०३६ सिद्धार्थस्य कैकेय्युपदेशः

ततः सुमन्त्रमैक्ष्वाकः पीडितो ऽत्र प्रतिज्ञया ।

स बाष्पमतिनिश्वस्य जगादेदं पुनःपुनः ॥ २।३६।१ ॥

तत इत्यादि । ततः कैकेयीसम्मत्यभावानन्तरम् । अत्र वरदानविषये ॥ २।३६।१ ॥

सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः ।

राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २।३६।२ ॥

सूतेति । अनुयात्रार्थं प्रतिविधीयतां प्रेष्यताम् ॥ २।३६।२ ॥

रूपाजीवाश्च वादिन्यो वणिजश्चमहाधनाः ।

शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ २।३६।३ ॥

रूपाजीवा इति । रूपाजीवा वेश्याः । “वारस्त्री गणिका वेश्या रूपाजीवा” इत्यमरः । वादिन्यः परचित्ताकर्षणचतुरवचनाः । सुप्रसारिताः शिबिरदेशे पण्यपदार्थप्रसारणं कुर्वन्तः ॥ २।३६।३ ॥

ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः ।

तेषां बहुविधं दत्त्वा तान्यप्यत्र नियोजय ॥ २।३६।४ ॥

य इति । एनं रामं बहुविधं सुवर्णरत्नवस्त्रादिकम् । अत्र वाहिन्याम् ॥ २।३६।४ ॥

आयुधानि च मुख्यानि नागराः शकटानि च ।

अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यगोचराः ॥ २।३५।५ ॥

आयुधानीति । आयुधानि आयुधधराः । नागराः नगराजाः श्रेष्ठिनः । शकटानि तैलघृतादिप्रापकाणि । व्याधाः वने मार्गदर्शिनः ॥ २।३६।५ ॥

निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु ।

नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥ २।३६।६ ॥

निघ्नन्निति । राज्यस्येति “अधीगर्थदयेशां कर्मणि” इति षष्ठी ॥ २।३६।६ ॥

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।

तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ २।३६।७ ॥

धान्यकोश इति । कोशो वासस्थानम् । अनुगच्छेतां गोण्युष्ट्रादिमुखेनेति शेषः ॥ २।३६।७ ॥

यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।

ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ २।३६।८ ॥

यजन्निति । विसृजत् दददिति यावत् । दक्षिणाः यज्ञदक्षिणाः ॥ २।३६।८ ॥

भरतश्च महाबाहुरयोध्यां पालयिष्यति ।

सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति ॥ २।३६।९ ॥

एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् ।

मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ २।३६।१० ॥

भरत इति । अयोध्यां पालयिष्यतीति सोपालम्भोक्तिः । सर्वकामैः सह साध्यतां प्रस्थाप्यताम् । इतिशब्दः नियोगसमाप्तिवाचकः ॥ २।३६।९१० ॥

सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता ।

राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ २।३६।११ ॥

सेति । मुखेनेत्युपलक्षणे तृतीया ॥ २।३६।११ ॥

राज्यं गतजनं साधो पीतमण्डां सुरामिव ।

निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ २।३६।१२ ॥

राज्यमिति । पीतमण्डां “मण्डं दधिभवं मस्तु” इति मण्डशब्दो यथा दधिसारवाचकः तद्वदत्रापि मण्डशब्देन सुरासार उच्यते । साधो इति सहासोक्तिः । निरास्वाद्यतमं निर्गतभोग्यवस्तुयुक्तम् ॥ २।३६।१२ ॥

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।

राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ २।३६।१३ ॥

कैकेय्यामिति । आयतलोचनामिति दैन्योक्तिमूलसौन्दर्योक्तिः ॥ २।३६।१३ ॥

वहन्तं किं तुदसि मां नियुज्य धुरि मा ऽहिते ।

अनार्ये कृत्यमारब्धं किन्न पूर्वमुपारुधः ॥ २।३६।१४ ॥

वहन्तमिति । हे अहिते अहितकारिणि धुरि वरदानहेतुकभरताभिषेचनरामविवासनरूपदुर्वहभारे । नियुज्य तथा वहन्तं मां वत्सतरमिव किं तुदसि व्यथयसि, त्वदाज्ञप्तरामविवासनकारिणं किमर्थं पुनरपि पीडयसीत्यर्थः । किमधुना पीड्यते ? पूर्वमेव भवता दत्तं खल्वित्यत्राह अनार्य इति । हे अनार्ये आरब्धं कृत्यं सेनाप्रेषणादिकम् । पूर्वं वरप्रार्थनाकाले किमर्थं नोपारुधः नोपरुद्धवती, न प्रार्थितवतीति यावत् । वरयाचनाकाले अनुद्घाटितत्वात् सेनाप्रेषणादिकं न निवर्त्तितव्यमिति भावः ॥ २।३६।१४ ॥

तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना ।

कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ २।३६।१५ ॥

तस्येति । द्विगुणं क्रुद्धा प्रकारान्तरेण मदभिमतं विघटयतीति बहुतरं क्रुद्धेत्यर्थः ॥ २।३६।१५ ॥

तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् ।

असमञ्ज इति ख्यातं तथा ऽयं गन्तुमर्हति ॥ २।३६।१६ ॥

यद्यपि पूर्वमिदं न वृतं तथाप्यर्थसिद्धमित्याशयेनाह–तवैवेति । उपारुधदिति निष्कासनमेवोच्यते । गन्तुमर्हतीति निर्देशात् तथायमिति निर्द्धन एवेत्यर्थः ॥ २।३६।१६ ॥

एवमुक्तो धिगित्वेन राजा दशरथो ऽब्रवीत् ।

व्रीडितश्च जनः सर्वः सा च तं नावबुध्यत ॥ २।३६।१७ ॥

एवमिति । प्रतिज्ञातातिरिक्तेपि चापलवतीं निन्दति । धिगिति । सा कैकेयी । तं व्रीडितं जनं नावबुध्यत नाजीगणत् ॥ २।३६।१७ ॥

तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।

शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ २।३६।१८ ॥

तत्रेति । महामात्रः प्रधानः । शुचिः अकुटिलः ॥ २।३६।१८ ॥

असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान् ।

सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ २।३६।१९ ॥

असमञ्ज इति । दाकान् बालकान् । तेन प्रक्षेपेण । सशब्दबुद्बुददजननेन हसन् रमत इत्यर्थः ॥ २।३६।१९ ॥

तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन् ।

असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्द्धन ॥ २।३६।२० ॥

तमिति । वृणीष्व अत्र नगरे स्थापय ॥ २।३६।२० ॥

तानुवाच ततो राजा किंनिमित्तमिदं भयम् ।

ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयो ऽब्रुवन् ॥ २।३६।२१ ॥

तानिति । भयमित्यनन्तरमितिकरणं द्रष्टव्यम् । प्रकृतयः प्रजाः ॥ २।३६।२१ ॥

क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः ।

सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते ॥ २।३६।२२ ॥

स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ।

तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ २।३६।२३ ॥

क्रीडत इति । उद्भ्रान्तचेतनः भ्रान्तबुद्धिः ॥ २।३६।२२२३ ॥

तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।

यावज्जीवं विवास्योयमिति स्वानन्वशात्पिता ॥ २।३६।२४ ॥

तमिति । अन्वशात् अनुशिष्टवान् ॥ २।३६।२४ ॥

स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् ।

दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥ २।३६।२५ ॥

स फालेति । फालं मन्दमूलादिखननसाधनम् पिटका तद्धारणपात्रम् । एकवद्भावः । गृह्य गृहीत्वा । अलोलयत् कन्दमूलाद्यर्थम् अखनदित्यर्थः । यथा पापकृत्तथाचरन् अलोलयदित्यन्वयः ॥ २।३६।२५ ॥

इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः ।

रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २।३६।२६ ॥

इतीति । उपरुध्यते विवास्यते ॥ २।३६।२६ ॥

न हि कञ्चन पश्यामो राघवस्यागुणं वयम् ।

दुर्ल्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ २।३६।२७ ॥

अथवा देवि दोषं त्वं कंचित् पश्यसि राघवे ।

तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम् ॥ २।३६।२८ ॥

अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च ।

निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ २।३६।२९ ॥

न हीति । निरयः निरयहेतुभूतो दोषः ॥ २।३६।२७२९ ॥

तदलं देवि रामस्य श्रिया विहतया त्वया ।

लोकतोपि हि ते रक्ष्यः परिवादः शुभानने ॥ २।३६।३० ॥

तदिति । विहतया श्रिया अलम् अभिषेकविघातं मा कुर्वित्यर्थः । रक्ष्यः परिहरणीयः । परिवादः निन्दा ॥ २।३६।३० ॥

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरः स्वनः ।

शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ २।३६।३१ ॥

श्रुत्वेति । श्रान्ततरः हीनतरः ॥ २।३६।३१ ॥

एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा ।

आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ २।३६।३२ ॥

अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च ।

सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥ २।३६।३३ ॥

एतदिति । एतद्वचः सिद्धार्थवचः । कृपणं कुत्सितमित्यर्थः । “कदर्ये कृपणक्षुद्र” इत्यमरः । कुचेष्टेत्येतदुपपादयति चेष्टाहीति ॥ २।३६।३२३३ ॥

इत्यार्षे श्रीरामायण्ो वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षङ्त्रिंशः सर्गः ॥ ३६ ॥

इति श्रीगो० श्रीरा० पीता० अयो० षट्त्रिंशः सर्गः ॥ ३६ ॥