विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।
इदं धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ २।४४।१ ॥
विलपन्तीमित्यादि । इदं वक्ष्यमाणम् ॥ २।४४।१ ॥
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः ।
किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २।४४।२ ॥
सत्पुरुषाचरितं धर्ममाचरन्तं रामं प्रति सन्तोषे कर्त्तव्ये किमर्थो विषादः कृत इति कौसल्यां समाश्वोसयति–तवेत्यादिना ॥ २।४४।२ ॥
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः ।
साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ २।४४।३ ॥
शिष्टैराचरिते सम्यक्छश्वत् प्रेत्यफलोदये ।
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ २।४४।४ ॥
य इत्यादिश्लोकद्वयमेकं वाक्यम् । प्रेत्यफलोदये आमुष्मिकफलकारणे ॥ २।४४।३४ ॥
वर्त्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्मिन् सदा ऽनघः ।
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ २।४४।५ ॥
पितृवचनपरिपालके रामे शोको न कार्य इत्युक्त्वा लक्ष्मणसीतयोरपि स्वधर्मनिष्ठत्वात् तद्विषयेपि शोको न कार्यः, अपितु प्राप्तलाभत्वात् सन्तोष एव कार्य इत्याह–वर्तत इत्यादिना । अत्र व इति गायत्र्याः पञ्चमाक्षरम् । वर्तते करोति । वृत्तिं शुश्रूषाम् । अस्मिन् रामे । तस्य लक्ष्मणस्य ॥ २।४४।५ ॥
अरण्यवासेव यद्दुःखं जानती वै सुखोचिता ।
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ २।४४।६ ॥
अरण्येति । अरण्यवासे यद्दुःखं तद्दुःखं जानती वै जानन्त्येव । तवात्मजमनुगच्छति “स्त्रीणां भर्त्ता हि दैवतम्” इत्युक्तरीत्यानुगच्छतीत्यर्थः ॥ २।४४।६ ॥
कीर्त्तिभूतां पताकां यो लोके भ्रमयति प्रभुः ।
धर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः ॥ २।४४।७ ॥
कीर्तीति । कीर्तिभूतां पताकां कीर्तिरूपं ध्वजम् । भ्रामयति सञ्चारयति सर्वभूतविदितप्रख्यातिक इत्यर्थः । तवात्मजः किं श्रेयः न प्राप्तः, सर्वस्यापि श्रेयसो योग्य इत्यर्थः । अतो न शोच्य इति भावः ॥ २।४४।७ ॥
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् ।
न गात्रमंशुभिः सूर्यः सन्तापयियुमर्हति ॥ २।४४।८ ॥
तदेतद्विशिनष्टि–व्यक्तमित्यादि । शौचं त्रिविधकरणशुचित्वम् । माहात्म्यं सर्वोत्तमत्वम् ॥ २।४४।८ ॥
शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः ।
राघवं युक्तशीतोष्णः सेविष्यति सुखो ऽनिलः ॥ २।४४।९ ॥
शिव इति । सर्वेषु कालेषु वसन्तादिकालेषु । युक्तशीतोष्णः तत्तत्कालोचितद्रव्यसंस्पर्शनेन सम्पादितशीतोष्णस्पर्श इत्यर्थः ॥ २।४४।९ ॥
शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।
रश्मिभिः संस्पृशन् शीतैश्चन्द्रमा ह्लादयिष्यति ॥ २।४४।१० ॥
“भीषास्माद्वातः पवते” इतिश्रुत्यर्थमभिव्यनक्ति–शिव इत्यनुद्वेगकारित्वेन मान्द्यमुक्तम् । काननेभ्य इति सौरभ्यमुक्तम् । विनिस्सृत इति शैत्यमुक्तम् ॥ २।४४।१० ॥
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ २।४४।११ ॥
ददाविति । तिमिध्वजः शम्बरः । “वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः । स शम्बर इति ख्यातः शतमायो महासुरः ॥ " इत्युक्तत्वात् तत्सुतं दानवेन्द्रं हतं दृष्ट्वा यस्मै रामाय दिव्यास्त्राणि ददौ। “यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा। गत्वा सौमित्रिसहितो नाविजित्य निवर्त्तते ॥ " इत्युक्तत्वात् । कदाचिद्रामो दण्डकारण्यं गत्वा वैजयन्तपुरं निरुध्य दशरथविरोधिभूतं शम्बरसुतं हतवान्, तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददावित्यवगम्यते ॥ २।४४।११ ॥
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।
असन्त्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ॥ २।४४।१२ ॥
स शूर इति । अरण्यस्थो ऽपीत्यन्वयः ॥ २।४४।१२ ॥
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः ।
कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ २।४४।१३ ॥
वने रामस्य सौख्यं भवतु, भरतस्य रूढमूलत्वाद्रामस्य राज्यं न सिद्ध्यतीत्याशङ्क्याह–यस्येति ॥ २।४४।१३ ॥
या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता ।
निवृत्तारण्यवासः स क्षिप्रं राज्यमवाप्स्यति ॥ २।४४।१४ ॥
