । राजनि च सचिवसहिते राजनि च । ते पौरजनाः ॥ २।४५।२३ ॥
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा ।
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ २।४५।४ ॥
स इति । याच्यमानः निवर्तस्वनिवर्त्तस्वेति प्रार्थ्यमानः । सत्यं सत्यप्रतिज्ञम् ॥ २।४५।४ ॥
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ।
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ २।४५।५ ॥
अवेक्षमाण इति । स्वाः प्रजा इव स्वान्यपत्यानीव ॥ २।४५।५ ॥
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् ।
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ॥ २।४५।६ ॥
स हि कल्याणचारित्रः कैकेय्यानन्दवर्द्धनः ।
करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ २।४५।७ ॥
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः ।
अनुरूपः स वो भर्त्ता भविष्यति भयापहः ॥ २।४५।८ ॥
स्वेन पितृवचनपरिपालनस्यावश्यकर्त्तव्यत्वात् प्रजानुरागेण ताभ्यो हितमुपदिशति–या प्रीतिरित्यादिना ॥ २।४५।६८ ॥
स हि राजगुणैर्युक्तो युवराजः समीक्षितः ।
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ २।४५।९ ॥
स हीति । हि यस्मात् कारणात् भरतो वः युष्माकं युवराजः समीक्षितः, राज्ञेति शेषः । अतो मया शिष्टैरवशिष्टैः लक्ष्मणशत्रुघ्नादिभिः सर्वैरपि भर्तृशासनं कार्यम् । अपि चेति वक्तव्यान्तरसमुच्चये ॥ २।४५।९ ॥
न च तप्येद्यथा चासौ वनवासं गते मयि ।
महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ २।४५।१० ॥
नेति । मयि वनं गते सति असौ महाराजः यथा न सन्तप्येत् मम प्रियचिकीर्षया तथा कार्यः ॥ २।४५।१० ॥
यथायथा दाशरथिर्धर्म एव स्थितो ऽभवत् ।
तथातथा प्रकृतयो रामं पतिमकामयन् ॥ २।४५।११ ॥
यथेति । धर्मे पितृवचनपरिपालनरूपे धर्मे । तथातथा प्रकृतयो रामं पतिमकामयन् आदौ राजा ज्येष्ठं भवन्तमेव अस्मद्रक्षणार्थं युवराजत्वेन कल्पितवान् । अयमर्थो भवता अस्माभिश्च कर्त्तव्य इति राममेव पुनःपुनः पतिमकामयन्तेत्यर्थः ॥ २।४५।११ ॥
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह ।
चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम् ॥ २।४५।१२ ॥
बाष्पेणेति । सौमित्रिणा सहेत्यनेन रामस्येव लक्ष्मणस्यापि गुणपौष्कल्यमस्तीति द्योत्यते । गुणैरेव गुणैः पाशैरिति श्लिष्टरूपकम् ॥ २।४५।१२ ॥
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा ।
वयःप्रकम्पशिरसो दूरादूचुरिदं वचः ॥ २।४५।१३ ॥
वहन्तो जवना रामं भो भो जात्या स्तुरङ्गमाः ।
निवर्त्तध्वं न गन्तव्यं हिता भवत भर्त्तरि ॥ २।४५।१४ ॥
त इति । त्रिविधमिति क्रियाविशेषणम् । ओजसा तपोबलेन । वयसा प्रकम्पं चञ्चलं शिरो येषां ते तथा ॥ २।४५।१३१४ ॥
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः ।
यूयं तस्मान्निवर्त्तध्वं याचनां प्रतिवेदिताः ॥ २।४५।१५ ॥
कर्णवन्तीति । याचनां प्रतिवेदिताः प्रार्थनां ज्ञापिताः । अस्माभिरिति शेषः । ॥ २।४५।१५ ॥
धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः ।
उपवाह्यस्तु वो भर्त्ता नापवाह्यः पुराद्वनम् ॥ २।४५।१६ ॥
धर्म इति । उपवाह्यः पुरसमीपे वाह्यः ॥ २।४५।१६ ॥
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान् ।
अवेक्ष्य सहसा रामो रथादवततार ह ॥ २।४५।१७ ॥
