०४३ कौसल्याक्रोशः

ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् ।

कौसल्या पुत्रशोकार्त्ता तमुवाच महीपतिम् ॥ २।४३।१ ॥

तत इत्यादि ॥ २।४३।१ ॥

राघवे नरशार्दूले विषमुप्त्वा विजिह्मताम् ।

विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २।४३।२ ॥

विवास्य रामं सुभगा लब्धकामा समाहिता ।

त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ २।४३।३ ॥

राघव इति । विजिह्मतां विषं कौटिल्यरूपं विषम् । राघवे उप्त्वा निक्षिप्य । निर्मुक्ता मुक्तकञ्चुकी “निर्मुक्तो मुक्तकञ्चुकः” इत्यमरः । अनेन क्रौर्यातिशय उक्तः ॥ २।४३।२३ ॥

अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत् ।

कामकारो वरं दातुमपि दासं ममात्मजम् ॥ २।४३।४ ॥

अथ स्मेति । अथापि भरते राज्यदानस्यावश्यकत्वेपि । रामो नगरे भैक्षं चरन् सन् गृहे वसेत्, वने विवासनं किमर्थम् ? राज्याभावेपि ममात्मजं भरतस्य दासं दातुं कामकारः इच्छा । वरं वनवासाच्छ्रेष्ठतमः ॥ २।४३।४ ॥

पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः ।

प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ २।४३।५ ॥

गजराजगतिर्वीरो महाबाहुर्धनुर्धरः ।

वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥ २।४३।६ ॥

पातयित्वेति । रामं स्वस्थानात् यथेष्टतः स्वेच्छया अमर्यादया पातयित्वा त्वया रामाय प्रदेयो राज्यभागः कैकेय्याः प्रदिष्टः । कथमिव आहिताग्निना पर्वणि देवेभ्यो देयः हविर्भागः पुरोडाशैकदेशः रक्षसामिव, सर्वथानुचितं त्वया कृतमिति भावः ॥ २।४३।५६ ॥

वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया ।

त्यक्तानां वनवासाय कान्ववस्था भविष्यति ॥ २।४३।७ ॥

वन इति । वने अदृष्टदुःखानाम् अदृष्टवनदुःखानामित्यर्थः । कैकेय्यानुमते कैकैय्या अनुमते स्थितेनेति शेषः । सवर्णदीर्घ आर्षः । त्यक्तानां सीतारामलक्ष्मणानाम् ॥ २।४३।७ ॥

ते रत्नहीनास्तरुणाः फलकाले विवासिताः ।

कथं वत्स्यन्ति कृपणः फलमूलैः कृताशनाः ॥ २।४३।८ ॥

त इति । रत्नहीनाः श्रेष्ठवस्तुहीनाः । “रत्नं स्वजातिश्रेष्ठेपि” इत्यमरः । प्रवरशय्यासनादिहीना इत्यर्थः । तरुणी च तरुणौ च तरुणाः । “पुमान् स्त्रिया” इत्येकशेषः । फलकाले फलभोगकाले ॥ २।४३।८ ॥

अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः ।

सभार्य्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ २।४३।९ ॥

अपीति । स कालः वनात्प्रत्यागमनकालः । अपिः संभावनायाम् । इदानीमद्यदिने स्यात् स्यात्किमित्यर्थः । शोकक्षयः शोकक्षयकरः । यत् यस्मिन्काले ॥ २।४३।९ ॥

सुप्त्वेवोपस्थितौ वीरौ कदायोध्यां गमिष्यतः ।

यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ २।४३।१० ॥

सुप्त्वेति । उपस्थितौ नगरसमीपमागतौ ॥ २।४३।१० ॥

कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ ।

नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ २।४३।११ ॥

कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ।

पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ २।४३।१२ ॥

कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।

लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ २।४३।१३ ॥

कदेति । पुरी पौरजनः ॥ २।४३।१११३ ॥

प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ ।

उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ २।४३।१४ ॥

प्रविशन्ताविति । उदग्रायुधनिस्त्रिंशौ आयुधशब्देनात्र धनुरुच्यते । निस्त्रिंशः खड्गः “खड्गे तु निस्त्रिंशः” इत्यमरः ॥ २।४३।१४ ॥

कदा सुमनसः कन्या द्विजातीनां फलानि च ।

प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ २।४३।१५ ॥

कदेति । द्विजातीनां ब्राह्मणानाम् । कन्याः सुमनसः पुष्पाणि फलानि च प्रदिशन्त्यः सत्यः पुरीं कदा प्रदक्षिणम् करिष्यन्ति । अयमौत्तराणां मङ्गलाचारः ॥ २।४३।१५ ॥

कदा परिणतो बुद्ध्या वयसा चामरप्रभः ।

अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन् ॥ २।४३।१६ ॥

कदेति । बुद्ध्या परिणतः, ज्ञानवृद्ध इत्यर्थः । वयसा च अमरप्रभः, पञ्चविंशतिवर्ष इत्यर्थः । अमरा हि सदा पञ्चविंशतिवर्षाः । लालयन् लालनां जनयन् ॥ २।४३।१६ ॥

निस्संशयं मया मन्ये पुरा वीर कदर्यया ।

पातुकामेषु वत्सेषु मातृ़णां शासिताः स्तनाः ॥ २।४३।१७ ॥

निस्संशयमिति । कदर्यया क्षुद्रया । पातुकामेषु स्तन्यपानकामेषु । शातिताः वियोजिता इति यावत् ॥ २।४३।१७ ॥

साहं गौरिव सिंहेन विवत्सा वत्सला कृता ।

कैकेय्या पुरुषव्याघ्र बलावत्सेव गौर्बलात् ॥ २।४३।१८ ॥

साहमिति । बालवत्सा गौरिव वत्सला साहं सिंहेन गौरिव कैकेय्या बलाद्विवत्सा कृतेति सम्बन्धः ॥ २।४३।१८ ॥

न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् ।

एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ २।४३।१९ ॥

नहीति । तावद्गुणैर्जुष्टं यावन्तः कल्याणगुणाः सन्ति तावद्भिर्गुणैर्युक्तमित्यर्थः ॥ २।४३।१९ ॥

न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते ।

अपश्यन्त्याः प्रियः पुत्रं महाबाहुं महाबलम् ॥ २।४३।२० ॥

नहीति । कल्प्यते दैवेनेति शेषः । कल्पत इति पाठे–विद्यत इत्यर्थः ॥ २।४३।२० ॥

अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशनः ।

महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान् दिवाकरः ॥ २।४३।२१ ॥

अयमिति । दीपयते सन्तापयति । उद्धूतप्रभः उत्कटकिरणः ॥ २।४३।२१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