येति । रामस्य या श्रीः सर्वलक्षणसम्पन्ना गात्रशोभा । यच्च शौर्यं शूरो जेता, तस्य भावः शौर्यम् । “शूरो वीरश्च विक्रान्तो जेता” इत्यमरः । या च कल्याणसत्त्वता प्रशस्तबलयुक्तता । एतैरसाधारणहेतुभिः स रामः क्षिप्रं राज्यमवाप्स्यतीति सम्बन्धः ॥ २।४४।१४ ॥
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ।
श्रियः श्रीश्च भवेद्ग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा ॥ २।४४।१५ ॥
सूर्यस्येत्यादि । सूर्यस्यापि सूर्यो भवेत् सकलजगत्प्रकाशकस्य सूर्यस्यापि प्रकाशको भवेत् । अग्नेरग्निः दाहकस्याप्यग्नेर्दाहकः । प्रभोः प्रभुः सर्वनियन्तुरपि नियन्ता । श्रियः श्रीः सम्पदोपि सम्पत् । यद्वा कान्तेरपि कान्तिः, कान्तेरप्यतिशयावह इत्यर्थः । क्षमाक्षमा क्षमाया अप्यतिशयो ऽनेनेति भावः ॥ २।४४।१५ ॥
दैवतं दैवतानां च भूतानां भूतसत्तमः ।
तस्य के ह्यगुणा देवि राष्ट्रे वाप्यथवा पुरे ॥ २।४४।१६ ॥
दैवतं दैवतानां च दैवतानामपि सकलकार्यनिर्वहणक्षम इत्यर्थः । भूतानां भूतसतमः, उत्तमभूतमित्यर्थः । भूतत्वं सत्ता सर्वेषां सत्ता तत्सत्ताधीनेति भावः । तस्यैवम्भूतस्य सर्वगुणसम्पन्नस्य देशे वने वा पुरे वा के अगुणाः ? न कोपीत्यर्थः । अगुणः प्रतिबन्धकीभूत इति यावत् ॥ २।४४।१६ ॥
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।
क्षिप्रं तिसृभिरेताभिः स ह रामो ऽभिषेक्ष्यते ॥ २।४४।१७ ॥
पृथिव्येति । सहेत्यत्र स इति पदच्छेदः । स रामः पृथिव्या वैदेह्या श्रिया विजयलक्ष्म्या च एताभिः तिसृभिः सह क्षिप्रमभिषेक्ष्यते हेति सम्बन्धः ॥ २।४४।१७ ॥
दुःखजं विसृजत्यास्रं निष्क्रामन्तमुदीक्ष्य यम् ।
अयोध्यायां जनाः सर्वे शोकवेगसमाहताः ॥ २।४४।१८ ॥
दुःखजमिति । अस्य श्लोकस्य पृथिव्या सहेति पूर्वश्लोकस्थेन स रामोभिषेक्ष्यत इत्यनेन सम्बन्धः ॥ २।४४।१८ ॥
कुशचीरधरं देवं गच्छन्तमपराजितम् ।
सीतेवानुगता लक्ष्मीः तस्य किन्नाम दुर्ल्लभम् ॥ २।४४।१९ ॥
कुशचीरेति । लक्ष्मीरिव स्थिता सीता अनुगतेत्यन्वयः । अनेन राज्यश्रीरन्यन्न परिगृह्णातीति द्योत्यते ॥ २।४४।१९ ॥
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।
लक्ष्मणो व्रजति ह्यग्रे तस्य किन्नाम दुर्ल्लभम् ॥ २।४४।२० ॥
निवृत्तवनवासं तं द्रष्टासि पुनरागतम् ।
जहि शोकं च मोहं च देवि सत्यं ब्रवीमिते ॥ २।४४।२१ ॥
धनुर्ग्रहेति । धनुर्ग्रहवरः धनुर्द्धरश्रेष्ठः ॥ २।४४।२०२१ ॥
शिरसा चरणावेतौ वन्दमानमनिन्दिते ।
पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥ २।४४।२२ ॥
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् ।
समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ॥ २।४४।२३ ॥
शिरसेति । एतौ परिदृश्यमानसर्वलक्षणसम्पन्नौ । उदितं चन्द्रं प्रतिपच्चन्द्रम् ॥ २।४४।२२२३ ॥
मा शोको देवि दुःखं वा न रामे दृश्यते ऽशिवम् ।
क्षिप्रं द्रक्ष्यसि पुत्रं तं ससीतं सहलक्ष्मणम् ॥ २।४४।२४ ॥
मा शोक इति । हे देवि रामे अशिवम् अशुभम् न दृश्यते । अतः शोकः प्रलापादिः दुःखं मनोव्यथा वा मा न कार्यमित्यर्थः ॥ २।४४।२४ ॥
त्वया ऽशेषो जनश्चैव समाश्वास्यो यदा ऽनघे ।
किमिदानीमिमं देवि करोषि हृदि विक्लवम् ॥ २।४४।२५ ॥
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः ।
न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥ २।४४।२६ ॥
त्वयेति । विक्लवम्, भावप्रधानो निर्देशः ॥ २।४४।२५२६ ॥
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।
मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥ २।४४।२७ ॥
पुनस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ।
पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २।४४।२८ ॥
अभिवादयमानमिति । मेघलेखा मेघपङ्क्तिः ॥ २।४४।२७२८ ॥
अभिवाद्यनमस्यन्तं शूरं ससुहृदं सुतम् ।
मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ॥ २।४४।२९ ॥
अभिवाद्येति । अभिवाद्यनमस्यन्तम् अभिवादनपूर्वकं प्रणमन्तम् ॥ २।४४।२९ ॥
आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशला ऽनवद्या ।
रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ॥ २।४४।३० ॥
निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः ।
सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः ॥ २।४४।३१ ॥
आश्वासयन्तीति । वाक्योपचारे वाक्यैरुपचारविषये ॥ २।४४।३०३१ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