एवमिति । आर्तप्रलापान् प्रलपतः आर्तवाक्यानि प्रयुञ्जानानित्यर्थः ॥ २।४५।१७ ॥
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः ।
सन्निकृष्टपदन्यासो रामो वनपरायणः ॥ २।४५।१८ ॥
पद्भ्यामिति । सन्निकृष्टपदन्यासः पद्भ्यां जगामेति ब्राह्मण वाक्यश्रवणानन्तरं रथगमने दोषो भवतीति प्रतिनिवृत्त्य ब्राह्मणाश्वासने व्रतभङ्गो भवतीति धिया रथादवतीर्य तदागमनपर्यन्तं मन्दं मन्दं जगामेत्यर्थः ॥ २।४५।१८ ॥
द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः ।
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ २।४५।१९ ॥
रथादवतीर्य किमर्थं पादगमनं कृतवानित्याशङ्क्याह–द्विजातीनिति । रथेन द्विजातीन् परिमोक्तुं न शशाक रथेनोपलक्षितः सन् सावरोधं दशरथमिवाञ्जल्यादिना द्विजातीन् निवर्त्तयितुं न शशाकेत्यर्थः । घृणाचक्षुः दयार्द्रचक्षुरित्यर्थः ॥ २।४५।१९ ॥
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः ।
ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ॥ २।४५।२० ॥
गच्छन्तमिति । गच्छन्तमेव बहुशो निवृत्ति हेतुप्रदर्शनेपि पितृवचनचिकीर्षया गच्छन्तमेवेत्यर्थः ॥ २।४५।२० ॥
ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति ।
द्विजस्कन्धाधिरूढास्त्वामग्नयोप्यनुयान्त्यमी ॥ २।४५।२१ ॥
दुःखप्रलापादिनाप्यनिवृत्तं रामं सह वनगमनलक्षणं महाभारमारोप्य निवर्तयितुमुद्युञ्जते–ब्राह्मण्यमित्यादिना । ब्राह्मण्यं ब्राह्मणसमूहः “ब्राह्मणमाणववाडवाद्यत्” इति यत्प्रत्ययः । ब्रह्मसु ब्राह्मणेषु साधुः ब्रह्मण्यः तम् । अग्नयः अरण्यारोपिताः, केवलानां द्विजस्कन्धाधिरूढत्वासम्भवात् ॥ २।४५।२१ ॥
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः ।
पृष्ठतो ऽनुप्रयातानि मेघानिव जलात्यये ॥ २।४५।२२ ॥
वाजपेयेति । वाजपेयसमुत्थानि वाजपेथानुष्ठानसम्भृतानि । जलात्यये शरदि ॥ २।४५।२२ ॥
अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते ।
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः ॥ २।४५।२३ ॥
अनवाप्तेति । वाजपेयिकैः वाजपेयप्राप्तैः । “यावज्जीवं न कञ्चन प्रत्यवरोहेत् बृहस्पतिसवेन वा प्रत्यवरोहणीयेन यजेत श्वेतच्छत्री भवतीति विज्ञायते” इति वाजपेययाजिनां श्वेतच्छत्रधारणविधानादिति भावः ॥ २।४५।२३ ॥
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी ।
त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ २।४५।२४ ॥
अस्माकं बुद्धिरेतावन्तं कालं निश्चिन्ततया मन्त्रविषयाभूत् । इदानीं त्वत्कृतवनवासविषयाभूदिति रामे महान्तं भारमारोपयन्ति–या हीत्यादिना ॥ २।४५।२४ ॥
हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम् ।
वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ २।४५।२५ ॥
ब्राह्मणानां धनभूतं वेदं परित्यज्य सहधर्मचारिदारसंरक्षणमप्यकृत्वा कथमस्माभिः सह गम्यत इत्याकाङ्क्षायामाह–हृदयेष्विति । नः परं धनम् उत्कृष्टधनभूता ये वेदास्ते हृदयेष्वेव तिष्ठन्ति, अनुच्चारणे तेषां न कापि हानिरिति भावः । चारित्रेण पातिव्रत्येन रक्षिता दाराश्च गृहेष्वेव तिष्ठन्ति । चारित्राणामेव तद्रक्षकत्वान्नास्मद्रक्ष्यास्त इति भावः ॥ २।४५।२५ ॥
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः ।
