०३९ वनप्रस्थानम्

ताश्चापि स तथैवार्ता मातृ़र्दशरथात्मजः ।

धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ २।३९।३७ ॥

ता इति । तथैवार्त्ताः कौसल्येव दुःखिताः ॥ २।३९।३७ ॥

संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् ।

तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ २।३९।३८ ॥

संवासादिति । संवासात् एकत्र सहवासात्, चिरपरिचयादित्यर्थः । समनुजानीत क्षान्तमित्यनुज्ञां कुरुतेत्यर्थः । आमन्त्रयामि आपृच्छामि ॥ २।३९।३८ ॥

वचनं राघवस्यैतद्धर्मयुक्तं समाहितम् ।

शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ २।३९।३९ ॥

जज्ञे ऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः ।

मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ २।३९।४० ॥

वचनमिति । समाहितं समीचीनार्थयुक्तमित्यर्थः ॥ २।३९।३९४० ॥

मुरजपणमवेघघोषवद्दशरथवेश्म बभूव यत् पुरा ।

विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम् ॥ २।३९।४१ ॥

मुरजपणवेति । मुरजपणवा एव मेघास्तेषां घोषास्तद्वत् । यद्वा मुरजादिसहपाठात् मेघोपि वाद्यविशेषः । मुरजश्च पणवश्च मेघश्च मुरजपणवमेघम् । “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इत्येकवद्भावः । तद्धोषात् । विलपितपरिदेवनाकुलं विविधानि लपितानि रामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानि यस्मिंस्तद्विलपितं परिदेवनं रोदनशब्दः तेनाकुलम् । व्यसनगतम् आपद्गतम् अत एव दुःखितमभूत् ॥ २।३९।४१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये० एकोनचत्वारिंशः सर्गः ॥ ३९ ॥

इति श्रीगो० श्रीरा० पीता० अयो० एकोनचत्वारिंशः सर्गः ॥ ३९ ॥