०३७ रामादिभिः चीरपरिधानम्

महामात्रवचः श्रुत्वा रामो दशरथं तदा ।

अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ २।३७।१ ॥

महामात्रेत्यादि । महामात्रवचः सिद्धार्थवचः । विनीतवत् विनीत इव । अभ्यभाषत सविनयमाहेत्यर्थः ॥ २।३७।१ ॥

त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः ।

किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ २।३७।२ ॥

त्यक्तभोगस्येति । अनुयात्रेण अनुगतबलेन । भोगत्यागेपि सङ्गो वर्त्तते लौकिकानां, सोपि नास्तीत्याह त्यक्तसङ्गस्य सर्वत इति ॥ २।३७।२ ॥

यो हि दत्त्वा गजश्रेष्ठं कक्ष्यायां कुरुते मनः ।

रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ २।३७।३ ॥

य इति । कक्ष्यायाम् इभबन्धनरज्जौ “कक्ष्या प्रकोष्ठे हर्म्यादौ काञ्च्यां मध्येभबन्धने” इत्यमरः ॥ २।३७।३ ॥

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते ।

सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ २।३७।४ ॥

तथेति । ध्वजिन्या सेनया । सर्वाणि त्वया मह्यं दातुमुद्युक्तानि । अनुजानामि प्रददामि । भरतायेति शेषः । सर्वाणि कार्याणि सम्यक्जानामीति वार्थः । चीराणि वल्कलवस्त्राणि । आनयन्तु परिचारका इति शेषः ॥ २।३७।४ ॥

खनित्रपिटके चोभे समानयत गच्छत ।

चतुर्दश वने वासं वर्षाणि वसतो मम ॥ २।३७।५ ॥

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् ।

उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ २।३७।६ ॥

खनित्रपिटकेति । खनित्रपिटके खनित्रम् अवदारणम्, पिटकम् अल्पार्थे कन्प्रत्ययः । फलमूलाद्याहरणयोग्याल्पकण्डोलः । “कण्ठोलपिटौ” इत्यमरः । वासं वसतः वासं कुर्वत इत्यर्थः ॥ २।३७।५६ ॥

स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ।

सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्तह ॥ २।३७।७ ॥

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ।

तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ २।३७।८ ॥

स इति । स रामः कैकेय्यास्सकाशात् मुनिवस्त्राणि परिगृह्य तेषु द्वे चीरे उत्तरीयान्तरीयरूपे । सूक्ष्मवस्त्रमवक्षिप्य अवस्तह, आदीधरदित्यर्थः ॥ २।३७।७८ ॥

अथात्मपरिधानार्थं सीता कौशेयवासिनी ।

समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव ॥ २।३७।९ ॥

अथेति । सन्त्रस्ता, अभवदिति शेषः । पृषती मृगी । वागुरां मृगबन्धनीम् “वागुरा मृगबन्धनी” इत्यमरः ॥ २।३७।९ ॥

सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः ।

कैकेयीकुशचीरे ते जानकी शुभलक्षणा ॥ २।३७।१० ॥

अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी ।

गन्धर्वराजप्रतिमं भर्त्तारमिदमब्रवीत् ॥ २।३७।११ ॥

सेति । व्यपत्रपमाणा विशेषेण लज्जमाना । कैकेयीकुशचीरे कैकेयीसम्बन्धिनी कुशचीरे । धर्मज्ञा पातिव्रत्यधर्मज्ञा । धर्मदार्शिनी स्वानुष्ठानेन पातिव्रत्यधर्मप्रदर्शिनी । बध्नन्तीतीदमब्रवीदिति सम्बन्धः ॥ २।३७।१०११ ॥

कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ।

इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ २।३७।१२ ॥

कथमिति । मुमोह स्तब्धा बभूवेत्यर्थः ॥ २।३७।१२ ॥

कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना ।

तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥ २।३७।१३ ॥

तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः ।

चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ २।३७।१४ ॥

रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् ।

अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ २।३७।१५ ॥

तदेव विवृणोति–कृत्वेति ॥ २।३७।१३१५ ॥

ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् ।

वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ २।३७।१६ ॥

ऊचुरिति । एवं त्वमिव इयं सीता वनवासे न नियुक्तेति, पित्रेति यावत् ॥ २।३७।१६ ॥

पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् ।

तावद्दर्शनमस्यां नः सफलं भवतु प्रभो ॥ २।३७।१७ ॥

लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक ।

नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ २।३७।१८ ॥

कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी ।

धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ २।३७।१९ ॥

पितुरिति । तावत् तवागमनपर्यन्तम् । पितुर्वाक्यानुरोधेन विजनं वनं गतस्य तव दर्शनम् । अस्यां सफलं भवतु, त्वामिवैनां द्रक्ष्याम इति भावः ॥ २।३७।१७१९ ॥