त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम् ॥ २।४५।२६ ॥
अद्य मत्प्रार्थनया निवर्त्तध्वमित्यत्राह–नेति । त्वद्गतौ त्वन्निवर्त्तनरूपगतौ । मतिः सुकृता सुष्ठु कृता । निश्चयः वनगमननिश्चयः । पुनर्न कार्यः, त्वयेति शेषः । त्वयि धर्मव्यपेक्षे पितृवचनपरिपालनरूपधर्मसापेक्षे सति । अस्माभिः धर्ममपेक्षितुं पालयितुं किं निमित्तं स्यात्, त्वयि वनं गते ऽस्माभिर्धर्म एव त्यक्तव्य इति भावः । यद्वा त्वयि धर्मपरायणे त्वयि तु धर्मव्यपेक्षे सति ब्राह्मणप्रार्थनाकरणरूपधर्मनिरपेक्षे सति किंभूतं धर्ममपेक्षितुं स्यात् न किमपीत्यर्थः ॥ २।४५।२६ ॥
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः ।
शिरोभिर्निभृताचार महीपतनपांसुलैः ॥ २।४५।२७ ॥
ज्ञान वयस्तपोवृद्धा अपि द्विजा विश्लेषासहिष्णुतया प्रणामेनापि निवर्त्तयितुमुद्युञ्जते–याचित इति । हे निभृताचार निश्चलधर्मानुष्ठान हंसशुक्लशिरोरुहैः पलितकेशैः । महीपतनपांसुलैः कृतसाष्टाङ्गप्रणामैः । नः अस्माकम् शिरोभिर्याचितो निवर्त्तस्व । वृद्धब्राह्मणानां क्षत्रियकुमारप्रणामः परत्वबुद्ध्या ॥ २।४५।२७ ॥
बहूनां वितता यज्ञा द्विजानां य इहागताः ।
तेषां समाप्तिरायत्ता तव वत्स निवर्त्तने ॥ २।४५।२८ ॥
बहूनामिति । ये द्विजा इहागतास्तेषां ये यज्ञाः वितताः विस्तृताः, सम्भृतसम्भारा इति यावत् । तेषां यज्ञानां समाप्तिस्तव निवर्त्तने आयत्ता, त्वन्निवर्त्तनाधीनेत्यर्थः । एवं न कृतञ्चेत्सर्वे यज्ञास्त्वयैव विघ्निताः स्युरिति भावः ॥ २।४५।२८ ॥
भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च ।
याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ॥ २।४५।२९ ॥
न केवलं वयमेव, तिर्यक्स्थावराण्यपि त्वन्निवृत्तिमपेक्षन्त इत्याह–भक्तिमन्तीति । भक्तिं स्नेहम् । दर्शय सफलयेत्यर्थः ॥ २।४५।२९ ॥
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः ।
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ २।४५।३० ॥
अनुगन्तुमिति । मूलैः पादस्थानीयैस्त्वामनुगन्तुमशक्ताः । उद्धतवेगिनः प्रतिहतवेगिनः । वायुवेगेन उन्नताः ऊर्ध्वबाहव इव स्थिता इति भावः । पादपाः विक्रोशन्तीव, क्रन्दन्तीव वायुवेगोत्थशब्दैरिति भावः । उद्धतवेगिभिरित्यपि पाठः ॥ २।४५।३० ॥
निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः ।
पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ॥ २।४५।३१ ॥
निश्चेष्टेति । चेष्टा चलनादिकम् आहारः सञ्चाराश्च येभ्यो निर्गतास्ते तथोक्ताः । प्रयाचन्ते प्रार्थयन्ते, निवृत्तिमिति शेषः । एवं तिर्यक्स्थावराणामपि खेदो रामस्य सर्वशरीरित्वात् शरीरिणो वैपरीत्ये हि शरीरव्यथा दृष्टा ॥ २।४५।३१ ॥
एवं विक्रोशतां तेषां द्विजातीनां निवर्त्तने ।
ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ २।४५।३२ ॥
एवमिति । निवर्तने विषये । यद्वा द्विजातीनामिति सम्बन्धसामान्ये षष्ठी । द्विजातिभिः प्रार्थ्यमानरामनिवर्त्तन
इत्यर्थः ॥ २।४५।३२ ॥
ततः सुमन्त्रो ऽपि रथाद्विमुच्य श्रान्तान् हयान् सम्परिवर्त्त्य शीघ्रम् ।
पीतोदकांस्तोयपरिप्लुताङ्गानचारयद्वै तमसाविदूरे ॥ २।४५।३३ ॥
तत इति । संपरिवर्त्त्य अध्यश्रमनिवृत्त्यर्थं परिवेष्टनं कारयित्वा अचारयत् भक्षितयवसानकरोत् ॥ २।४५।३३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