तस्यां चीरं वसानायां नाथवत्यामनाथवत् ।
प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति ॥ २।३८।१ ॥
तस्यामित्यादि । त्वां धिगिति दशरथं चुक्रोशेत्यर्थः ॥ २।३८।१ ॥
तेन तत्र प्रणादेन दुःखितः स महीपतिः ।
चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ २।३८।२ ॥
स निश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् ।
कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ २।३८।३ ॥
सुकुमारी च बाला च सततं च सुखोचिता ।
नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ २।३८।४ ॥
तेनेति । श्रद्धाम् आदरम् ॥ २।३८।२४ ॥
इयं हि कस्यापकरोति किंचित् तपस्विनी राजवरस्य कन्या ।
या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ २।३८।५ ॥
इयमिति । तपस्विनी पातिव्रत्यतपोयुक्ता । विसंज्ञा मुग्धा । श्रमणीव तपस्विनीव । “श्रमु तपसि खेदे च” इति धातुः ॥ २।३८।५ ॥
चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा ।
यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः ॥ २।३८।६ ॥
चीराणीति । अपास्यात् त्यजतु । इयं प्रतिज्ञा सीतायाश्चीरधारणपूर्वकवनगमनरूपप्रतिज्ञा । मम मया । तृतीयार्थे षष्ठी । समग्रा वस्त्रालङ्कारसम्पूर्णा । सर्वरत्नैः सर्वश्रेष्ठवस्तुभिः ॥ २।३८।६ ॥
अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् ।
त्वया हि बाल्यात् प्रतिपन्नमेतत्तन्मां दहेद्वेणुमिवात्मपुष्पम् ॥ २।३८।७ ॥
अजीवनार्हेणेति । अजीवनार्हेण्ा जीवनानर्हेण । आसन्नमरणेनेति यावत् । मया, नृशंसा क्रूरा । प्रतिज्ञा त्वत्प्रार्थितं करिष्यामीति शपथपूर्विका प्रतिज्ञा । तावत् प्रथमं कृता । त्वया हि दत्तवरद्वयया । बाल्यात् बालिशत्वात् । एतत् प्रतिज्ञानम् । नियमेन भरताभिषेकरामविवासनरूपविषयव्यवस्थया । प्रतिपन्नं निश्चितम् । तत् मत्कृतप्रतिज्ञानम् । आत्मपुष्पं वेणुमिव मां दहेदिति योजना ॥ २।३८।७ ॥
रामेण यदि ते पापे किञ्चित्कृतमशोभनम् ।
अपकारः क इह ते वैदेह्या दर्शितो ऽथ मे ॥ २।३८।८ ॥
कोपे रामापराधमभ्युपेत्याह–रामेणेति । अशोभनम् अपराधः । इह विवासे । दर्शितः सम्पादित इति यावत् ॥ २।३८।८ ॥
मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी ।
अपकारं कमिह ते करोति जनकात्मजा ॥ २।३८।९ ॥
मृगीति । मृगीवोत्फुल्लनयनेत्यनेन मौग्ध्यमुक्तम् । मृदुशीलेत्यनेन अपराधभीरुत्वमुक्तम् ॥ २।३८।९ ॥
ननु पर्याप्तमेतत्ते पापे रामविवासनम् ।
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ २।३८।१० ॥
नन्विति । पर्याप्तं यावदात्मभावि नरकानुभवायालम् ॥ २।३८।१० ॥
प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता ।
रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ २।३८।११ ॥
प्रतिज्ञातमिति । अभिषेकाय इहागतं रामं त्वं यदब्रवीः “सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः । अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस ॥ " इति यदब्रवीः। त्वयोक्तं तच्छृण्वता मया। तावत् रामविवासनमात्रमेव प्रतिज्ञातम्, न तु सीताप्रव्राजनमिति भावः ॥ २।३८।११ ॥
तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि ।
मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ २।३८।१२ ॥
इतीव राजा विपलन् महात्मा शोकस्य नान्तं स ददर्श किंचित् ।
भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः ॥ २।३८।१३ ॥
तदिति । मया प्रतिज्ञातमतिक्रम्य । निरयं नरकं गन्तुमिच्छसि । कुतः ? हि यस्मात् या त्वं मैथिलीमपि चीरवासिनीमीक्षसे वाञ्छसि ॥ २।३८।१२१३ ॥
एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् ।
अवाक्छिरसमासीनमिदं वचनमब्रवीत् ॥ २।३८।१४ ॥
एवमिति । सम्प्रस्थितः गन्तुमुद्यतः ॥ २।३८।१४ ॥
इयं धार्मिक कौसल्या मम माता यशस्विनी ।
वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ॥ २।३८।१५ ॥
मया विहीनां वरद प्रपन्नां शोकसागरम् ।
अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि ॥ २।३८।१६ ॥
इयमित्यादि । प्रपन्नां प्राप्ताम् । भूयः अतिशयेन । सम्मन्तुं सम्मानयितुम् । ज्येष्ठपत्नीत्वेन पूर्वमेव सम्मानिता । अद्य विशेषेण मद्याञ्चयेति भाव ॥ २।३८।१५१६ ॥
पुत्रशोकं यथा नर्च्छेत्त्वया पूज्येन पूजिता ।
मां हि सञ्चिन्तयन्तीयमपि जीवेत्तपस्विनी ॥ २।३८।१७ ॥
पुत्रशोकमिति । पुत्रशोकं यथा नर्च्छेत्तथा संमन्तुमर्हसीति पूर्वेण सम्बन्धः । यद्वा उत्तरेणैवान्वयः । मां सञ्चिन्तयन्तीयं तपस्विनी अपि जीवेत् यदि जीवेत्तदा त्वया पूजिता सती पुत्रशोकं यथा नर्च्छेन्न गच्छेत्तथा कुर्वित्यर्थः । न मच्छोकाद्यथा नश्येत्तथा त्वया पूज्येन पूजिता । मां हि सञ्चिन्तयन्तीयं त्वयि जीवेत्तपस्विनी इत्यपि पाठः । पूर्वार्द्धस्य पूर्वेणान्वयः । त्वयि विषये जीवेत् मां चिन्तयन्त्यपि त्वदुपलालनेन जीवेदित्यर्थः । यद्वा मां सञ्चिन्तयन्ती मच्छोकाद्यथा न नश्येत्तथा त्वया पूजिता । त्वयि जीवेदित्येकं वाक्यम् ॥ २।३८।१७ ॥
इमां महेन्द्रोपम जातगर्धिनीं तथा विधातु जननीं ममार्हसि ।
यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ २।३८।१८ ॥
इमामिति । जातगर्धिनीं पुत्रदर्शनकांक्षिणीमित्यर्थः । न्यस्य त्यक्त्वा ॥ २।३८।१८ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे ऽष्टत्रिंशः सर्गः ॥ ३८ ॥
इति श्रीगोविन्द० श्रीरा० पीता० अयो० अष्टत्रिंशः सर्गः ॥ ३८ ॥