तासामेवंविधा वाचः शृण्वन् दशरथात्मजः ।

बबन्धैव तदा चीरं सीतया तुल्यशीलया ॥ २।३७।२० ॥

चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।

निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ २।३७।२१ ॥

तासामिति । सीतयेति षष्ठ्यर्थे तृतीया । बबन्धैवेति कैकेय्यनुज्ञाभावादिति भावः ॥ २।३७।२०२१ ॥

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि ।

वञ्चयित्वा च राजानं न प्रमाणे ऽवतिष्ठसे ॥ २।३७।२२ ॥

अतीति । अतिप्रवृत्ते अतिक्रम्य प्रवर्त्तमाने प्रमाणे मर्यादायाम् । “प्रमाणं हेतुमर्यादाशास्त्रयत्नप्रमातृषु” इत्यमरः ॥ २।३७।२२ ॥

न गन्तव्यं वनं देव्या सीतया शीलवर्जिते ।

अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ २।३७।२३ ॥

न गन्तव्यमिति । प्रकृतं प्रस्तुतम् । आसनं सिंहासनम् । अनुष्ठास्यति अधिष्ठास्यति ॥ २।३७।२३ ॥

आत्मा हि दाराः सर्वेषां दारसङ्ग्रहवर्तिनाम् ।

आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ २।३७।२४ ॥

अथ यास्यति वैदेही वनं रामेण सङ्गता ।

वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ २।३७।२५ ॥

आत्मेति । दारसङ्ग्रहवर्त्तिनां गृहस्थानाम् । आत्मेयमिति “अर्द्धो वा एष आत्मनो यत्पत्नी” इति श्रुतेरिति भावः ॥ २।३७।२४२५ ॥

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।

सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २।३७।२६ ॥

भरतश्च सशत्रुघ्नः चीरवासा वनेचरः ।

वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥ २।३७।२७ ॥

ततः शून्यां गतजनां वसुधां पादपैः सह ।

त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ २।३७।२८ ॥

न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः ।

तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ २।३७।२९ ॥

अन्तपाला इति । अन्तपालाः राष्ट्रान्तपरिपालकाः दण्डनायकाः । सहोपजीव्यं जीवाजीवरूपधनसहितम् । सपरिच्छदं दासदासीशकटादिपरिकरयुक्तम् ॥ २।३७।२६२९ ॥

न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति ।

त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ २।३७।३० ॥

यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि ।

पितृवंशचरित्रज्ञः सो ऽन्यथा न करिष्यति ॥ २।३७।३१ ॥

अदत्तां प्रीतिपूर्वकमदत्ताम् ॥ २।३७।३०३१ ॥

तत्त्वया पुत्रगर्द्धिन्या पुत्रस्य कृतमप्रियम् ।

लोके हि न स विद्येत यो न राममनुव्रतः ॥ २।३७।३२ ॥

तदिति । पुत्रगर्द्धिन्या पुत्रविषयस्नेहयुक्तया ॥ २।३७।३२ ॥

द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान् ।

गच्छतः सह रामेण पादपांश्च तदुन्मुखान् ॥ २।३७।३३ ॥

द्रक्ष्यसीति । पादपांश्च तदुन्मुखानिति वृक्षाणां तदुन्मुखत्वं नाम रामविषयस्नेहासक्तत्वम् । तथोपरिष्टात् स्पष्टी भविष्यति “अपिवृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ।” इति ॥ २।३७।३३ ॥

अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम् ।

न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्ठः ॥ २।३७।३४ ॥

एवं वसिष्ठो भाव्यर्थमुक्त्वा प्रकृतमाह–अथेत्यादि । व्यपनीय निरस्य । प्रविधीयत इतीति वक्तव्ये प्रविधीयतेति सन्धिरार्षः ॥ २।३७।३४ ॥

एकस्य रामस्य वने निवासस्त्वया वृतः केकयराजपुत्रि ।

विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ॥ २।३७।३५ ॥

न प्रविधीयत इत्येतदुपपादयति–एकस्येति । प्रतिकर्मनित्या अलङ्कारनियता । नित्यमलङ्करणयोग्येत्यर्थः ॥ २।३७।३५ ॥

यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री ।

वस्त्रैश्च सर्वैः सहितैर्विधानैर्नेयं वृता ते वरसम्प्रदाने ॥ २।३७।३६ ॥

यानैरिति । विधानैः भृङ्गाराद्युपकरणैः ॥ २।३७।३६ ॥

तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे ।

नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ॥ २।३७।३७ ॥

तस्मिन्निति । प्रतिकारकामा प्रतिकारं सदृशकरणं कामयमाना, भर्तृसदृशतया वनवासकरणमिच्छन्तीत्यर्थः । विनिवृत्तभावा चीरपरिधानाद्विनिवृत्तभावा न बभूवेति ॥ २।३७।३७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥

इति श्रीगोविन्दराज० श्रीरामा० पीता० अयोध्याकाण्ड० सप्तत्रिंशः सर्गः ॥ ३७ ॥